________________
४८०
राजदन्तादिः । ३ आवर्तै राजते राजावर्तः । ' राजदन्तादिषु परम् '२ ।२ ॥३१ ॥ । त्रीणि विराटजमणेः ॥ अथ विद्रुमः ।
रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः॥ १०६६॥ १ विशिष्टो द्रुमो विद्रुमः पुंसि । विद्रवत्यब्धौ वा । बाहुलकान्मः । २ रक्तोऽङ्कोऽस्य रक्ताङ्कः । ३ रक्तश्चासौ कन्दश्चेति रक्तकन्दः । ४ प्रवलति प्रवालम्, पुंक्ली. । 'वल संवरणे' (भ्वा.आ.से.), ज्वलितिकसन्तेभ्यो णः '३ । १ । १४० ॥ । प्रवते समुद्रे वा । 'प्लुङ् (प्रुङ् ) १० गतौ ' (भ्वा.आ.से.), अच् । ५ हेम्नः कन्दल इव हेमकन्दल: । पञ्च प्रवालस्य
॥१०६६ ॥
सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः ।
२
१ सूर्यस्य कान्तो वल्लभः सूर्यकान्तः । सूर्यप्रियो मणिः सूर्यमणिः । ३ सूर्यस्य अश्मा सूर्याश्मा, नकारान्तः । ४ दहनजनक उपलः दहनोपलः । "अग्निमणि: "[ ] इति क्षीरस्वामी । चत्वारि सूर्यकान्तस्य ॥ चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७॥
१ चन्द्रस्य कान्तः चन्द्रकान्तः । २ चन्द्रस्य मणिः चन्द्रमणिः | ३ चन्द्रस्याऽयं चान्द्रः । ४ चन्द्रस्योपलः २० चन्द्रोपलः । चत्वारि चन्द्रकान्तस्य ॥ १०६७ ॥
अभिधानचिन्तामणिनाममाला [ तिर्यक्काण्डः-४, पृथ्वीकायः " स्फटिकास्तु त्रयस्तेषामाकाशस्फेटिको वरः 1 द्वौ क्षीरतैलस्फटिकावाकाशस्फटिकस्य तु ॥ १ ॥ द्वौ भेदौ सूर्यकान्तश्च चन्द्रकान्तश्च तत्र च ॥ []इति । शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम्
॥१०६८ ॥ १ शुक्तेर्जायते शुक्तिजम् । शुक्तिरुपलक्षणम्, हस्तिमस्तकाद्युद्भवमपि । यदाह
" हस्तिमस्तकदन्तौ तु दंष्ट्रा शुनवराहयोः ।
मेघो भुजङ्गमो वेणुर्मत्स्यो मौक्तिकयोनयः ॥ १ ॥” [] इति । २ मुच्यन्ते शुभस्थलेष्विति मुक्ताः । मुच्लृ मोक्षणे' (तु. उ. अ.), 'क्तिच्तौ च संज्ञायाम् '३ | ३ | १७४ ॥ इति ४० क्तच् । मुक्ता एव मौक्तिकम् । 'विनयादिभ्यष्ठक् '५ ।४ । ३४ ॥ इति स्वार्थे ठक् । 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि'[ ]इति षण्ढत्वम् । ३ मुच्यते शुक्तिभिः मुक्ता । ४ मुक्ताफलमिव मुक्ताफलम् । ५ रसाद् अम्भस उद्भवति रसोद्भवम् । अच् । नानाविधत्रसस्थावराणां शरीरेषु सचित्तेष्वचित्तेषु वा उत्पत्तिसद्भावेऽपि पृथिवीकायत्वमेव । तदुक्तं श्रीसूत्रकृदद्वितीयश्रुतस्कन्ध-तृतीयाहारपरिज्ञाध्ययनावसाने- "इहेगतिआ सत्ता णाणविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहाणं तसथावराणां [पाणाणं] सरीरेसु सचित्तंसु वा अचित्तेसु ५० वा पुढवित्ताए ''[ श्रीमत्सूत्रकृताङ्गम्, द्वितीयः श्रुतस्कन्धः, अध्य-३, सूत्रम् - ६१] इत्यादि । वृत्तिश्चाऽस्य- "इहैके सत्त्वाः प्राणिनः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगाः नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा - सर्पशिरः सु मणयः, करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि, स्थावरेष्वपि वेण्वादिषु तान्येव "[ श्रीमच्छीलाङ्काचार्यविहितविवरणम्, द्वितीयः श्रुतस्कन्धः, अध्य-३, सूत्रम् - ६१] इति वचनान्न दुष्टं मौक्तिकानां पृथिवीकायत्वम्" [ ]इति
१४
॥१०६८ ।।
4
सूर्यकान्तचन्द्रकान्तौ कस्याऽश्मनो भवतः ? इत्याहक्षीरतैलस्फेटिकाभ्यामन्यौ खस्फटिकाविमौ ।
१ क्षीरधवलः स्फटिकः क्षीरस्फटिकः । तैलकान्तः स्फटिकः तैलस्फटिकः । ताभ्यामन्यौ भिन्नवर्णाविमौ सूर्यकान्तेन्दुकान्तौ द्वावप्याकाशस्फटिकाख्यावित्यर्थः । क्षीरस्फटिकः १ तैलस्फटिकः २ आकाशस्फटिक : ३, एते त्रयः स्फटिक भेदाः, तन्मध्यात् तृतीयभेदस्य आकाशस्फटिकस्य सूर्यकान्तचन्द्रकान्तौ द्वौ भेदौ । यद्वाचस्पतिः
४ । १०६८ ॥ पृ. २३६ ॥ ७ ' वति' इति३ ॥ ११. 'मु-' इति३.४ ॥ १२. ' ' इति४ ॥ इति१, 'कायकत्वम्' इति२.५ ॥
Jain Education International
१. 'ज्वल-' इति१.२ ॥ २. स्फु' इति३ ॥ ३. 'क्षीरः' इति३ ॥ ४ 'तैलः' इति३ ॥ ५. ' - रम्' इति४.५ ॥ ८ 'मस्तक ' इति ॥ ९ द्र. स्वोपज्ञटीका ४।१०६८ ॥ पृ. २३६ ॥ १०. १३. ' हा ' इति । १५. ' - मस्तकेषु' इति ॥
१४ 'तसाणं' इति३ ॥
॥ समाप्तः पृथ्वीकायः ॥
For Private & Personal Use Only
६ द्र. स्वोपज्ञटीका 'क्तिच्' इति२.३.४ ॥ १६. ' - कायिकत्वम् '
३०
६०
www.jainelibrary.org