________________
२०
५१८
स्यायम्ं । २ मुञ्चति कलिकात्वं मुकुलम् । मुञ्च त्यागे' ), 'मुञ्चेरलच् कत्वमुत्वं च ' ( ) कत्वेंऽकारस्योत्वे च रूपम् । अस्त्रियामेतौ । दुर्गादयस्त्ववान्तरभेदं न मन्यन्ते, यदाहु:- "मुकुलाख्या तु कलिका कुट्मलं जालकं तथा । क्षारकं कोरकं च''["] इति । द्वे ईषद्विकसितकलिकायाः ॥ गुच्छे गुच्छस्तबकगुत्सकाः ।
गुर्लुञ्छः
1
१ गूयते गुञ्छ । 'गुङ् शब्दे' (भ्वा.आ.अ.), ('गुलुञ्छ- '(हैमोणा-१२६ ) इति छे निपात्यते, तत्र ) १० २ गूयत इति गुच्छः । शस्यादिभ्यश्छक्' ( ) इति छक् । “पुष्पादिस्तबके गुच्छो मुक्ताहारकलापयोः "[] इतिं चवर्गान्ते रन्तिदेवः । स्वार्थे कनि गुच्छकोऽपि । ३ स्तूयते स्तबकः, पुंक्ली. । 'ष्टुञ् स्तुतौ' (अ. उ. अ.), 'कृञादिभ्यः [संज्ञायां] वुन् ' ( उणा- ७१३) । स्थाधातोः "तस्थोऽम्बजबकौ चं' (उणा - ५३६ ) इत्यबकप्रत्ययः प्रकृतेरातस्तादेशः स्तबकः " [ ]इति मधुमाधवी । ४ बहुभिः पुष्पैः फलैर्वा सम्बाधः पल्लवग्रन्थिः गुत्सः । 'गुध परिवेष्टने ' (दि.प.से.), 'उन्धिगुधिकुधि (कुषि) भ्य: सक्' (उणा-३४८)इति सक्’''[ ं] इति पारायणगोवर्धनौ । 'स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तित: ''[ ं] इतिं दन्त्यान्तेषु रुद्रः । कनि गुत्सकः । ५ गुड्यत इति गुलुञ्छः, सानुस्वारमध्यः, ('गुलुञ्छ [पिलि] पिञ्छ-' (हैमोणा - १२६ ) इति छे निपात्यते ), पुंस्ययम् । क्लीबेऽर्पि, [यदाह] वाचस्पतिः -"गुलुञ्छोऽस्त्री ''["]इति । लुञ्छु- लुञ्छ अपि । पञ्च गुच्छ अथ रजः पौष्पं परागः
१ पुष्पस्येदं पौष्पं रजः परागः इत्युच्यते । परा गच्छति पतति परागः । डप्रत्ययः । एकं पुष्परजसः ॥ अथ रसो मधु ॥११२६॥
अभिधानचिन्तामणिनाममाला
॥
Jain Education International
[ तिर्यक्काण्ड :-४, वनस्पतिकायः
१ अथेति, पुष्पाणां रसः, मन्यते बहुभृङ्गै रिति मधु, क्ली" । "पुंस्यपि "[ ] इति हलायुधटीका । 'मन ज्ञाने' (दि.आ.अ.), 'फलिपाटि - ' ( उणा - १८) इत्युः, धोऽन्तादेशश्च ॥११२६॥ २-३ मकरों" ध्वजत्वेनाऽस्याऽस्तीति, अर्श आद्यचि मकरः कामः, तमन्दति बध्नाति धारयति कामजनकत्वाद् मधुनः मकरन्दः । 'अदि बन्धने' (भ्वा. प.से.), 'कर्मण्यण् '३ ।२ ।१ ॥, ' गतिकारकोपपदानाम्-' (वा - २ ।२ ।१९ ॥ इत्युक्तेः सुबुत्पत्तेः प्राक् समासेऽध्ययनवत् पररूपत्वम् । मङ्क्यते मण्ड्यतेऽनेन पुष्पं मकरन्द
