________________
७१०-७१६ ]
१ हलति शत्रुहृदयं हालः । 'हल विलेखने' (भ्वा.प.से.), ज्वलादित्वाण्णः । २ सातं दत्तं सुखं वाहनमस्य सातवाहनः । सालवाहनोऽपि । शालोऽपि, तालव्यादिः । " शालो हालनृपे मत्स्यप्रभेदे सर्जपादपे "[विश्वप्रकाशकोशः, लान्तवर्गः, श्लो-१४]इति महेश्वरः । द्वे सालवाहनस्य ॥ कुमारपालश्चौलुक्यो राजर्षि परमार्हतः ॥७१२॥ मृतस्वमोक्ता धर्मत्मा मारिव्यसनवारकः ।
व्युत्पत्तिरत्नाकरकलिता
१ कुमारानिव शिशूनिव प्रजाः पालयति कुमारपालः । ‘पाल रक्षणे'(चु.उ.से.), णिजन्तादच्, मयूरव्यंसका१० दित्वात् समासः । कुं पृथ्वीं मां लक्ष्मीमरमत्यर्थं पालयति
वा । २ चुलुकस्यापत्यं चौलुक्यः । 'गर्गादिभ्यो यञ्' ४।१ ।१०५ ॥ | चुलुके भवश्चौलुक्यस्तस्याऽयमिति वा । ३ राजते सप्ताङ्गेनेति राजा, क्षमादिगुणधारणाद् ऋषिः, आ ईषदृषिरर्षिः, राजा चासावर्षिश्च राजर्षिः । 'ओमाङोश्च '६ ११ १९५ ॥ इति पररूपत्वम् । ४ अर्हन् देवताऽस्येति आर्हतः । 'सास्य देवता' ४।२।२४ ॥ इत्यण् । परमः क्षमादिगुणधारणात् स चाऽसावार्हतश्च परमार्हतः ॥७१२॥ ५ मृतस्य स्वं द्रव्यं मृतस्वं निर्वीराद्रविणम्, तद् मुञ्चति न गृह्णाति मृतस्वमोक्ता । 'मृच्लृ मोक्षणे' (तु.उ. अ.), तृच् । ६ अहिंसादिलक्षणो धर्मः, स एवाऽऽत्मा२० ऽस्य धर्मात्मा । ७ मारिं प्राणिवधम्, व्यसनानि मृगयाद्यूत - मद्यपानादीनि [च] सर्वथा लोके वारयति निषेधयति मारिव्यसनवारकः । 'वर निवारणे' ( ), णिजन्त:, ण्वुल्, अष्टाक्षरोऽयम् । सप्त कुमारपालस्य ॥ राजबीजी राजवंश्यः
१ राजबीजमस्त्यस्य राजबीजी । 'अत इनिठनौ' ५ ।२ ।११५ ॥ इतीनिः । २ राजवंशे साधुः राजवंश्यः । 'तत्र साधुः ४ । ४ १९८ ॥ इति यत् । द्वे 'राजवी' इति ख्यातस्य ॥ बीज्यवंश्यौ तु वंशजे ॥७१३॥
१ - २ बीजे साधुः बीज्यः । वंशे साधुः वंश्यः । ३० उभयत्र ‘तत्र साधुः’४|४|१९८ ॥ इति यत् । यथा सूर्यबीज्यो
Jain Education International
३१३
राम:, तथा सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे । "बीज्यस्तु कुलसम्भवः "[ अमरकोश: २ ७ १२ ॥] इत्यमरः । द्वे वंशजातस्य ॥७१३॥
स्वाम्यामात्यः सुहृत्केशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः
१ स्वमी राजा, अमात्यः सचिवः सुहृद् मित्रम्, कोशो भाण्डागारः, राष्ट्रं देशः, दुर्गं कोटः, बलं सैन्यमेतानि सप्त राज्यस्याङ्गानि आरम्भकाणि राज्याङ्गानि प्रक्रियते आभिरिति प्रकृतयः । 'स्त्रियां क्तिन् ' ३ । ३ । ९४ ॥ । स्वाम्यादीनां सप्त राज्याङ्गानां सामान्येन एकं प्रकृतय इति । यद्रघुः " अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ''[ रघुवंशम्, सर्ग: ८, श्री - १०] इति ॥
पौराणां श्रेणयोऽपि च ॥७१४॥
१ पुरे भवा पौराः, एकमुख्यः सजातीयसमूह: श्रेणि:, पौराणां पुरवास्तव्यजनानां श्रेणयः एकमुख्याः सजातीयसमूहा अपि प्रकृतयो राज्याङ्गानीत्येव पुरवास्तव्यलोकोऽपि प्रकृतिरुच्यत इत्यर्थः । यत्कात्यः - " अमात्याश्च पौराश्च सद्भिः प्रकृतयः स्मृता: "[ ]इति । तथा च रघुः - "तथैव सौऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् "[ रघुवंशम्, सर्गः - ४, श्रो- १२]इति ॥७१४॥ तन्त्रं स्वराष्ट्रचिन्ता स्यात्
१
तन्यते तन्त्रम् | 'तनु विस्तारे' (त.उ.से.), 'सर्वदातुभ्य [ : ] ष्ट्रन् ' ( उणा - ५९८), 'तितुत्र- '७ १२ १९ ॥ इतीनिषेधः । एकं स्वदेशस्य रक्षणपोषणचिन्तायाः ॥
आवापस्त्वरिचिन्तनम् ।
१ आ उप्यत इति आवापः । 'टुवप् बीजतन्तुसन्ताने'(भ्वा.उ.अ.), कर्मणि घञ् । सन्ध्यादिषाड्गुण्येन परमण्डलचिन्ता आवापः । यथा - " परं प्रत्यावापः फलति कृतसेकस्तरुरिव''[] । एकं शत्रुचिन्तनस्य ॥
परिस्यन्दः परिकरः परिवारः परिग्रहः ॥७१५॥ परिच्छदः परिबर्हस्तेन्त्रोपकरणे अपि ।
१. 'चुल- ' इति२.३ ॥ २. 'स्व-' इति३ ॥ ३. 'सप्ता-' इति१.२.३ ॥ ४. 'राजबीज' इति१ ॥ ५. तुलनीयोऽमरकोषः २ १८ । १८ ॥ ६. ' -तीयानां समूहः ' इति३ ॥ ७, 'अमात्याश्च' इति ॥ ८. द्र. स्वोपज्ञटीका३ । ७१४ ॥ पृ. १५८ ॥ ९. द्र. अनेकार्थकैरवाकरकौमुदीटीका, भा-२, ३।४३०॥, पृ.१८९ ॥
For Private Personal Use Only
४०
५०
६०
www.jainelibrary.org