________________
१२१६-१२२०]
पुंक्लीबलिङ्गः । कौ जीर्यतीति पृषोदरादित्वाद् वा । १९ कुम्भावस्य स्तः कुम्भी । 'अत इनिठनौ ५ ॥२ ॥ ११५ ॥ इतीनि: । २० पीयते दृशा पीलुः । 'पीङ् पाने' (दि. आ.अ.), 'पीङ : कित् ' ( है मोणा - ८२१ ) इति लुः ॥१२१७॥ २१ एति परबलाभिमुखमिति इभः । 'इण् गतौ ' ( अ.प.अ.), 'इणः कित्' (उणा-४३३ ) इति भः 1 २२ करोति प्रमोदं करेणुः पुंस्त्री । 'कृहृभू: '(हैमोणा७७२ ) इत्येणुः । के मस्तके रेणुः सिन्दूररजोऽस्येति वा । २३ गर्जति गर्जः । 'गर्ज गर्जने ' ( भ्वा.प.से.), अच् । १० सामान्येन त्रयोविंशतिर्हस्तिनः ॥
शेषश्चात्र
व्युत्पत्तिरत्नाकरकलिता
"अथ कुञ्जरे । "पेचकी पुष्करी पद्मी पिचिल: सूचिकाधरः । विलोमजिह्वोऽन्तः स्वेदो महाकायो महामदः ॥ १ ॥ सूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥२॥" [ शेषनाममाला४ ।१७५-१७७॥] ॥
अस्य स्त्री धेनुका 'वंशाऽपि च । १ अस्य हस्तिनः स्त्री, हस्तिनीत्यर्थः, धेनुरिव २० सुखसाधनाद् धेनुका । 'इवे प्रतिकृतौ १५ । ३ ।९६ ॥ इति कः (कन्) । २ उश्यते काम्यते वशा । 'वश कान्तौ ' (आ.प.से.), 'वशिकरण्योश्च (वशिरण्योश्च)' (वा ३।३। ५८ ॥ ) इत्यप् । वष्टि कामयते, पचाद्यचि वा । 'वशा वन्ध्यासुता ज्योत्स्ना स्त्री गवी करिणी धुवा "[विश्वप्रकाशकोशः, शान्तवर्गः, श्ले-१] इति तालव्यान्तेषु विश्वात् । द्वे हस्तिन्याः । शेपश्चात्र- " वशायां वासिता कर्णधारिणी गणिकाऽपि च " [शेषनाममाला४ । १७७] इति ॥ भेद्रो मन्दो मृगो मिश्रश्चतस्त्रो गजजातयः
३०
॥१२१८ ॥
१ भद्रः सर्वलक्षणकल्याणत्वात् । २ मन्दः मन्दत्त्वात् । ३ मृगः मृग इव हीनसत्त्वात् । ४ मिश्रः सङ्कीर्णजातिः । चतसृणां गजजातीनां प्रत्येकं नाम ॥१२१८ ॥
Jain Education International
५६५
कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुणौ ।
१ कालेऽपि प्रभूतवयस्यपि योऽनुत्पन्नदन्तः, खर्वाङ्गश्चाऽपि यः, तौ मत्कुणौ । माद्यन् कुणति मत्कुणः । पृषोदरादिः । द्वयोरेकशेषे मत्कुणौ ॥
पञ्चवर्षो गजो बोल:
१ बलति दुःसाध्येकार्याच्चलति बालः । बलू खलू कामधेनूँ । अच् । एकं पञ्चवर्षहस्तिनः । 'छा
11
स्यात् पोतो दशवर्षकः ॥१२१९॥
१ पूयते पुनाति वा पोतः । 'पूञ् पवने ' (क्र्या. उ.से.), 'हसिमृग्रिण्-'(उणा - ३६६ ) इति बाहुलकात् तन् । एकं दशवर्षहस्तिनः ॥१२१९॥ विक्को विंशतिवर्षः स्यात्
१ विङ्गेऽवयवान् विक्कः । 'विचिर् पृथग्भावे' (रु.उ.अ.), 'विचिपुषि-’(हैमोणा - २२) इति कित् कः । पिक्कोऽपि । एकं विंशतिवर्षहस्तिनः ॥
कर्लभस्त्रिंशदब्दकः ।
१ कीर्यते क्षिप्यते कुलभः । कृ विक्षेपे ' ( तु. ५० प.से.), ‘कृगृशशलिंगर्दिभ्योऽभच्' (उणा-४०२ ) । 'कल शब्दसङ्ख्यानयो:'(भ्वा.आ.से.) अतो वाऽभच् । एकं त्रिंशद्वर्षेभस्य ॥
यूथनाथो यूथपतिः
१ वनकरिणां यूथस्य वृन्दस्य यो नाथ ईश्वरः [ यूथनाथः ] । २ महाबलवत्त्वात् स यूथपतिः । द्वे यूथपतिहस्तिनः ॥
१. 'पेचि - ' इति३ ॥ २ ' द्या' इति५ ॥ ३. 'पिच' इति३, 'पेचिल:' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ४ 'डी' इति ॥ ५. 'वसा-' इति१.३ ॥ ६. ंक-' इति४.५॥ ७, 'तो' इति४ ॥ ८. 'वा' इति४.५ ॥ ९. 'ध्रुवा' इति १.३ ॥ " वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च " इति विश्वप्रकाशकोशे दृश्यते, पृ. १६७ ॥ १०. 'वाशि-' इति २.५ ॥ ११. ' कत्वात्' इति३ ॥ १२. ध्यं' इतिर ।। १३. धातुपाठोऽयं प्रतिभाति ॥ १४. 'डौ' इति३, 'डुं' इति४, उं' इति५ ॥ १५. ' इत्यादि' इति ॥ १६. ' -ञ्' इति४.५ ॥ १७. 'विविक्ते' इति१.२, 'वेवेक्ति' इति४.५ ॥ १८. —-युषि' इति१.२.४.५॥ १९. ' - शालि--' इति३ ॥ २०. 'कृशृशलिकलिगर्दिभ्योऽभच्’(४०२ ) इत्युणादिगणसूत्रम् ॥ २१. ३.४.५प्रतिषु नास्ति ॥
For Private Personal Use Only
४०
प्रभिन्न- गर्जितौ ॥१२२०॥
१ माद्यति स्म मत्तः | 'मदी हर्षे' (दि.प.से.),
क्तः, तत्र । २ प्रकर्षेण भिन्नो मदेन सङ्गतः प्रभिन्नः । ६० प्रभिद्यते स्म गण्डपाल्यामिति वा । ३ गर्जा सञ्जाताऽस्य
www.jainelibrary.org