________________
अभिधानचिन्तामणिनाममाला
५५६
हलाहलः
I
इन्द्रो लाङ्गलिको विस्फुलिङ्ग-पिङ्गल-गौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः ॥११९९॥ १ हलमिव आ समन्ताद् हलति आङ्पूर्वी 'हल विलेखने' (भ्वा.प.से.), अच् । हालहलमपि, हालाहलमर्पि 1 " गोनासगोनसौ हालाहलं हालहलं विषम् "[ त्रिकाण्डशेषः १ १९ १५ ॥ ] इति त्रिकाण्डशेषः । यथा - " स्निग्धं भवत्यमृतकल्पमहो हालाहलं विषमिव (-वा-) प्रगुणं तदेवं "[ काव्यालङ्कारसू. वृ. ।V.27]। यथा च "काममपायि मयेन्द्रियकुण्डैर्यद्यपि दुष्कृतहाल
१० हलौघः"[ ]। एते पुंक्लीबलिङ्गाः ॥ ११९५ ॥ २
वत्सस्येव नाभिरस्य वत्सनाभः | 'नाभेः संज्ञायाम् ' (वा- ) इत्यच् । प्रायेण वत्सान् नभ्नाति हिनस्तीति । 'णभ तुभे हिंसायाम् ' (क्र्या.उ.से.), 'कर्मण्यण् '३ ॥ २ ॥१ ॥ वा । ३ कालस्य वर्णस्य कुटोऽत्र कालकूटः, पुंक्ली. । कालसम्बन्धी कालकूटो व्याजो वा । कालं यममपि कूटयति । 'कूट परिदाहें' (चु.उ.से.), चुरादिः, 'कर्मण्यण् '३ ।२ ।१ ॥ इति वा । " कालस्य मृत्योः कूटं शिखरं कालकूटम्''[ ँ]इति तुं पञ्ज । ४ ब्रह्मणः पुत्रो ब्रह्मपुत्रः । यद् याज्ञवल्क्यः - " त्वं विषं ! ब्रह्मणः पुत्रः २० सत्ये धर्मे व्यवस्थितः '[ याज्ञवल्क्यस्मृतिः, व्यवहाराध्यायः, श्रो- ११०] । ५ प्रदीपयति प्रदीपनः । पी दीप्तौ'(दि.आ.से.), नन्द्यादित्वाल्ल्युः । तदुक्तम्"ब्रह्मपुत्रस्तु कपिलों" मलयाद्रिभवः खरः
1
प्रदीपनस्तु दहनो रक्तवर्णो ऽ ( -ञ्ज - ) नाद्रिजः ॥१॥" ["] इति ६ सुराष्ट्रदेशे भवः सौराष्ट्रिकः । अध्यात्मादित्वाद् ठक् । ७ शुल्किकादेशे भवः शौल्किकेयः । 'स्त्रीभ्यो ढक् ४।१।१२० ॥ इति ढक् । " भृति (हति) कुक्षि- ' ४ | ३ |५३ ॥ इति योगविभागाद् ढञ् "[ ] इति मिश्राः । ८ ईषत् कोलति संस्त्यायर्ति काकोल, पुंक्ली. । 'ईषदर्थे ३० ६ | ३ |१०५ ॥ इति कोः कादेशः । काकोलो द्रोण
[ तिर्यक्काण्डः - ४, वनस्पतिकायः काकस्तद्वन्गेचको वा । ९ दरदे सिन्धुदेशे भवो दारदः । 'तत्र भवः '४ । ३ । ५३ ॥ इत्यण् ॥ ११९६ ॥ १० अहिच्छत्रदेशे भवत्वाद् अहिच्छत्रः । ११ मेषशृङ्गाकारत्वात् मेषशृङ्गः । यद् वाचस्पतिः- ‘“मेषशृङ्गं त्वविशृङ्गाकृतिः” []। १२ कुष्णाति, कुष्टसदृक्त्वाद् वो कुष्टम् । यदाह"कुष्टं तु कुष्टसदृशमुग्रगन्धं भ्रमिप्रदम् ["] । १३
काभो वालूकः । १४ नन्दयति नन्दनः । १५ किराटके म्लेच्छदेशे भवः कैराटकः । १६ हिमवति
Jain Education International
कः
