________________
४९-६० ]
कित्याकप्रत्यये साधुः । १५ निःक्रान्तो ममताया निर्ममः । १६ चित्राण्याश्चर्यकारीणि गुप्तानि मनोवाक्काय-गुप्तयोऽस्य चित्रगुप्तः । चित्रमाश्चर्यकारि गुप्तं सर्वप्राणिरक्षणं यस्येति वा । १७ सम्यगाधीयते मनोऽत्रेति समाधिः । सदा समाधियुक्तत्वाद्वा समाधिः । १८ संवृणोति पञ्चेन्द्रियाणि संवरः । यद्वा संवरः आश्रवनिरोधोऽस्य संवरः । अर्शआदित्वादच् । १९ यशो धरति यशोधरः ॥ ५५ ॥ २० विजयते सर्वोत्कर्षेण वर्तते जन्मादिकल्याणोत्सवैरिति विजयः । २१ कर्मभटानां मल्ल इव मल्लः | २२ दीव्यति क्रीडति परमानन्दप देवः । दीव्यते स्तूयते भक्तजनैरिति वा । २३ अनन्तं १० वीर्यं बलमस्य अनन्तवीर्यः । २४ भद्रं कल्याणं करोति भद्रकृत् । भद्रोऽपि ॥
व्युत्पत्तिरत्नाकरकलिता
सङ्ग्रहमाह
एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥५६॥ एवं पूर्वोक्तप्रकारेण सर्वावसर्पिण्युत्सर्पिणीषु वर्तमानातीतानागतासु जिनोत्तमाः तीर्थङ्कराश्चतुर्विंशतिसंख्याका अवसर्पिण्युत्सर्पिणीकालविशेषेषु भवन्तीति शेषः ॥ ५६ ॥
अत्र चतुस्त्रिंशदतिशयनामानि तत्रादौ जिनेन्द्राणां चतुरः सहजातिशयानाह
तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । वोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधारा धवलं ह्यविस्त्रम् ॥५७॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्था: ।
१ तच्छब्दस्य पूर्वपरामर्शित्वात् तेषाम् इति तीर्थकराणां देहः कायः अद्भुतरूपगन्धो भवति । अद्भुतमाश्चर्यकारि लोकोत्तरं रूपं गन्धश्च यस्य सः अद्भुतरूपगन्धः । पुनस्तेषां देहो निरामयः, निर्गत आमयेभ्यो रोगेभ्यो निरामयः, रोगरहितो भवति । स्वेदोङ्गजलं मलं स्वेदमलाभ्यामुज्झितः स्वेदमलोज्झितः । एष प्रथमः ३० सहजातिशयः । २ बाह्यस्य वायोराचमनं श्वासः । अत्र श्वासशब्द उच्छ्वासस्याप्युपलक्षणम्, तेषां तीर्थकृतां श्वास: अब्जस्य पद्म
२०
Jain Education International
१५
'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् २।४।२ ॥ इत्येकवद्भावः । मांसः शोणितं गोक्षीरधारावद् धवलं पाण्डुरं भवति, अविस्त्रं अनामगन्धीत्यर्थः । इति तृतीयः सहजातिशयः ॥ ५७॥ ४ आहारणम् आहार : अशनं, निहरणं नीहारः, मूत्रपुरीषोत्सर्गः, तयो: विधिः करणं, न दृश्यत इति अदृश्यः, मांसचक्षुषा, न पुनरवध्यादिदर्शनवताँ पुंसा । एषश्चतुर्थः सहजातिशयः । जगतोऽप्यतिशेरते औत्कर्षमाप्नुवन्ति तीर्थकरा एभिरिति अतिशयाः । अतिपूर्वः 'शीङ् ४० स्वप्ने' (अ.आ.से), 'एरच् '३।३ । ५६ ॥ इत्यच् । सहोत्थाः
सहजन्मानः ॥
अथ घातिकर्मक्षयोद्भवैकादशातिशयानाहक्षेत्रे स्थितियोजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥५८॥ वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रि ॥५९॥ साग्रे च गव्यूतिशतद्वये रुंजा वैरेत॑यो मर्यातिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मधातजाः ॥६०॥
स्व गन्धोऽस्य अब्जगन्धः, कमलपरिमलमञ्जुल इत्यर्थः । इति द्वितीयः सहजाऽतिशयः । ३ रुधिरं चामिषं च रुधिरामिषम् ।
१. ' दीव्यति' इति १ ॥ २. 'भवति' इति १.३ नास्ति ॥ ३. आमः अपक्वमलः, तस्येव गन्धोऽस्य आमगन्धि, न आमगन्धि अनामगन्धि । " विस्त्रं स्यादामगन्धि यद् " १ | ५ | १२ ॥ इत्यमरः ॥ ४. 'आहारम्' इति २.४ ॥ ५. 'आहर:' इति १.३ ॥ ६. 'निहरं' इति २ । ७. ' - वतां' इति २.४ ॥ ८. 'पुसां' इति २.४ ॥ ९. ' नृतिर्यक्सुरलोकभाषासंवादिनी' इति १ प्रतौ नास्ति ॥ १०. 'मागध्याम्' इति प्राकृतव्याकरणसूत्रे नास्ति ॥
१ योजनप्रमाणेऽपि क्षेत्रे समवसरणपृथिव्यां नृणां देवानां तिरश्चां च जनानां कोटिकोटिसंख्यानां स्थितिः अवस्थानमिति प्रथमः कर्मक्षयजातोऽतिशयः ॥ ५८ ॥ २ वाणी भाषा अर्थादर्द्धमागधी । कीदृशी ? नृतिर्यक्सुरलोकभाषासंवादिनी, नृतिर्यक्सुरलोकभाषया संवदति तत्तद्भाषाभावेन परिणमतीत्येवंशीला या सा तथा । संपूर्वाद् 'वद व्यक्तायाम् ' (भ्वा.प.से.), इत्यस्मात् 'सुप्यजातौ णिनिस्ताच्छील्ये ' ३ ।२ ७८ ॥ इति णिनिः, ६० ‘अत उपधायाः' ७।२।११६ ॥, ' ऋन्नेभ्यः - '४।१ ।५ ॥ इति ङीप् । भगवद्वाणी अर्द्धमागधीत्याख्या भवति । यत्समवायाङ्ग सूत्रम्"भयवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ "[ समवायाङ्गसूत्रम्, सूत्रम्-३४ ] इति, तथा च तट्टीका प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधीभाषा 'रसोर्लशौ मागध्याम्' (हैमप्राकृतव्या - ८१४ १८८ ॥ इत्यादिलक्षणवती, सा असमाश्रित
५०
For Private Personal Use Only
www.jainelibrary.org