________________
४३०
॥
५११ २४५ ॥ इति ठक्, 'ठस्येकः ७।३१५० ॥ किति च ७।२ । ११८ ॥ । द्रोणशब्देन लोके सेई' इति ख्याति द्रोणप्रमाणधान्यवपनं यत्र क्षेत्रे तस्यैकम् १ आढकस्य वाप: आढकिकः | 'तस्य वापः ५ ।१ ।४५ ॥ इति ठक्, 'ठस्येकः '७।३५० ॥ । आढकप्रमाणधान्यवपनं यत्र क्षेत्रे, तत्रामैकम् । आढकशब्देन 'माण' इति प्रसिद्धिः I आदिशब्दात् खारी, लोके 'कलसिका' इति प्रसिद्धिः, तत्प्रमाणधान्यवपनं यत्र क्षेत्रे, ( स खारिक: ) । एवं प्रास्थिकः कौडविकादयोऽप्यूह्याः । द्रोणश्चाढकश्च द्रोणा१० की उप्यते ऽस्मिन्निति वापः । करणाधिकरणयोश्च ३३ - ११७ ॥ इत्यधिकरणे घञ् । वापः क्षेत्रम् । द्रोणाढकयोर्वापः द्रोणाढकवाप:, स आदिर्यस्याऽसौ स तथा । आदिशब्दाद् द्रोणं पचति सम्भवति अवहरति द्रौणिकः कटाह:, सम्भवत्यवहरति पचतीत्यर्थे ठक्, द्रौणिकी स्थाली । द्रोणाद् 'अण् च '५ ।२ । १०३ ॥ इत्यणि द्रौणी स्थाली । एवमाढकिकः कटाह:, आढकिकी स्थालीत्याद्याः
३
॥
2७
चूर्णे क्षोदः
अभिधानचिन्तामणिनाममाला
१ खलन्ति सञ्चीयमानानि धान्यान्यत्र खलधानम्, क्लीये । पृषोदरादिः । २ खल्यन्ते सशीयन्ते धान्यान्यत्र । २० खलम्, त्रिलिङ्ग 'खल सञ्चये' (ध्वा.प.से.), 'गोचरसञ्चर- '३ । ३ ।११९ ॥ इति साधुः । द्वे 'खलां' इति ख्यातस्य ॥ ९६९ ॥
1
2
खलेधानं पुनः खलम् ॥९६९॥
१ चूर्यते स्म चूर्णम्, पुंक्ली. । 'चूरी दाहे (दि.आ.से.), क्तः, तत्र । २ क्षुद्यते क्षोदः । ' क्षुदिर्
Jain Education International
।
[ तिर्यक्काण्ड ४, पृथ्वीकायः संपेषणचूर्णनयो' (रु.उ.अ.) कर्मणि घञ् । द्वे सक करधूलेः । धूलिप्रायोऽयम् । यच्छाश्वतः - " चूर्णानि कासयोगः स्पृक्षण धूलिः सशार्कर "[ शाश्वतकोशः, श्रो३८० ] इति ॥
।
१६
4
१८
अथ रजसि स्युर्धूलीपांसुरेणवः । ३० १ रज्यते वस्त्राद्यनेनेति रजः क्लीवें 'रञ्ज रागे' (दि.उ. अ.), '-असुन्' (उणा- ६२८) इत्यसुन्, असि अके अने घिनुण च रङ्गेन्लोपो वाच्यः । यद्वा भूरजि भ्यां कित' (उणा- ६५६ ) इत्यसुन्, रजतरजकरजः सूपसङ्ख्यानम्' ( ) इति लोपः । रजसी, रजांसि इत्यादिरूपाणि । "रजेनापि (रजसाऽपि ) रजः समम् " [शब्दभेदप्रकाशः, श्री- ३४ ( ३७ ) ] इति शब्दप्रभेदः । " रजशब्दोऽकारान्तोऽपिं ' [ अनेकार्थकैरवाकरकौमुदीटीका, का-२, श्रो- ५७५ ] इत्यनेकार्थसङ्ग्रहटीका तत्र । २ धूयते धूलि, स्त्रियाम् । 'धूञ् कम्पने ' (क्र्या.उ.से.), [ बाहुलकाल्लिः ], 'कृदिका - ४० रातू - '( गणसू-४।१ १४५ ॥ ) इति ङीषि धूली । ३ पंसयति वस्त्रादिकं पांसुः पुंसि । 'पसि नाशने ' ( चु.उ.से.), दन्त्यान्तः, 'अजिंदृशि- '( उणा - २७ ) इत्यादिना उणें (कुः) । ४ रीयते रेणुः, त्रिषु । 'री गर्तौ ' (क्र्या. प. अ.), 'अर्जिवृरीभ्यो णुः ' ( उणा - ३१८ ) इति णुः । " रेणुर्द्वयोः "[ अमरकोषः २ ।८ १९८ ॥ ] इति त्वमरः । चत्वारि धूलेः ॥
२३
लोटे लोष्टुर्दलिर्लेष्टुः
4
१७
१ लुष्यते लोष्ट: पुंक्ली । 'लुष हिंसायाम्' ), क्तः । । “‘लूञ् छेदने '(क्र्या.उ.से.), इत्यस्मात् क्ते लोष्ट इति निपात्यते "[ ] इत्युज्ज्वलदत्तः, ५०
(
4
.
