________________
३४८
" २ परान् शत्रून् शृणाति परशुः । श हिंसायाम् ' (क्र्या.प.से.), 'आङ्पराभ्यां खनिशुभ्यां डिच्च ' ( उणा - ३३ ) इत्यु:, बाहुलकादुपसर्गस्य ह्रस्वत्वम् । ३ पृणाति पर्शुः । —पृ(पृ) पालनपूरणयो: '(क्र्या.प.से.), 'प्रः शुः - ' ( है मोणा - ८२५ ) इति शुः । ४ पर्शुकाभिर्न धीयते पर्श्वधः । स्थादित्वात् कः । ५ परः शत्रुः श्वेव परश्वा, परश्वानं धयति पिबति, 'आतोऽनुपसर्गे कः ३ । २ । ३ ॥, परश्वधः । परान् शृणाति वा परश्वधः । 'परात् श्री डित्- ' (हैमोणा - २५५) इति वध:, तालव्यशवान् ।‘“परान् शत्रून् स्यति अन्तं नयति परस्वधः, १० पृषोदरादिः, दन्त्यसकारवान् "[]इति माधव । स्वधि विदारणे' ( ), तुदादौ, ततो बाहुलकात् क्तिच् स्वधितिः, दन्त्यादिः । स्वं धियति धारयति वा । 'धिञ् धारणे' (तु.प.अ.), क्तिच् । परश्वादयः षडपि पुंसि । षट् 'फरसी' इति ख्यातायाः ॥
अभिधानचिन्तामणिनाममाला
परिघः परिघातनः ॥७८६॥
१ परितो हन्यतेऽनेन परिघः । हन्तेः 'परौ घः ' ३।३।४ ॥ इत्यप्प्रत्ययंघादेशौ । लत्वे पलिघोऽपि । २ परितो घातयति परिघातनः । हन्तेर्ण्यन्तान्नन्द्यादित्वाद् ल्युः । द्वे परिघस्य । 'लोहबांधी गेडी' इति भाषा ॥७८६ ॥ २० सर्वला तोमरे
१ सर्वान् लाति सर्वला, दन्त्यादिः । 'शर्व गतौ' (भ्वा.प.से.), वृषादित्वात् कलचि शर्वला, तालव्यादिरपि । २ तुदन् व्यथन् मारयति तोमरः, पृषोदरादिः, पुंक्ली. । "सर्वला तोमरोऽस्त्रियाम्"[ अमरकोषः २ ।८ ।९३ ।। ] इत्यमरः, तत्र । द्वे तोमरनाम्नः ॥
शल्यं शङ्कौ
१ शलत्यन्तर्विशति शल्यम्, पुंक्ली. 'शल गतौ' (भ्वा.प.से.), अघ्न्यादित्वाद् यत् । " शल्यप्रोतं वीक्ष्यं सकुम्भं मुनिपुत्रम्"[रघुवंशम्, सर्ग: ९, लो - ७५ ] इति रघुः ।
[ मर्त्यकाण्डः-३
२ शाम्यत्यनेन शङ्कुः, पुंसि । शङ्कतेऽस्मादिति वा । 'खरु - ३० शङ्कु-'(उणा -३६) इति साधुः । "पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिण: "[ शिशुपालवधम्, सर्गः - १९, श्रो- ४५ ] इति माघः । द्वै' 'साल' इति ख्यातस्यै ॥
शूले त्रिशीर्षकम् ।
Jain Education International
१ शूलति रुजति शूलम्, पुंक्ली. । 'शूल रुजायाम्' (भ्वा.प.से.), पचाद्यच्, तत्र । २ त्रीणि शीर्षाण्यस्य त्रिशीर्षकम् । 'उरःप्रभृतिभ्यः कप् ५ ४ । १५१ ॥ । द्वे त्रिशूलस्य ॥ शक्तिपट्टिसदुः स्फोटचक्राद्याः शस्त्रजातयः ॥ ७८७॥
१ शक्नोति जेतुमनया शक्तिः । शक्लृ शक्तौ' (स्वा.प.अ.), 'स्त्रियां क्तिन् ' ३ । ३ । ९४ । । १ पटति शत्रून् ४० पट्टिसः । 'पट गतौ ' (भ्वा.प.से.), 'पटिवीभ्याम्- '(हैमोणा५७९) इति टिसः । “अयं तालव्यान्तैः "["] इत्यन्ये । १ दुरिति दुःखं स्फोटयति दुःस्फोट: । 'स्फुट विदारणे' (चु.उ.से), चुरादिः, अच् । १ क्रियते प्रहारोऽनेनेति ) कप्रत्ययः, चक्रम् पुंक्ली. । 'कृञः क्लिदेः क्नसश्च' ( द्वित्वं च । आदेः शतघ्नी - महाशिला - मुषण्ढी - चिरिकावराहकर्णकैंप्रभृतयः ।
शेषश्चात्र
" अथ शक्तिः कासूर्महाफला । अष्टतालाऽऽयता सा च पट्टिसस्तु खुरोपमः ॥ लोहदण्डस्तीक्ष्णधारो दु:स्फोटाराफलौ समौ । चक्रं तु वलयप्रायमरसञ्चितमित्यपि ॥१॥ शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता । अयः कण्टकसंछन्ना शतघ्न्येव महाशिला ॥२॥ मुषण्ढी स्याद् दारुमयी वृत्ताय: कीलसञ्चिता । कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका ॥३॥ वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च " [शेषनाममाला ३।१४८-१५२ ।।] ।। श्रमो योग्याऽभ्यासः
तु
खुरली
१. स्थानं' इति ३ । २. 'श्रोत्रेन्द्रियादिति' इति३.४ ॥ ३. द्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्ग:, श्रो- ५४६, पृ.६३१ ॥ तत्र "परान् स्यति 'परस्वधः ' पृषोदरादिः (पा. ६ । ३ । १०९ ॥ ) । दन्त्यसः - इति माधवी " इति दृश्यते ॥ ४. क्षीरतरङ्गिण्यादौ ञकाररहितः पाठः ॥ ५. तुलनीयोऽमरकोषः २।८।९१ ॥ ६. ' - यः' इति३.४ ॥ ७ 'सर्व' इति १.४ ॥ ८ ४प्रतौ नास्ति ॥ ९. रघुवंशे 'वीक्ष्य' इत्यस्य स्थाने 'प्रेक्ष्य' इति, 'वीक्ष्य' इति च पाठान्तरं दृश्यते, पृ. २४३ ।। १०. ३प्रतौ नास्ति ॥ ११ इतोऽग्रे ३प्रतौ 'द्वे' इति दृश्यते ॥ १२. स्वामिसम्मतोऽयं धातुपाठः, 'शूल रुजायां सङ्घाते च' इति मैत्रेयसायणौ ॥ १३. 'तालव्यन्तोऽयम्' इति४ ॥ १४. द्र. स्वोपज्ञटीका ३ १७८७ ॥ पृ. १७४ ॥ तत्र " अयं तालव्यं" इति दृश्यते ॥ १५. "घञर्थे कः, 'कृञादीनां के द्वे भवतः ' (वा - ६ ११ ११२ ॥ ) इति द्वित्वम्" इति युक्तम् ॥ १६. ' - र्णका-' इति३.४ ॥
For Private Personal Use Only
५०
www.jainelibrary.org