________________
७८-८४]
एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ।
१ तुल्यागमास्तुल्यव्रतास्तुल्याचाराश्च मिथः परस्परं सब्रह्मचारिणः उच्यन्ते । समाने ब्रह्मण्यागमे गुरुकुले वा व्रतं चरन्तीत्येवंशीलाः सब्रह्मचारिणः । मिश्रास्तु- " ब्रह्म वेदस्तदेकस्माद् गुरोरध्येतुमभिन्नं ब्रह्मचर्याख्यं व्रतमाचरन्ति ये तेऽन्योन्यं सब्रह्मचारिण उच्यन्ते । उपचाराद् ब्रह्माध्ययनार्थम्, तमपि ब्रह्म, तच्चरन्तीति । ' व्रते ' ३ ।२।८० ॥ इति णिनिः, 'चरणे ब्रह्मचारिणि' ६ | ३ |८६ ॥ इति समानस्य सभावः " [ ] इति व्याख्यन् । एकं साधर्मिकस्य । 'साहमि' इति भाषा ॥
व्युत्पत्तिरत्नाकरकलिता
१० स्यात् पारम्पर्यमाम्नायैः सम्प्रदायो गुरुक्रमः ॥८०॥ १ परम्परायाः गुरुशिष्यप्रशिष्यादिसन्तानरूपाया: भावः पारम्पर्यम् । ब्राह्मणादित्वात् ष्यञ् । २ आम्नायते आम्नायः । 'म्ना अभ्यासे'(भ्वा.प.अ.), घञ्, 'आतो युक् चिण्कृतो:' ७ | ३ | ३३ ॥ ३ सं सम्यक् प्रदीयते सम्प्रदायः । 'डुदाञ् दाने ' (जु.उ.अ), भावे घञ्, 'आतो युक् चिण्कृतो: १७।३।३३ ॥ ४ गुरूणां क्रमो गुरुक्रमः । चत्वारि गुरुपरम्परायाः ॥८०॥ व्रतादीनं परिव्रज्या तपस्या नियमस्थितिः ।
१ आदीयते गृह्यते आदानम् । व्रतं शास्त्रविहितो नियमः । व्रतस्यादानं व्रतादानम् । २ परिव्रजनं परिव्रज्या | 'व्रज गतौ' २० (भ्वा.प.से.), 'परचिर्या परिसर्या मृगयाटाट्यादयश्च' (वा
३ | ३ | १०१ ॥ ) इत्यादिशब्दात् साधुः । प्रव्रज्या अपि । ३ तपश्चरणं तपस्या । 'कर्मणो रोमन्थ- तपोभ्यां वर्ति-चरो : ' ३|१|१५ ॥ इति क्यङि, 'अ प्रत्ययात् '३ । ३ । १०२ ॥ इत्यः । ४ नियमे व्रते स्थानं स्थितिः नियमस्थितिः । चत्वारि तपस्यायः ॥ अहिंसा सूनृताऽस्तेयब्रह्माकिञ्चनता यमाः ॥८१॥
१ हिंसनं हिंसा प्राणवियोगकरणम्, तदभावो अहिंसा । २ सूनृतं प्रियं सत्यं च वच: । ३ स्तेयम् अदत्तादानं, तदभावः अस्तेयम् । ४ ब्रह्म इति ब्रह्मचर्यं मैथुनत्यागः । ५ अकिञ्चनता परिग्रहत्यागः। यम्यते चित्तमेभिरिति यमाः । 'यमु नियमने' ३० (भ्वा.प.अ.) । एकं पञ्चमहाव्रतानाम् ॥ नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च
(२) नियम्यते संव्रियते निरुध्यते चित्तमेभिरिति नियमाः । 'यमु नियमने ' (भ्वा.प.अ.), 'यमः समुप-नि- विषु च'३ ।३ ।६३ ॥ इत्यप् । १ शुचेर्भावः कर्म वा शौचम्, कायमनसोः शुद्धि: । 'इगन्ताच्च लघुपूर्वात् '५ । १ । १३१ ॥ इत्यण् ।
Jain Education International
