________________
४२२
ऽवश्यतया नियतं वर्तन्ते वसन्ति जना अत्रेति नीवृत् । पुंसि बाहुलकात्, सम्पदादित्वात्, 'अन्येभ्योऽपि दृश्यते ' ३ । २ । १७८ ॥ इति वा अधिकरणे क्विप्, 'वृतु वर्तने' (भ्वा. आ.से.), ‘नहिवृतिवृषिव्यधि–’६।३ ।११६ ॥ इत्यादिना दीर्घत्वम् । स्त्रीलिङ्गः तकारान्तः, नीवृतौ, नीवृतः इत्यादिरूपाणि । क्षीरस्वामी तु " नीवृज्जनपदशब्दौ देशनाम्नी, नियतं वर्तन्ते ऽस्मिन्निति, नीवृत्शब्दं च पुंसि देशो विषय उपवर्तनमित्येते त्रयः स्थानमात्रपर्यायाः "[]इति व्याख्यत् । ६ राजते राष्ट्रम् । 'राजू दीप्तौ ' (भ्वा.उ.से.), '-ष्ट्रन्' (उणा१० ५९८ ) इति ष्ट्रन् 'व्रश्चभ्रस्ज- ' ८ ।२ ।३६ ॥ इति षत्वम्, 'तितुत्र - ' ७।२ ।९ ॥ इतीग्निषेधः । ७ निर्गम्यतेऽस्मिन्निति निर्गः । ‘गम्लृ गतौ’(भ्वा.प.अ.), 'निरो देशे ' ( ) इति साधुः । ८ मण्ड्यते मण्डलम्, त्रिलिङ्ग: । 'मडि भूषायाम् (भ्वा.प.से.), 'वृषादिभ्यः कलचं ' ( उणा - १०६ ) । अमरस्तु- "निवृज्जनपदो देशविषयौ तूपवर्तनम् '[ अमरकोषः २ ।१ ।८ ॥] इति पृथगाह । अष्टौ सामान्यतो देशस्य ॥ ९४७ ॥ अथ विशेषत आह
२०
अभिधानचिन्तामणिनाममाला
आर्यावर्तो जन्मभूमिर्जिनचक्र्यर्धचक्रिणाम् । पुण्यभूराचारैवेदी मध्यं विन्ध्यहिमाऽगयोः ॥९४८॥
१ आर्याः साधवो वर्तन्तेऽत्र आर्यावर्तः । 'वृतु वर्तने'(भ्वा.आ.से.), 'हलश्च ३ | ३ | १२१ ॥ इति घञ्, 'अन्येषामपि - ६ |३ | १३७ ॥ इति दीर्घः । आर्या आवर्तन्तेऽत्रेति वा । जिना अवसर्पिण्यामृषभादयश्चतुर्विंशतिः, चक्रिणो भरतादयो द्वादश, अर्धचक्रिणस्त्रिपृष्ठादयोऽश्वग्रीवादयश्च नव, साहचर्यादचलादयो बलदेवा नव तेषां जन्मभूमिः । २ पुण्यस्य भूः पुण्यभूः । पुण्या व भूः पुण्यभूः । ३ आचारस्य वेदीव आचारवेदी । विन्ध्यहिमाऽगयोर्विन्ध्याद्रिहिमाद्रयोर्मध्यं मध्यभाग: आर्यावर्त इत्यन्वयः । यद्व्याडि:
[ तिर्यक्काण्डः - ४, पृथ्वीकायः 'आसमुद्राच्च वै पूर्वादासमुद्राच्च पश्चिमात् । हिमवद्विन्ध्ययोर्मध्यमार्यावर्तं विदुर्बुधाः ॥१ ॥["] इति । ३० आर्यावर्तः पुंसि, द्वौ स्त्रीलिङ्गौ । त्रीणि आर्यदेशस्य ॥ ९४८ ॥ गङ्गायमुनयोर्मध्यमन्त॑र्वेदिः समस्थली ।
१. 'वर्तते' इति१.५ ॥ २. अम. क्षीरस्वामिकृतटीकायां न दृश्यते " निर्गच्छन्त्यत्रेति निर्गो देश: 'निसो देशे' इति डः । देशादन्यत्र
