________________
४७४
10
घण्टाशब्दमसुराह्वं रवणं लोहजं मलम् ।१०४९।
अभिधानचिन्तामणिनाममाला
१ कंसायेदं द्रव्यं कंसीयम्, तस्य विकारः कांस्यम् । 'कंसीयपरशव्ययोर्यजञ - ४ १३ । १६८ ।। इति यञ् छस्य लुक् च । कंसमेव वा, भेषजादित्वाद्व्यण्, तस्मिन् । २ विद्युतः प्रियं विद्युत्प्रियम् । ३ घोषति घोष: । 'घुष शब्दे' (भ्वा.प.से.), अच् । ४ प्रकाशते चाकचिक्येनेति प्रकाशम् । 'कासृ (काशृ) दीप्तौ ' (भ्वा.आ.से.), अच् । ५ वङ्गशुल्वाभ्यां जायत इति वङ्गजं शुल्वजं (वङ्गशुल्वजम्) । ६ घण्टाया इव (शब्दोऽस्य, घण्टायां ) शब्दोऽस्येति १० वा घण्टाशब्दम् । ७ असुरस्य कंसनाम्न आह्वाऽस्य असुराह्वम्, कंसमित्यर्थः । ८ रौति रवणम् । रु शब्दे ' ( अ.प. से.), नन्द्यादित्वाल्ल्युः । लोहाभ्यां जायते लोहजम् । अतो द्विलोहकं च । १० मलोऽस्त्यस्य मलम् । अर्शआदित्वादच् । दश कंसस्य ॥१०४९ ॥ सौराष्ट्रके पञ्चलोहम्
१ सुराष्ट्रायां भवं सौराष्ट्रम् । स्वार्थे कनि सौराष्ट्रकम्, तत्र । २ पञ्चेति ताम्र१रीति २त्रपु३ सीसक४कालायस५ लक्षणानि लोहान्यस्मिन् पञ्चलोहम् । द्वे 'भंगारकासी' इति ख्यातायाः । " कास्य सौराष्ट्रकं तथा" २० [हलायुधकोशः २ ।१७० ॥ ] इति हलायुधो न भिनति ।
धन्वन्तरिरपि
१.३
"कांस्यं द्विलोहजं घोषं प्रकाशं कंसकं बलम् । अन्यलोहं पट्टलोहं (वट्टलोहं) पञ्चलोहं च नीलिका ॥१॥" धन्वन्तरिनिघण्टुः, सुवर्णादिः षष्ठो वर्गः, श्रो-२२ ] इति । तथा श्रीहेमचन्द्रसूयोऽपि स्त्रीक्लीबलिङ्गे स्वोपज्ञलिङ्गानुशासनटीकायाम्- "कांसी' कास्यं सौराष्ट्रका, अर्थप्राधान्यात् सौराष्ट्रकमित्यपि स्त्रियां माला षण्ढे रूढिः '
"
[ तिर्यक्काण्डः ४, पृथ्वीकायः
[लिङ्गानुशासनम्, (तस्य) अवचूरिः, स्त्रीक्लीबलिङ्गाः, श्री- ४] इति ॥
Jain Education International
वर्तलोहं तु वर्तकम् । ३०
१ वर्त्यत आवर्त्यते वर्तम्, तच्च तल्लोहं च वर्तलोहम् । २ वर्तते आवर्तते वर्तकम् । 'वृतु वर्तने' (भ्वा.आ.से.), ण्वुल् । द्वे अतिशुद्धकांस्याः । 'वटलोह' इति भाष ॥
