________________
१०
९६९-९७२ ]
तत्र ।
।
२ लोष्ट्य लोष्टुः पुंसि 'लोष्ट सङ्घाते' (भ्वा.आ.से.), 'भूमू[शी]तृ- (उणा-७ ) इत्यादिना बाहुलकादुः । ३ दलयति दलि; स्त्रियाम् । 'दल विशरणे' (भ्वा.प.से.), 'इन् सर्वधातुभ्यः ' ( उणा - ५५७ ) इतीन् । ४ लिश्यते लेष्टुः, पुंसि । 'लिश अल्पीभावे' (दि.आ.अ.), 'ऋत्वादयश्चं' (चान्द्रोणा - १।२५ ) इति तुन् । चत्वारि 'ढल' इति ख्यातस्य
व्युत्पत्तिरत्नाकरकलिता
||
वल्मीकः कृमिपर्वतः ॥९७० ॥ वम्रीकूटं वामलूरो नाकुः शक्रशिरश्च सः ।
१ वलन्ते प्राणिनोऽत्र वल्मीकः, पुंक्लीबेः । "वल्मीकं पुंनपुंसकम् [ अमरकोषः २ ११ ११४ ॥ ] इत्यमरः । 'वल संवरणे' (भ्वा. आ.से.), 'अलीकादयश्च' (उणा - ४६५) इति साधुः । "वहेश्चान्तस्य लत्वे वल्मीकम् "[ ] इत्याहुः । २ कृमीणां पर्वत इव कृमिपर्वतः ॥ ९७० ॥ ३ वम्रीणामुपदेहिकानां कूटं शिखरं वम्रीकूटम् । ४ वामं वामैर्वा लूयते वामलूरः । 'लूञ् छेदने ' (क्र्या.उ.से.), 'खर्जिपिञ्जा (चा) दिभ्यः ऊरोलचौ ' ( उणा - ५३० ) इत्यूरः । वम्यते उद्गीर्यत इदमिति वामः कीटाद्युत्थापिता मृद् । कर्मणि घञ् । लवनं लूः छेदः । वामस्य लूर्वामलूः । वामलूं २० रातीति वामलूर इति वा आतोऽनुपसर्गे कः ३ २ १३ ॥ ॥ ४ न अकति गच्छति नाकुः पुंसि । अक [ कुटिलायां] गती' (भ्वा.प.से.), बाहुलकादुः । नमति खर्वतां प्राप्नोति भूभागोऽनेनेति वा । 'णमु (णम) प्रद्धत्वे शब्दे च' (भ्वा. प.अ.), 'फलिपाटिनमिमनिजनां गुक्पटिनाकिधता (त) श्च' ( उणा - १८) इत्यु, नाक्यादेशश्च उ (इ) कार उच्चारणार्थः । ५ शक्रस्य शिरो मूर्धा शक्रशिरः, सकारान्तः । शक्रशिरसं शक्रशिरांसि इत्यादि । षड् वल्मीकस्य ॥
Jain Education International
४३१
2
नगरी पूः पुरी ब्रङ्गः पत्तनं पुटभेदनम् ॥ १७१ ॥ निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च ।
११
१३
-
१ नगा इव गजाः प्रासादा वा । ते सन्त्यत्रेति ३० नगरी, स्त्रीक्ली । [ख] मुखनगपांशु (पांसु) पाण्डुभ्यो रः ' (वा - ५ ।२।१०७ ॥ इति रः, गौरादित्वाद् ङीष् । “नश्यन्त्यस्यां वा नगरी । 'जठर-' ( हैमोणा- ४०३ ) इत्यादिना निपातनात् साधुः "[ अभि., स्वोपज्ञटीका४ १९७१ ॥ ] इत्याचार्याः । २ पिपर्त्ति पूरयति वा सर्वकौतुकं पूः, स्त्रीलिङ्गः । पृ पालनपूरणयो: '(जु.प.से.), 'भ्राजभास - ' ३ ।२।१७७ ॥ इति क्विप्, 'उदोष्ठ्यपूर्वस्य ७ १ १०२ ॥ उरण् रपरः ११ ११ ॥ ५१ ॥ 'हलि 'च'८।२७७ ॥ इति दीर्घत्वम् । "पूर्व पर्व [ फर्व] मर्व पूरणे' (भ्वा.प.से.), क्विपि राल्लोपे पूः " [मा. धातुवृत्तिः, भ्वादि:, धातुसं ३७३ ] इति माधवः । ३" अस्मादेव धातोः ४० ‘ऋदोरप् '३ ॥३ ॥५७ ॥ इत्यप्, पूर्वविप्रतिषेधेन गुणे उत्वम्, गौरादिङीष पुरी" [ ] इति सर्वधरः । " पूर्यतेऽत्रेति, 'पुर अग्रगमने ' ( तु.प.से.), घञर्थे कः, यद्वा इगुपधलक्षणः कः, ततो गौरादिकीषि पुरी"["]इति स्वामी ""कृगृ" (ठणा५८२ ) इत्यादिना इप्रत्यये पुरिरिकारान्तोऽपि "[] इति सर्वधरः । त्रिलिङ्गोऽयम् । ४ द्रमन्त्यत्रेति द्रङ्गः । 'द्रम गतौ ' (भ्वा.प.से), गम्यादेर्गन्ं । " आद्रङ्गोऽपि " [ ]इति शब्दप्रभेदः । " द्रागः " [ ] इति तु लिङ्गानुशासनवृत्तिः । ५ नाना दिग्भ्यः पतन्ति वणिजोऽत्रेति पत्तनम् । पत्लु पतनें (भ्वा.प.से.), 'वि (बी) पतिभ्यां तनन् ' ( उणा - ४३० ) इति ५० तनन् । यहा पतनं पत् गतिः, तां तनोतीति पचाद्यचीति पत्तनम् । पतस्तनं पत्तनं वा । " तद्वै पत्तनं तच्च पट्टनं पुटभेदनम् "[" ] इति वाचस्पतिः । तत्र पटेर्बाहुलकात्
444
तनन्प्रत्ययः 1
.
