________________
॥ श्रीशङ्खे श्वरपार्श्वनाथाय नमः ॥
॥ अनन्तलब्धिनिधान श्रीगौतमस्वामिने नमः ॥
॥ परमोपास्यश्रीनेमि-विज्ञान - कस्तूर- चन्द्रोदय- अशोक-सोमचन्द्रसूरीश्वरसद्गुरुभ्यो नमः ॥
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचिता वाचक श्रीदेवसागरगणिकृतव्युत्पत्तिरत्नाकरकलिता ॥ अभिधानचिन्तामणिनाममाला ॥
॥ प्रथमो देवाधिदेवकाण्डः ॥
श्रेयःसन्ततिसिन्धुवृद्धिविलसज्जैवातृकाऽऽभो विभुर्भास्वद्ज्ञानगभस्तिदीप्तिविधुतव्यामोहपूरः प्रभुः । सात्वच्छश्वदभीष्टदैवतमणिः संसारसिन्धौ तरिः, श्रीमन्नाभिनरेन्द्रनन्दनजिनः श्रेयस्कर स्तात् सदा ॥ १ ॥ जित्वा यो जगतीं जिनश्चतसृभिः सेनाभिरुद्यद्यशा, भुक्त्वा भारतचक्रवर्तिकमलां दुष्टाष्टकर्मद्विषः । भित्त्वाष्टप्रवचःप्रसूबलगुणैर्लेभेऽथ सर्वश्रियं स श्रीशान्तिजिनाधिपोऽस्तु भविनां प्रत्यूहशान्त्यै सताम् ॥ २ ॥
त्यक्त्वा राजीमतीं यः स्वनिहितहृदयामेकपत्नीं सुरूपां सिद्धिस्त्री भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः । लोके ख्यातस्तथाऽपि स्फुरदतिशयवान् ब्रह्मचारीति नाम्ना, स श्रीनेमीजिनेन्द्रो दिशतु शिवसुखं सात्वतां योगिनाथः ॥३ ॥
कल्याणामृतशेवधेर्भगवतो यस्य क्षणालोकनप्राप्तप्रौढतरप्रसादगुणतो व्यालोऽपि देवेन्द्रताम् । लेभे विघ्नतमोवितानतरणि: सम्पल्लतावारिदः, श्रीवामेयजिनाधिपोऽस्तु भविनां श्रेयस्करस्तीर्थकृत् ॥ ४ ॥
सान्द्रानन्दनमन्नरेन्द्रविबुधाऽधीशाऽऽलिमौलिप्रभाभास्वद्यत्प्रतिबिम्बदम्भत इवाऽनेकस्वरूपो विभुः । उद्धर्तुं जगदेव किं भवमहापङ्कात् कृपावारिधिः, श्रीमच्छासननायक: स तनुतां श्रीवर्धमानः श्रियम् ॥५ ॥
Jain Education International
भक्तया श्रीश्रुतदेवतां सुविशदज्ञानैकहेतुं तथा, श्रीमच्छ्रीगुरुविश्ववन्द्यचरणाऽम्भोजं प्रणम्याऽऽदरात् । वृत्तिं विज्ञमनोरमां विरचये श्रीपाणिनीयोक्तिभिः, श्रीसूरीश्वरहेमचन्द्ररचित श्रीनामचिन्तामणेः ॥ ६ ॥ क्षीरस्वामि-महेश-रक्षित - सुभूति - व्याडि - वोपालितस्वामि- न्यास - पुराण- भाष्य- रभस- ग्रन्थांस्तथाऽनेकशः । सर्वानन्द- निधान-रुद्र-धरणि-स्कन्दर्भुगुर्वादिकान् सद्ग्रन्थानुपजीव्य यत्यत इह ग्रन्थे मया सादरम् ॥७ ॥
तत्र ग्रन्थारम्भे ग्रन्थकारश्चिकीर्षितस्य ग्रन्थस्याऽविघ्नेन परिसमाप्त्यर्थं शिष्टाचारपरिपालनार्थं च विशिष्टेष्टदेवतानमस्कृतिरूपं मङ्गलमाचरति -
For Private & Personal Use Only
www.jainelibrary.org