भवो हैमवतः । १७ मर्कटाभो मर्कटः । १८ करवीरमूलजत्वात् करवीर:, (कैनि करवीरकः) । यदाह - ४० "करवीरं त्वश्व-मारमूलजं सर्वतो भवम् [२] ॥११९७॥ १९ सर्षपवत् पीतवर्णः सर्षपः । २० मूलकाभो मूलकः । २१ गौरश्चार्द्रकाभश्च गौरार्द्रकः । २२ सक्तुप्रतिकृतिः सक्तु| 'इवे प्रतिकृतौ '५ । ३ ।९६ ॥ इति कः । सक्तवच्चूर्णीभवनत्वात् । २३ कर्दमसम्भवात् कर्दमः । २४ अङ्कोल (अङ्कोल्ल) फलाभः अङ्कोल्लसारः । पृषोदरादिः । २५ कलिङ्गदेशे भवः कालिङ्गः । २६ अजस्तनाकृतित्वात् शृङ्किकः । यदाह -" शृङ्गिकं तु कृष्णवर्णमजस्तनसमाकृतिः "["] । २७ मधुसिक्थं मधूच्छिष्टम्, तत्सदृशत्वात् मधुसिक्थकः ॥११९८ ॥ २८ इन्दति इन्द्रः । इन्द्रशैल - ५० भवत्वाद् वा । २९ लाङ्गलीप्रयोजनमस्य लाङ्गलिकः । यदाह - "लाङ्गलिकं तूपविषं लाङ्गलीमूलमेव तत्"[ ] । ३० विरुद्धाः स्फुलिङ्गा अस्य विस्फुलिङ्गः । ३१ बहिरन्तश्च पिङ्गलत्वात् पिङ्गलः । ३२ गोतमस्यायं गौतमः । ३३ मुस्तकाभो मुस्तकः । मुस्यति खण्डयति प्राणानिति वा । 'मुस खण्डने' (दि.प.से.), औणादिकस्तन्प्रत्ययः, ततः संज्ञायां कन् । ३४ दलति दालवः । 'कैरव भैरव - ' ( उणा - ५१९) इत्यवे निपात्यते । एते सर्वेऽपि स्थावरवनस्पतिभवत्वात् स्थावराः, विषस्य जातयो भेदा इति । " एते सर्वेऽपि पुंक्लीबलिङ्गाः "[" ]इति मिश्राः | अमरश्च - ६०
२७
१. ३ प्रतौ नास्ति ॥
गोनासगोनसशब्दौ सर्पार्थवाचकतया न प्रकृतोपयोगिनौ प्रतीयेते ॥ ३. द्र. अम. क्षीर. १ ७ ॥ १० ॥ पृ. ५९ ॥ स्वोपज्ञटीका४॥११९५॥, पृ. २६८ ॥ ४ - प्' इति३ ॥ ५ 'तुभि' इति ॥ ६. मैत्रेयसम्मतोऽयं धात्वर्थ:, 'दाहे' इति१, स्वामी च, 'परितापे' इति सायणः ॥ ७ द्र. पदचन्द्रिका, भा-१, भोगिवर्गः, श्रो- २२४, पृ. २६४ ॥ तत्र 'शिखरं' इत्यस्य स्थाने 'राशिरिव' इति दृश्यते ॥ ८. ३ प्रतौ नास्ति ॥ ९. 'विषः' इति३ ॥ १०. 'य-' इति ॥ ११. लौ' इति ॥ १२ द्र टीकासर्वस्वम्, भा-१, १८ ११ ॥ पृ. १७२ ॥ १३. 'ष्ट्रे दे-' इति१ २ ॥ १४. ' - ते' इति३ ॥ १५. 'तु' इति५ ॥, 'च' इत्यष्टाध्याय्यां न दृश्यते ॥ १६. शभ-' इति१, 'देश' इति ३प्रतौ नास्ति ॥ १७. ' - तं' इति३ ॥ १८. 'कुष्टं' इति३ ॥ १९. ३प्रतौ नास्ति ॥ २०. -ग्रं गन्ध-' इति ॥ २१. द्र. स्वोपज्ञटीका४ ।११९७ - ११९८ ॥, पृ. २६९ ॥ २२. 'वालु-' इति२.४ ॥ २३. कोष्ठान्तर्गतपाठः १. ३. ४प्रतिषु न दृश्यते ॥ २४. ' भवः' इति ॥ २५. 'कन्' इति३ ॥ २६. शृङ्ग' इति४ ॥ २७
द्र. स्वोपज्ञटीका४ ।११९९ ॥, पृ. २६९ ॥
For Private & Personal Use Only
www.jainelibrary.org