________________
३८६
१ क्षिप्यतेऽनया क्षेपणी
क्षिप प्रेरणे' (दि.प.अ., तु. उ. अ.), क्षिपे किच्च ' ( उणा - २६४) इत्यनिः "आतिदेशिककार्यानित्यत्वाद् गुणाभावाभावे क्षेपणिः, 'कृदिकारात्- ' ( गणसू-४११४५ ॥ इति षि क्षेपणी च["] इति माधवी । क्षिप्यतेऽनयेति करणे ल्युट् वा, गौरादिः । नौकायां दण्डः येन नौवह्यतेऽसौ नौकादण्डस्तस्यैकम् ॥
गुणवृक्षस्तु कूपकः ||८७७ ॥
१ गुणानां रज्जूनां वृक्ष इव गुणवृक्षः २ कूपाकृत्याधारगर्ते कायति स्वपिति कृपकः 'आतोऽनुपसर्गे १० कः '३।२।३ ॥ | "पोतो ध्वजपटाद्याधारः "[]इत्येके । गौंडस्तु-'जलान्तस्तरून् कूपकानाहे । द्वे कूपकस्य । 'कूआथंभ' इति भाषा ॥ ८७७ ॥
पोलिंन्दास्त्वन्तरादण्डाः
१ पोलन्ति महत्त्वं यान्ति पोलिन्दाः । 'पुल महत्त्वे ' (भ्वा.प.से.), 'कल्यलिपुलि- (हैमोणा- २४६ ) इति इन्द, बाहुलकाद् गुणः । नौकाया मध्ये दण्डा अन्तरादण्डाः । एकं 'गाभल' इति ख्यातस्य ॥
अभिधानचिन्तामणिनाममाला
स्यान्मङ्गो मङ्गिनीशिरः ।
१ मङ्गत्यनेन मङ्गः । मगि गतौ ' (भ्वा. पसे.), २० अच् पुंस्ययम् । वैजयन्ती तु "नौशिरो मङ्गमस्त्रियाम्" [ वैजयन्तीकोषः ४ । २ । १७ ॥ ] इति क्लीबेऽप्याह । मङ्गिनी नौ तस्याः शिर उपरिभाग: [मङ्गिनीशिर: 1
||
अधिस्तु काष्ठकुद्दालः
१ अभ्रति गच्छति अभिः स्त्रीलिङ्गः । अभ्र गतौ ' (भ्वा.प.से.), 'सर्वधातुभ्यः इन्' ( उणा - ५५७), 'कृदिकारात्- '( गणसू-४११ ०४५ ॥ ) इति ङीषि अभ्री च कुं भुवमुद्दालयति कुद्दालः । 'दल विशरणे ' ( भ्वा.प.से.), हेतु - मण्णिच, कर्मण्यण् ३ २ ११ ॥ शकन्ध्वादिः । काष्ठस्य कुद्दालः काष्ठकुद्दालः । येन निखन्यते भग्न पोतादि कुधेन ३० पूर्यते, तस्यैकम् ॥
Jain Education International
[ मर्त्यकाण्डः - ३ सेकपात्रं तु सेचनम् ॥ ८७८ ॥
१ सेकाय सेकस्य वा पात्रं सेकपात्रम् । सिच्यतेऽनेन नीजल सेचनम् विचिर् (विच) क्षरणे (तु.उ. अ.), करणे ल्युट् । येन नावो जलमुद्ध्रियते, तस्यैकं क्वचित् । 'नावलां' इति भाषा ॥ ८७८ ॥
केर्निपातः कोटिपात्रमरित्रें
१ के जले निपात्यते केनिपातः । कर्मणि पञ् 'संज्ञायाम् २ ११ १४४ ॥ इति समासः, 'तत्पुरुषे कृति - ६ ३ २९४ ॥ इत्यलुक् । के निपातोऽस्येति वा । 'हलदन्तात् सप्तम्याः संज्ञायाम् '६ | ३ |९ ॥ इत्यलुक् । २ कोटिभिः काष्ठाग्रभागैः पाति ४० कोटिपात्रम् ['सर्वधातुभ्यः ष्टन् ' ( उणा - ५९८ ) इति ष्टन् ] । ३ ऋच्छत्यनेन अरित्रम् । 'ऋ गतौ ' (भ्वा.प.अ.), 'अर्तिलूधूसूखनसहचर इत्रः ३।२।१८४३ गुण:, [ तत्र] । कर्णौऽपि । " कर्णः श्रोत्रमरित्रं च "[ ] इति दुर्ग: । त्रीणि 'आउला इति ख्यातस्य ॥