सन्निहितसाधनादधिकस्यानुपादित्सा सन्तोषः । ३ स्वकीयमध्ययनं स्वाध्यायः, मोक्षशास्त्राध्ययनं प्रणवजपो वा । आसमन्तादध्ययनमाध्यायः, शोभन आध्यायः स्वाध्याय इति वा । ४ तप्यते तदिति तपः, चान्द्रायणादि । 'तप सन्तापे' (भ्वा.प.अ.), '-असुन्' ४० ( उणा - ६२८) इत्यसुन् । देवतायाः श्रीअर्हतः प्रणिधानं आत्मनः सर्वतः सम्भेदः देवताप्रणिधानम् । शौचादीनां पञ्चानां नामैकं नियमाइ ॥ करणं पुनरासनम् ॥८२॥
(३) १ क्रियते मनो वश्यमनेन करणम् । 'डुकृञ् करणे'(त.अ.उ.), 'करणाधिकरणयोश्च ३ | ३ | ११७ ॥ इति करणे ल्युट् । २ आस्यतेऽनेनेति आसनम् । 'आस उपवेशने ' (अ.आ.से.), ल्युट् । द्वावपि क्लीबलिङ्गौ । द्वे पद्मासनाद्या
सनस्य ॥८२॥
प्राणायामः प्राणयामः श्वासप्रश्वासरोधनम् ।
२१
(४) प्राणस्य मुखनासिकासञ्चारिणो वायोरासमन्ताद्यमनं गतिच्छेदः प्राणायामः । १ एवं प्राणस्य यमनं प्राणयमः । २ बाह्यस्य वायोराचमनं श्वासः, कोष्ठ्यस्य वायोर्निः श्वसनं प्रश्वासः, श्वासप्रश्वासयोः रोधनं गतिच्छेदः श्वासप्रश्वासरोधनम् । यद्योगशास्त्रम्
" प्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्मतः । रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥१॥" [योगशास्त्रम्, प्रकाशः-५, ले-४] इति ॥
द्वे श्वासप्रश्वासरोधनस्य ॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ॥८३॥
(५) १ विषेयभ्यः इन्द्रियाणां समाहृतिः संक्षेप:, ६० तन्नामैकं प्रत्याहारः । प्रतीपमाहरणं प्रत्याहारः । प्रत्याङ्पूर्वः 'हृञ् हरणे ' (भ्वा.उ. अ.), भावे घञ् । एकमिन्द्रियाणां विषयेभ्यः सङ्कोचनस्य ॥८३॥
धारणा तु कचिद्धयेये चित्तस्य स्थिरबन्धनम् ।
१. इतोऽग्रे ४प्रतौ 'नामानि' इति दृश्यते ॥ २. 'यम उपरमे' इति क्षीरतरङ्गिण्यादौ ॥ ३. 'शोभमाध्या-' इति ३.४ ॥ ४. 'नियमा इति' इति १.२.४ प्रतिषु न दृश्यते ॥ ५. 'यथा योग-' इति ४ ॥
५०
(६) १ धारणं धारणा । 'धृञ् धारणे' (भ्वा.उ. अ.), णिजन्त:, 'ण्यासश्रन्थो युच् ३ | ३ | १०७ ॥ इति युच् । स च स्त्रियाम्। क्वचिद् इति कस्मिंश्चिद् देवतादौ ध्यातव्ये चित्तस्य मनसः स्थिरबन्धनं स्थैर्यम्, तस्यैकम् ॥ ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥८४॥
(७) १ विषये तस्मिन् इति दैवतादौ ध्येये ७० एकस्य प्रत्ययस्य ध्येयालम्बनस्य सन्ततिः सदृशप्रत्ययः, तस्यैकं ध्यानम् इति । ध्यायते इति ध्यानम् । 'ध्यै चिन्तायाम् ' (भ्वा.प.अ.), ल्युट् ॥८४॥
For Private Personal Use Only
www.jainelibrary.org