१. 'सर्वधातुभ्य इन्' इत्युणादिगणसूत्रम् ॥ २. १.२.३.५ प्रतिषु नास्ति ॥ ३. 'क्रत्वादयश्च' इत्यपि दृश्यते ॥ ४. न्ति' इति३.४.५ । ५. 'पुंक्ली' इति१.२ ॥ ६. स्वामिमतेऽयं धातुपाठः, 'वल वल्ल संवरणे' इति मैत्रेयः, 'वल वल्ल संवरणे सञ्चरणे च' इति सायणः ॥ ७. ' - लू' इति ॥ ८. २.५ प्रत्योर्नास्ति, 'णम प्रहृत्वे' इति१, स्वामी च, 'णम प्रह्वत्वे शब्दे' ('च' इति मैत्रेयः ) इति मैत्रेयसायणौ ॥ ९ ५ प्रतौ नास्ति ॥ १०. 'स्त्रीक्ली' इति १ २ ॥ ११. 'खमुखकुञ्जनगनखपाण्डुपांसुभ्यश्च' इति भाषावृत्तिः, ५।२ । १०७ ॥ पृ. २२९ ॥ १२. स्वोपज्ञटीकायाम्" नश्यन्त्यस्यां नगरी स्त्रीक्लीबलिङ्गः, "जठर-" ॥ (उणा -४०३) ॥ इत्यरे निपात्यते " इति दृश्यते, ४ ।९७१ ॥ पृ. २१५ ॥ १३. 'पृ' इति१.३ ।। १४. 'वोरुपधाया दीर्घ इकः ८ १२ १७६ ॥ इत्यस्य प्रवृत्तिसत्त्वादिदं न युक्तम् ॥ १५. घ्' इति३ । १६. द्र. पदचन्द्रिका, भा-२, पुरवर्गः, श्रो१९, पृ.२५ ॥ १७. 'गौरादित्वाद्' इति३ ॥ १८. अम. क्षीरस्वामिकृतटीकायां पुरीशब्दस्य व्युत्पत्तिर्नास्ति ॥ १९. पदचन्द्रिकायाम्-" अस्मादेव धातोः 'ऋदोरप्' (पा. ३।३।५७।। ) । पूर्वविप्रतिषेधेन गुणादुत्वम् (पा.७।१।१०२ ॥ ) । गौरादित्वात् (पा. ४ ।१ ।४१ ।। ) ङीष्, 'पुरी'- इति सर्वधरः । पूर्यते अत्र इति 'पुर मुखगमने' । घञर्थे कः ( वा. ३ । ३ । ५८ ॥ ) । ततो गौरादिङीषि (पा. ४ १ १४१ ॥ ) 'पुरी' इति स्वामी ॥” इति दृश्यते, भा२, पुरवर्ग:, श्रो- १९, पृ. २५ ॥ २०. 'गन् गम्यद्यो: ' ( उणा - १२० ) इत्युणादिगणसूत्रम् ॥ २१. 'गतौ' इति क्षीरतरङ्गिण्यादयः ॥ २२. द्र. पदचन्द्रिका, भा-२, पुरवर्ग:, श्रो- १९, पृ. २५ ॥ रामाश्रमी२ ।१ ।२ ॥, पृ. १४९ ॥
44
For Private & Personal Use Only
www.jainelibrary.org