Jain Education International
१ (गङ्गाया यमुनायाश्च) नद्योर्मध्यं मध्यभूमिः, अन्तर्मध्ये वेदिरिव अन्तर्वेदिः । २ समा चाऽसौ स्थली च समस्थली । द्वे गङ्गायमुनयोर्मध्यभूमिदेशस्यै ॥ ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यतः ॥ ९४९ ॥
१ सरस्वत्या दृषद्वत्याश्च नद्या मध्यभूमिदेशनामैकं ब्रह्मावर्तः । ब्रह्माणो ब्राह्मणा आवर्तन्तेऽत्र ब्रह्मावर्तः । ' मध्यतः' इति सप्तम्यर्थे तसिल् तेन सरस्वतीदृषद्वत्योर्मध्ये इत्यर्थः ॥९४९ ॥
ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामह्रदान्तरम् ।
१ कुरुक्षेत्रे पञ्चानां रामह्रदानां मध्यगतप्रदेशनामैकं ब्रह्मणो वेदिः ब्रह्मवेदिः स्त्रियाम् ॥
धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि ॥ ९५० ॥
१ धर्मस्य क्षेत्रं धर्मक्षेत्रम् । २ कुरवोऽत्र क्षियन्ति स्म कुरुक्षेत्रम् । तच्च द्वादशयोजनावधि भवति । द्वे कुरुक्षेत्रस्य ॥ ९५० ॥ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ ९५१ ॥
३. 'व्याख्यानात्' इति४ ॥ ४ 'निर्गमः' इति३. ४.५ ॥ ५. निर्गमनम् इति ल्युड् भवति ॥” इति मा. धातुवृत्तिः, भ्वादि:, धातुसं७०२, पृ. २७८ ॥ ६ 'वृषादिभ्यश्चित्' इत्युणादिगणसूत्रस्वरूपम् ॥ ७ 'न्येन' इति३ ॥ ८. इतोऽग्रे १प्रतौ 'च' इति दृश्यते ॥ ९. 'चासौ' इति३ ॥ १०. 'मध्यम-' इति३ ॥ ११. ' - ध्ये' इति १ ॥ १२. तुलनीया मनुस्मृतिः, अध्या- २, स्वोपज्ञटीका४ ।९४८ ॥, पृ. २१० ॥ १४. कोष्ठान्तर्गतपाठस्थाने १प्रतौ 'गङ्गायमुनयो:' इति दृश्यते || १५. ' मध्ये भूमिप्रदेशस्य' इति१ ॥ १७ 'ब्रह्म' इति१.३ ॥ १८ 'पञ्च-' इति१ ॥ १९ 'प्रयोग' इति४.५ ॥ २०. नास्ति ॥ २९. इतोऽग्रे ३प्रतौ 'स' इति दृश्यते ॥
श्लो-२२ ॥ १३. द्र. अन्तयोः' इति ॥ १६. 'एव' इति२.३.४.५ प्रतिषु
१-२ उत्तरस्यां हिमवान् पर्वतः, दक्षिणस्यां विन्ध्य- ५० पर्वतः, तयोर्मध्यम्, विनशनो नाम [ सरस्वत्याः अन्तर्धानदेशः ], तस्मात् प्राक्, प्रयागः गङ्गायमुनयोः सङ्गमः, तस्मात् प्रत्यगेवं, एतानवधीकृत्य यो देशः, नाऽत्युत्कृष्टो नाऽप्यनुत्कृष्ट इत्यर्थः, स मध्यदेशः, तन्नाम्नी द्वे मध्यदेशः, मध्यमः इति ॥९५१॥
४०
For Private & Personal Use Only
www.jainelibrary.org