________________
१२१३-१२१६ ]
लेखकप्रमादज:''[' ]इति सुभूत्यादयः । "नील्या रक्तेव नीला । ' -अन्' (वा-४ ।२ ।२ ।। ) इत्यन् । अत एव "कुवलयदलनीला कोकिला''[]इति प्रयोगः, अतो न ङीषिति समाधेयम् । यदा तु नामत्रयं तदा 'वा संज्ञायाम् ' ( वा - ४१ ४२ ॥ इति ङीषन्ताच्च पक्षे युक्त एव टाप् "[ ] इति मिश्राः । नीलीमाखीनाम एकम् ॥
व्युत्पत्तिरत्नाकरकलिता
पुत्तिका तु पतङ्गिका ॥१२१४॥
१ पुदिति शब्दं तनोति पुत्ता । 'अन्येभ्यो (ष्व)प - ३ | २ | १०१ ॥ इति ड:, टाप्, कनि, 'प्रत्ययस्थात्१० ७।३।४४ ॥ इतीत्वम्। पूता (पूना ?) यवा इतिवत् पूजो विनाशार्थे, पुनाति वेधनेन विनाशयति, 'अन्येभ्योऽपि - ' ३ ।२।१७८ ॥ इति क्विप्, दृशिग्रहणाद् ह्रस्वत्वे तुक् [पुत्] । पूतमतीतं तोकते याति । ककिवकिमकीत्यादिना दण्डकपठिताद् गत्यर्थाद् 'इगुपध- '३ । १ । १५ ॥ इति कः, 'सुप्सुपा' ( ) इति कर्मधारये वा पुत्तिका । २ पतेति, [पतति। 'पतेरङ्गच् ’(उणा - ११६ ) इत्यङ्गच् ] । इवार्थेऽल्पार्थे कुत्सिार्थे वा कनि के वा पतङ्गिका । पूतिनाम्नी द्वे । "मधुमक्षिकाभेदोऽयम् " [ अम. क्षीर. २ ।५ १२८ ॥ ] इति क्षीरस्वामी । यत्तिमिः
३०
२० " माक्षिकं तैलवर्णं स्यात् घृतवर्णं तु पौत्तिकम् ।
भ्रामरं तु भवेच्छुक्लं क्षौद्रं च कपिलं भवेत् ॥ १ ॥” [] इति । इह प्रस्तावादनुक्तेऽपि मक्षिकानाम्नी इमे "मक्षिका १ भम्भराली२ स्यात् ''[ हारावली, पादावधिः, श्रो-२४ (१२४)] इति हारावली ॥१२१४॥
वनमक्षिका तु दंशः
१ वनस्य मक्षिका वनमक्षिका । दशति दंश: । अच्। “दंशवंशमशकेशपाशका: "["] इति शभेदात् ताल। एकं दंशस्य ॥
व्यान्तः
दंशी तज्जातिरल्पिका । १ दशति दंशी । अपचयविवक्षायां 'जाते:- ' ४ । १ । ६३ ॥ इति ङीप् । तज्जातिर्दंशजातीया, अल्पिका लघुः । कुन्तीनाम एकम् ॥
Jain Education International
५६३
तैलाटी वरंटा गन्धोली स्त्
१ तैलमटति तैलाटी । 'कर्मण्यण् '३ ।२ ।१ ॥, 'टिड्डाणञ्- '४ । १ । १५ ॥ इति ङीप् (डीप्) । २ वृणीते वरटा, पुंस्त्री । 'वृङ् संभक्तौ ' (क्र्या.उ.से.), 'शकादिभ्योऽटन्' (उणा५२१ ) । ङीषि वरट्यपि । ३ गन्धयत्यर्दयति गन्धोली । 'गन्ध अर्दने' (चु.आ.से.), बाहुलकात् पटोलवदोलच्, गौरादित्वाद् ङीष् । गन्धमालाति, 'आत: -- ३ ।२ । ३ ॥ इति योगविभागात् कः, ङीषि । “गन्धालीत्येके " [ अम. क्षीर. ४० २ ।५ ।२८ || ] इति स्वामी । पीलीभमरीनामानि त्रीणि । चौरी तु चीरुका ॥१२१५ ॥
झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । १ चिनोति कटुशब्दं चीरी । 'चिञ् चयने' (स्वा. उ.आ.), शुषिचिञ्भ्यां रक्(क्रन्) दीर्घत्वे, गौरादित्वाद् ङीष् । 'ची' इति "रिणातीर्ति वो, रिधातोः 'क्वचिड्डुः '(हैमसू५ । १ । १७१ ॥ ) इति ङः । २ चीति रौति चीरुः । 'रु शब्दे' ( अ.प.अ.), मित्रय्वादित्वात् कुः, कनि चीरुका । "झीति रौतीति झीरुका " [ पदचन्द्रिका, भा-२, सिंहादिवर्ग:, श्लो२४३] इति मिश्राः ।। १२१५ ।। ३ झिल्ली वाद्यभेद- ५० तद्वत् कार्ति शब्दात इर्ति झिल्लीका । 'कै शब्दे' (भ्वा.प.अ.), बाहुलकाडुः । ४ बाहुलकाद् हस्वत्वे झिल्लिका । "झिल्ली वाद्यभेदः, तत्तुल्यशब्दाद् झिल्लीव । कनि, 'केऽणः '७।४।१३ ॥ इति ह्रस्वत्वे [ टाप्] झिल्लिका" [ पदचन्द्रिका, भा-२, सिंहादिवर्ग:, लो - २४३ ] इति मिश्राः । झिल्लीत्यपि ।
44
'दूती विद्युदुपासिता सहचरी रात्रिः सहस्थायिनी । दैवज्ञो दिशति स्वनेन जलदः प्रस्थानवेलां शुभाम् । वाचं माङ्गलिकीं तनोति तिमिरस्तोमोऽपि झिल्लीरवैजतोऽयं दयिताभिसारसमयो मुग्धे ! विमुञ्च त्रपाम् ॥१॥ ६० [] इति भानुदत्तः । ५ वर्षं वृष्टिं करोति वर्षकरी । 'कृञो हेतु - '३ ।२।२० ॥ इति टः । ६ आकृत्या भृङ्गमियर्ति भृङ्गारिका । तिमिरीनामानि षट् ॥
॥ उक्ताश्चतुरिन्द्रियाः ॥
१. द्र. पदचन्द्रिका, भा २, सिंहादिवर्ग:, श्रो- २४१, पृ.३११- ३१२ ॥ २. 'ङीति' इतिर, 'ङीबिति' इति३ ॥ ३. 'ङीब -' इति३ ॥ ४ इतोऽग्रे ५ प्रतौ 'ड' इति दृश्यते ॥ ५ १ प्रतौ नास्ति ॥ ६. यन्निमिः' इति क्षीरस्वामिटीकायाम् ॥ ७ 'रौ-' इति ॥ ८द्र. अम. क्षीर. २ १५ ॥ २८ ॥ पृ.१३०॥ ९ ‘–लीकार:' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-२, सिंहादिवर्गः, श्रो- २४२, पृ. ३१३ ॥ ११. शी-' इति५, 'शुसिचिमीनां दीर्घश्च' (उणा - १८२ ) इत्युणादिगणसूत्रम् ॥ १३. 'री-' इति ॥ १४. 'रिणाति' इति ४.५ ।। १५. १. २प्रत्योर्नास्ति ॥ १७. ' भागुरिः दत्तः' इति५ ॥
For Private & Personal Use Only
इति४.५ ॥ १२. '-त्वं' ' - ते' इति ॥ १६.
www.jainelibrary.org