पारदः पारतः सूतो हरबीजं रसश्चलम् (-लः) ॥१०५० ॥ १ पारं संसारपार्श्वं ददाति पारदः । 'आतोऽनुपसर्गे कः ३ ।२ ॥ ३ ॥ । २ मुक्तिदत्वात् पारं संसारपार्श्व (-पारं) तनोति पारतः । 'तनु विस्तारे ' ( त. उ.से.), 'अन्येभ्योऽपि दृश्यते' (वा ३ ।२ । १०१ ॥ ) इति डः । पुंक्ली- ४० बलिङ्गावेतौ । ३ सूते हेमायुषी सूतः । ' षूङ् प्रसवे ' (अ.आ.वे.), 'हसिमृग्रिण्- ' ( उणा - ३६६ ) इत्यादिना बाहुलकात् तन् । यत्सूक्तम्
" अपकारिण्यपि प्रायः सौम्याः स्युरुपकारिणः । मारकेभ्योऽपि कल्याणं रसराजः प्रयच्छति ॥१ ॥" []इति । शिवप्रसूतत्वाद्वा सूतः । स्वार्थे कनि सूतकः, पुंक्ली । " सूतकं जन्मनि क्लीबे न स्त्रियां पारदेऽपि च " [ ] इति गौडः । ४ हरस्य बीजं हरबीजम् । ५ रस्त आस्वाद्यतें' रसायनार्थिभिरिति रसः । ' रस आस्वादें' (चु. उ.से.), घञर्थे कः । ६ चलः अस्थिरत्वात् । "चपलैः ' [ अमरकोषः २ ।९ ।९९ ।।] अपीत्यमरः । षट् पारदस्य ॥१०५० ॥ अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजाले ।
""
१ अभ्रप्रतिकृतित्वाद् अभ्रकम् । 'इवे प्रतिकृतौ '
१.
८
११.
सायणः, 'घुषिर् विशब्दने' इति चुरादौ स्वामिसायणौ, अविशब्दने' इति मैत्रेयः ॥ कोष्ठान्तर्गतपाठः १.४.५ प्रतिषु न दृश्यते ॥ -ह्वां' इति५ ॥ ९ कंश ' इति३.४ ॥ 'कांस्यां' इति५ ॥ १२. 'भवति' इति ॥ १३. "कास्यं लोहं निजं घोषं प्रकाशं कांस्यकं ॥ २२ ॥ " इति धन्वन्तरिनिघण्टौ, पृ. २७४ ॥ अत्र टीकास्थोके 'पट्टलोहं (वट्टलोहं) धन्वन्तरिनिघण्टुः, पृ. २७६, श्रो- ३० ॥ १४ इतोऽग्रे १प्रतौ 'च' इति दृश्यते ॥ १५. लिङ्गानुशासनावचूर्याम्–“कास्यी, कांस्यं सौराष्ट्रिका, अर्थप्राधान्यात् सौराष्ट्रका सौराष्ट्रकमपि " इति दृश्यते, श्रीसिद्धहेमचन्द्रशब्दानुशासनम्, भा३, परिशिष्टम् - १, पृ. ४५ ।। १८. 'व्या' इति ॥ १९. ३प्रतौ नास्ति ॥ २०. 'रत-' इति३ ॥ २१. ३प्रतौ नास्ति ॥ २२. 'दने' इति३ ॥, 'रस आस्वादनस्नेहनयो:' इति क्षीरतरङ्गिण्यादयः ॥ २३. 'ले' इति५ ॥
' - यञन्तौ' इति३ ॥ २. 'तत्र' इति३ ॥ ३ षम्' इति१ ॥ ४ 'घुषिर् शब्दार्थ:' इति भ्वादौ स्वामिमैत्रेयौ, अविशब्दने' इति च ५ 'श्यते' इति ॥ ६ 'चिचिक्यते' इति ॥ ७. 'कांशी' इति३ ॥ १०. ' - रइकासी' इति१, बलम् । घोषपुष्पं च पठितं शब्दैः पर्यायवाचकैः पञ्चलोहं नीलिका' इति वर्तलोहपर्यायः द्र. ङ्गो' इति ॥ १६. ५ प्रतौ नास्ति ॥ १७.
For Private Personal Use Only
५०
www.jainelibrary.org