इति पृषोदरादिर्वा । मरन्द इति निपातनात् । मकलन्दो - ४० ऽपि । त्रीणि पुष्परसस्य ॥
वृन्तं प्रसवबन्धनं ।
१ पुष्पफलपत्त्राणि येन धार्यन्ते (वार्यन्ते) तद् कृतम् । 'वृञ् वरणे' (स्वा.उ.से), 'वृणोतेर्नुक्
च' (
) इति तः किन्नुक् च बाहुल्यान्न णत्वम् । प्रसूयते प्रसवः । 'ऋ दोरप् '३।३।५७ ॥ । प्रसवौ पुष्पफलै बध्यतेऽनेन, ल्युट् बन्धनम् । प्रसवानां बन्धनं प्रसवबन्धनम् । एकं पुष्पफलवृन्तस्य ॥ प्रबुद्धोज्जृम्भफुल्लानि व्यांकोशं विर्कचं स्मितम् ॥११२७ ॥ ५०
वृणोति
उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् ॥ प्रफुल्लोत्फुल्लसम्फुल्लोच्छ्रुसितानि विजृम्भितम्
18
20
स्मै विनिद्रमुन्निद्रवमुद्रहसितानि च ।
॥११२८॥
१ प्रबुध्यते प्रबुद्धम् । 'बुध (बुधिर्) बोधने' (भ्वा. प.से.), निष्ठा, । २ उज्जृम्भते उज्जृम्भम् । 'नृभि गात्रविनामे' (भ्वा.आ.से.), घञि । उगता जृम्भाऽस्येति वा । ३ फलति विशीर्यते फुल्लम् । 'त्रिफला विशरणे' (भ्वा.प.से.), विशरणं विकाशः, 'जीतः क्तः '३ ।२ । १८७ ॥
३० मर्करन्दो मरैन्दश्च
१. ' - स्याम्' इति५ ॥ २. '-लः' इति१.२.३ ॥ ३ 'मुचे-' इति३ ॥ ' -त्वम्' इति३ ॥ ५ ' - ते' इति ॥ ६. द्र. अम. क्षीर. २०४ /१६ ॥ पृ.८३ ॥, स्वोपज्ञटीका४ ।११२६ ॥ पृ. २५१ ॥ ७ कोष्ठान्तर्गतपाठः १.३.४.५ प्रतिषु न दृश्यते ॥ ८द्र. पदचन्द्रिका, भा-२, वनौषधिवर्गः, श्रो६२, पृ.८९ ॥ ९ रामाश्रमी २ १४ ॥ १६ ॥ पृ. १७० ॥ १०. 'स्थः स्तोऽम्बजबकौ ' ( उणा - ५३६ ) इत्युणादिगणसूत्रम् ॥ ११. 'गुच्छः' इति५ ॥ १२.
ऽपि' इति ३.४.५ प्रतिषु नास्ति ॥ १३. द्र. स्वोपज्ञटीका४ । ११२६ ॥ पृ. २५१ ॥ इति४ ।। १६. ' र ' इति४.५ ॥ १७ ध्वजेना-' इति३ ॥ १८. 'परत्वम्' इति२ ॥ २१. णत्वं प्रति परसवर्णस्याऽसिद्धत्वादिदं चिन्त्यम् ॥ 'लैः' इति५ ॥
१४ 'लुञ्छी' इति ३.४.५ प्रतिषु नास्ति ॥ १५. 'बम्' १९ तुलनीयोऽमरकोषः २ १४ ११५ ॥ २०. 'धार्यते' इति१.३ ॥ २३. '-टि' इति१.२.३ ॥ २४ 'जृम्भे' इति२ ॥
२२.
For Private Personal Use Only
www.jainelibrary.org