अथोडुपः प्लवः ।
कोलो भेलस्तरण्डच
१२
।
१ उडुर्जलम् तथा च " जलहस्तिनीत्यर्थे उडु हस्तिनी सहस्रवर्णम्"["] इति हरिप्रबोधः, "उडव आप: " ["] इति भिक्षाकरगुप्तश्च । उडुनि जले, उडुनो जलाद् ५० वा पाति उडुपः, पुंक्ली., ह्रस्वादिर्हस्वमध्यः । 'पा रक्षणे ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः ३ । २ । ३ ॥ | "उडुपश्चन्द्रभेलयो: "["]इति धरणिः चन्द्रगोमी च " अतः पुंस्ययम्, 'ऊदनोर्देशे '६ ।३ ।९८ ॥ इति दीर्घकरणमनोरन्यतोऽपि यथा स्यात् तेन उत्तरत्यद्भ्यः उदुपदाद् अपशब्दस्याऽकारस्योत्वं नैरुक्तो वर्णविकारे 'उदूप:' इत्यपि "[ ]इत्युज्ज्वलदत्तः । २ प्लवति ( प्लवते) इति प्लवः । 'मेवृ प्लु गती ( ), अच् । प्लवन्तेऽनेनेति, ऋदोरप् ३।३।५७ ॥ वा । कोलयति घनीभवति कोलः 'कुल संस्त्याने (ध्वा.प.से.), ज्वलादित्वाण्णः । ४ भिल्यते भेलः । भिलिः सौत्रः ६०
१५
4
१. 'गुणाभावे' इति४ ॥ २. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्री- २४१, पृ. २८७ ॥ ३. द्र. अम.क्षीर. १ । १ । १२ ॥ पृ. ६३ ॥ स्वोपज्ञटीका ३ १८७७ ॥ पृ. १९३ ॥ तयो: 'पोतो' इत्यस्य स्थाने 'पोते' इति दृश्यते ॥ ४. -भाला' इतिर, भिला' इति३ ॥ ५. अयम्' ४प्रतौ नास्ति ॥ ६. न्ति' इति३ ॥ ७ - ग्न-' इति ॥ ८. तुलनीयोऽमरकोषः १ ।१०।१३ ॥ ९. 'ला' इति३ ॥ १०. ' ' इति४ ॥ ११. 'ला' इति३.४ ॥ १२. द्र. पदचन्द्रिका भा-१, वारिवर्ग - २३९, पृ. २८४ ॥ " दहशुचिरमुकरिणीसहस्त्रमन्तं सुधामदं सकलं" इत्यत्र हरिप्रबोधे कीर्तिमतालङ्कारप्रणीतटीकायाम् 'उडव आप' इति व्याख्यातम् । अतस्ततः पातीत्युडुपः ।" इति टीकासर्वस्वम्, भा-१, १।१०।११ ॥ पृ. १८२ ॥ १३. - दिह्न' इति३ ॥ १४. द्र. टीकासर्वस्वम्, भा- १, ११० ॥ ११ ॥ पृ. १८२ ॥ तत्र 'उडुपो हेलचन्द्रयोः' इति दृश्यते, पदचन्द्रिका, भा-१, वारिवर्गः, श्री- २३९, पृ. २८४ ॥ रामाश्रमी १ । १० । ११ ॥ पृ. १२४ ॥ १५. द्र. पदचन्द्रिका, भा-१, वारिवर्गः, श्रो- २३९, पृ. २८४ ॥
',
For Private & Personal Use Only
www.jainelibrary.org