________________
७२-७८ ]
व्युत्पत्तिरत्नाकरकलिता
तपसेति श्रमणः । 'श्रमु खेदे तपसि च ' ( दि.प.से.), एकादशे साधोः ॥ नन्द्यादित्वाद् ल्युः । ३ यतते मोक्षाय यतिः । संयमयोगेषु यतमानः प्रयत्नवान् वा । 'यती प्रयत्ने' (भ्वा.आ.से.), 'इन् सर्वधातुभ्र्भ्यः' (उणा-५५७ ) इतीन् ॥ ७५ ॥ ४ वाचं यच्छति वाचंयमः । 'यमु नियमने'' (भ्वा.प.अ.), 'वाचंयमपुरन्दरौ च' ६ | ३ |६९ ॥ इति खचि साधुः । ५ यतं यतनमस्यास्तीति यती । 'अत इनिठनौ ५ ।२ ।११५ ॥ इतीनिः । ६ उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा साध्नोति परमपदमिति साधुः । 'साध संसिद्धौ' (स्वा.प.अ.), 'कृ-वा- पा-जि-मि- स्वदि-साध्यशूभ्य' १० ( उणा - १ ) इत्युण् । ७ नास्ति अगारं गृहमस्य अनगारः । ८ ऋषति गच्छति ज्ञानसंसारयोः पारमिति ऋषिः । 'ऋषी गतौ' ( तु.प.से.), 'इगुपधात् कित्' (उणा - ५५९) इतीन् । ऋषति जानाति तत्त्वमिति वा । ९ मन्यते जगतस्त्रिकालावस्थामिति मुनिः पुंस्त्रीलिङ्ग: । 'मनु ( मन ) ज्ञाने' (दि.आ.अ.), ‘मनेरुच्चोपधाया':'(उणा - ५६२ ) इतीन्, उपधायाश्चोत्त्वम् । १० निःक्रान्तो ग्रन्थाद् द्रव्यादिति निर्ग्रन्थः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा - २।२।१८ ॥ ) इति समासः । ११ भिक्ष याच्ञायाम्' (भ्वा.आ.से.), यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षते इत्येवंशीलो भिक्षुः । 'सनाशंसभिक्ष उ: ' २० ३।२।१६८॥ इत्युः प्रत्ययः । यद्वा नैरुक्तीशब्दव्युत्पत्तिः - 'क्षुध बुभुक्षायाम् ' (दि.प.अ.), क्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारमस्मादिति । सम्पदादित्वात् क्विप् । क्षुद् अष्टप्रकारं कर्म, तां क्षुधं ज्ञानदर्शनचारित्रतपोभिर्भिनत्तीति भिक्षुः । पृषोदरादित्वादिष्टरूपसिद्धिः । द्वे हि शब्दस्य निमित्ते, तद्यथाव्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं च । यथा गोशब्दस्य, तथाहिगोशब्दस्य व्युत्पत्तिनिमित्तं गमनक्रिया, गच्छति गौरिति व्युत्पत्तेः । तेन च गमनेन एकार्थिसमवायितया यदुपलक्षितं सास्त्रादिमत्त्वं, तत् प्रवृत्तिनिमित्तम् । तेन गच्छत्यगच्छति वा गोपिण्डे शब्द: प्रवर्त्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तत्वात् । अश्वादौ तु ३० न प्रवर्त्तते, यथोक्तरूपस्य प्रवृत्तिनिमित्तस्य तत्राभावात् । एवमत्रापि भिक्षुशब्दस्य द्वे निमित्ते । व्युत्पत्तिर्निमित्तं (व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तं ) च तत्र भिक्षणं व्युत्पत्तिनिमत्तम्, भिक्षते इत्येवंशीलो भिक्षुरिति व्युत्पत्तेः । तेन च भिक्षणेन एकार्थसमवायितया यदुपक्षितं इहपरलोकाशंसाविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वम् तत् प्रवृत्तिनिमित्तम्, तेन च भिक्षमाणेऽभिक्षमाणे वा भिक्षौ भिक्षुशब्दः प्रवर्त्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तसद्भावात् । रक्तपटादौ न प्रवर्तते, नवकोट्यपरिशुद्धान्नभोजितया तेषु यथोक्तरूपस्य प्रवृत्तिनिमित्तस्याभावात् । एवं सर्वत्रोन्नेयम् ।