१. 'भाषा' इति१, 'ख्यातः' इति५ ॥ २. कोष्ठान्तर्गतपाठस्थाने १प्रतौ 'तन्नामैकं' इति दृश्यते ॥ ३. 'अवहरति सम्भवति' इति४ ॥ ४. ' र्थः ' इति४ ॥ ५. 'धाना' इति१.२.३ ॥ ६. धाना-' इति१.३ ॥ ७. तुलनीयोऽमरकोषः २४८९९ ॥ ८ 'सम्पेषणे इत्येव क्षीरतरङ्गिण्यादयः ॥ ९. इतोऽग्रे ३प्रतौ क्तः' इति दृश्यते ॥ १०. लि' इति३ ॥ ११. ' स्युः' इति १ २.४.५ प्रतिषु नास्ति ॥ १२. " सशर्करा ॥ ३८० ( चूर्णो धूलिरुदाहृतः ॥ ३८० ) " इति मुद्रितशाश्वतकोशः, पृ. ३४ ॥ १३. - पांशु-' इति३.४ ॥ १४. 'रजते' इति१ ॥ १५. ' - बेऽयम्' इति४.५ ॥ १६. 'अस्यकेऽने च रञ्जर्नलोपो वाच्यः' इति सिद्धान्तकौमुद्यां कृदन्तप्रकरणे, पृ.५६४ ॥ १७ 'रजते-' इति१.२ ॥ १८. "भाष्यमते त्विति । तथा च षष्ठे 'रजकरजनरजः सूपसंख्यानम्' इति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तम्- 'रजकरजनरजः सु कित्त्वात् सिद्धे कित एवैते औणादिका:' इति । तत्र कैयट :- रजक इति 'क्वुन् शिल्पि - ४३९३' इति क्वुन् । रजनमिति रञ्जेः क्वुन् ४४४०' इति क्वुन् । रज इति 'भूरञ्जिभ्यां कित् ४८६२ ' इत्यसुन् प्रत्यय इत्यादि ॥" इति सिद्धान्तकौमुदीतत्त्वबोधिनीटीका, पृ. ५६७ ॥ १९. 'मुद्रितानेकार्थकैरवाकरकौमुदीटीकायाम्- "रज इत्यकारान्तोऽपि " इति दृश्यते, भा-१, पृ. ३२८ ॥ २०. 'ऊण्' इति५ ॥ २१. इदं चिन्त्यम्, 'रेणुर्द्वयोः' इत्यमरकोषे (२४८९८ ॥ ) दर्शनात्, 'रीयते रेणुः स्त्रीलिङ्गः' इति तु स्वोपज्ञटीका ॥ २२. 'री गतिरेषणयो:' इति क्षीरतरङ्गिण्यादयः ॥ २३. 'णुत्' इति१.३ ।। २४ 'लोष्टपलितौ ' (उणा ३७२ ) इति सूत्रसत्त्वादिदं विचारणीयम् ॥
For Private & Personal Use Only
www.jainelibrary.org