________________
९१५-९१९]
१ पिष्यते पिण्यार्कः, पुंनपुंसकः । यद्गौड:" पिण्याकोऽस्त्री तिलकल्के' [] । 'पिष्लृ सञ्चूर्णने ' (रु.प.अ.), 'पिनाकादयश्च' (उणा - ४५५ ) इति साधुः । २ खन्य खलः, पुंक्ली. । 'खन खनने ' ( भ्वा.उ.से.), 'मृजिखन्याहनिभ्यो डित् ' (हैमोणा - ४७२ ) इत्यलः । द्वे खलस्य ॥ रथकृत् स्थपतिस्त्वष्टा काष्ठतद् तक्षवर्धकी
व्युत्पत्तिरत्नाकरकलिता
॥९१७॥ १ रथं करोति रथकृत् । क्विपिं, 'ह्रस्वस्य - '६ ।१ । ७१ ॥ इति तु । रथकारोऽपि । २ स्थापयति स्थ१० पतिः ३ त्वक्षति तनूकरोति काष्ठमिति त्वष्ट | 'तक्ष त्वक्ष (तक्षू त्वक्षू) तनूकरणे' (भ्वा.प.वे.), 'नसृनेष्ट- ' (उणा२५२ ) इति साधुः । ४ काष्ठं तक्ष्णोति काष्ठतद् । 'तक्ष (तक्षू) तनूकरणे' (भ्वा.प.वे.), करणे क्विप् तक्षतेः संयोगान्तलोपः । काष्ठतक्षौ, काष्ठतक्षः इत्यादि । ५ तक्ष्णोति तनूकरोति तक्षा । 'तक्ष (तक्षू) तनूकरणे' (भ्वा.प.वे.), 'कनिन्युवृषितक्षिराजिधन्विप्रतिदिव: ' ( उणा - १५४) इति कनिनि प्रत्यये साधुः । तक्षाणौ, तक्षाणः इत्यादि । ६ वर्धयति छिनत्ति वर्धकिः । 'वृधु छेदने ' ( ), वर्धतेरकिः, पृषोदरादिर्वा । षट् सूत्रधारस्य ॥९१७॥
२० ग्रामायत्तो ग्रामंतक्षः
१ ग्रामस्यायत्तो ग्रामायत्तः । २ ग्रामस्य तक्षा ग्रामतक्षः । ' ग्रामकौटाभ्यां च तक्ष्णः '५ ।४ ।९५ ॥ इति टच् 'नस्तद्धिते '६ ।४ ।१४४ ॥ इति टिलोपः सर्वेषां साधारणतक्षेत्यर्थः । एकं ग्रामसूत्रधारस्य ॥
कौतक्षोऽनधीनः ।
१ कुट्यां शालायां भवः कौटः । ' तत्र भवः' ४ | ३ १५३ ॥ इत्यण् । कौटः स्वतन्त्रः सं चासौ तक्षा च कौटतक्ष: । 'ग्रामकौटाभ्यां च तक्ष्णः ५ १४ ।९५ ॥ इति टच् । स्वापणशालायां यः कर्म करोति, स्ववशो न कस्यचित् ३० प्रतिबद्ध इत्यर्थः । २ नास्ति अधि उपरि इनः स्वामी
४०५
अस्येति अनधीनः । स एव अनधीनकः । एकं स्ववशसूत्रधारस्य ॥
Jain Education International
वृक्ष क्षणी वासी
९ वृक्षान् भिनत्ति वृक्षभित् । 'भिदिर् विदारणे' (रु.उ.अ.), क्विप् । २ तक्ष्यतेऽनया तक्षणी । 'तक्ष त्वक्ष (तक्षू त्वक्षू) तनूकरणे' (भ्वा.प.वे.), करणे ल्युट् गौरादिः । ३ वसति हस्ते वासि: । 'वस निवासे ' (भ्वा.प.अ.), 'वसिवपिवदिराजिं - ' ( उणा - ५६४ ) इत्यादिना इन्, स च णित्, ततः ‘कृदिकारात्-’(गणसू - ४ ।१ ।४५ ) इति ङीष् वा त्रयोऽपि स्त्रीलिङ्गीः । त्रीणि 'वांसोली' इति ख्यातायाः ॥ क्रकेचं करपत्त्रकम् ॥९९८॥
४०
१ क्रशब्दोच्चारणेन कचति क्रकचम्, पुंनपुंसकम् । " क्रकचोऽस्त्री " [ अमरकोषः २ | १० |३४ ॥ ] इत्यमरः । 'कच गतौ (शब्दे) ' (भ्वा.आ.से.), अच् । २ करसञ्चार्यं पत्त्राकारं वस्तु करपत्त्रम्, कनि करपत्त्रकम् । करशब्दोच्चारणेन पततीति वा, ष्ट्रन् । द्वे 'करवत' इति ख्यातस्य ॥९९८ ॥ स उर्द्धनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते ।
५०
१ यस्मिन् काष्ठेऽन्यत् काष्ठं निक्षिप्य संस्थाप्य तक्ष्यते, तन्नामैकम् उद्धनः इति । उद्धन्यते काष्ठमत्र उद्धनः । 'उद्धनोऽत्याध्याने (-त्याधानम्) '३।३।८० ॥ इति साधुः । 'खोड' इत्यादिसूत्रधार भाषा । काष्ठमित्युपलक्षणम्, तेन लोहादिरपि, तदा ‘अयहरर्णे' इति भाषा | यल्लक्ष्यम्"लोहोद्घनघनस्कन्धाः "[ ]इति ॥ वृक्षोदनो वृक्षभेद
१७
१ वृक्षोऽद्यते छिद्यतेऽनेन वृक्षादनः । 'अद भक्षणे' (अ.प.से.), करणे ल्युट् । २ वृक्षान् भिनत्ति वृक्षभेदी । ग्रहादित्वाण्णिनिः । द्वे ‘कुहार्डी' इति ख्यातस्य ॥
टङ्कः पाषाणंदारर्कः ॥९१९॥
१. 'पिषेः पिन्पिण्यौ च' (हैमोणा - ३६ ) इत्याकः ॥ २. ' - क्लीबलिङ्गः' इति४ ॥ ३. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादयः ॥ ४ 'क्विप्' इति३ ॥ ५. 'वृधु छेदनपूरणयो:' इति क्षीरतरङ्गिण्यादयः ॥ ६ 'पञ्च' इति३ ॥ ७ तुलनीयोऽमरकोषः २ १०९ ॥ ८ ३ प्रतौ नास्ति ॥ ९. ३. ४प्रत्योर्नास्ति ॥ १०. 'वसिवपियजिराजि- ' (उणा - ५६८) इत्युणादिगणे ॥ ११. 'ङीषि' इति३ ॥ १२. 'ङ्गः' इति३ ॥ १३. 'वं-' इति१, 'वंशो ' इति३ ॥ १४ 'क्र-' इति४ ॥ १५. 'यत्र' इति४ ॥ ' णे' इति३ ॥ १७ द्र. स्वोपज्ञटीका ३ ।९१९ ॥ पृ. २०२ ॥ तुलनीयोऽमरकोषः २ | १० |३४ ॥ १९. 'कुहा' इति४ ॥
१६.
१८.
For Private & Personal Use Only
www.jainelibrary.org