Jain Education International
१९
अस्य स्वं तपोयोगशमादयः ॥ ७६ ॥ ४० अस्य मुमुक्षोस्तपश्च योगश्च शमश्च तपोयोगशमाः, ते आदिः येषां ते तथा । आदिशब्दात् क्षान्त्यादयः । स्वं द्रव्यमुच्यते । तेन तपोधनः, तपस्वी, योगी, शमभृत्, क्षान्तिमानित्यादियौगिकनामानि भवन्ति ॥ ७६ ॥ मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ।
मोक्षस्य उपायः कारणम्, हेतुरिति यावत्, मोक्षोपायः योगः उच्यते इत्यन्वयः । कीदृग्योगः ? ज्ञानश्रद्धानचरणात्मकः, ज्ञानं यथावस्थिततत्त्वावबोधः, श्रद्धानं च सम्यक्तत्त्वेषु रुचि:, चरणं चारित्रं सावद्ययोगपरित्यागः, तेषां द्वन्द्वे, तानि आत्मा स्वरूपं यस्य स ज्ञान श्रद्धानचरणात्मकः । एकं मोक्षोपायस्य ॥ ५० अभाषणं पुनर्मौनम्
१ न भाष्यते अभाषणम् । 'भाषृ भाषणे (भ्वा.अ. से.), ल्युट् । २ मुनेर्भावः कर्म वा मौनम्, पुंक्लीबलिङ्ग: । ' इगन्ताच्च लघुपूर्वात्' ५।१ ।१३१ ॥ इत्यण् । द्वे मौनव्रतस्य ॥
गुरुर्धर्मोपदेशकः ॥७७॥
१ गृणाति हिताहिततत्त्वमिति गुरुः । 'गृ शब्दे' (क्र्या. - प.से.), “कृग्रोरुच्च'(उणा-२४) इत्युप्रत्ययः, ऋकारस्य च उकारः, 'उरण् रपरः ' १ । १ । ५१ ॥ २ धर्ममुपदिशति धर्मोपदेशकः । 'दिश अतिसर्जने' (तु.प.अ.), 'ण्वुल्तृचौ '३ ।१ ।१३३ ॥ इति ण्वुल् । 'स्यान्निषेकादिकृद् गुरु: '[ अमरकोषः २७७ ॥] ६० इत्यमरः । " यन्मनुः
" निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चानेन स विप्रो गुरुरुच्यते ॥१॥" [ मनुस्मृतिः २ ।१४२ ] । निषेको गर्भाधानविधिः । आदिशब्दात् पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौडोपनयनादी [ नि] ''[ अम.क्षीर. २७७ ॥ ] इति क्षीरस्वामी । द्वे धर्मोपदेष्टुः ॥७७॥ अनुयोगकृदाचार्यः
१ अनुयोगं व्याख्यां करोति अनुयोगकृत्, व्याख्यानकर्ताऽऽचार्य उच्यत इत्यर्थः । आचर्यते सेव्यते शिष्यैर्विद्यार्थं ७० विनयार्थं वा आचार्यः । आङ्पूर्वः 'चर गतौ ' (भ्वा.प.से.),
१. 'सर्वधातुभ्य इन्' इत्युणादिगणे ॥ २. 'यम उपरमे' इति क्षीरतरङ्गिण्यादौ ॥ ३. 'मनेरुच्च' इत्येवोणादिगणे ॥ ४. 'व्युत्पत्तिप्रवृत्तिनिमित्तं ' इति ३.४ ॥ ५. 'साधोः एकादश नामानि ' इति४ ॥ ६. 'भाष व्यक्तायां वाचि' इति क्षिरतरङ्गिण्यादौ ॥ ७. 'कृग्रो-' इत्युणादिगणे ॥ ८. ' चानेन' इति १.२ ॥
For Private Personal Use Only
www.jainelibrary.org