________________
२८०
(भ्वा.प.से.), ‘कञ्चुकांशुक - ' (हैमोणा - ५७ ) इत्युकप्रत्यये निपात्यते । द्विपञ्चमस्वरोऽयम् । एकं जिह्वामलस्य ॥
पिप्पिका पुनः ।
अभिधानचिन्तामणिनाममाला
दन्त्यम्
१ प्यायते पिप्पिका । '[ओ] प्यायी वृद्धौ' (भ्वा.आ.से.), 'कुशिक - ' (हैमोणा - ४५ ) इत्यादिना इकप्रत्यये निपात्यते । दन्त्यं दन्तोद्भवम् । एकं दन्तमलस्य ॥
कर्णं तु पिञ्जूषः
१ कर्णयोर्भवं कार्णं मलम्, पिञ्ज्यते पिञ्जूषः । १० ‘पिजि वर्णे'(अ.आ.से.), 'कारूषाटरूष- (कोरदूषाटरूष-)' (हैमोणा-५६१)इत्यूषे निपात्यते । एकं कर्णमलस्य ॥ शिङ्गाणो प्राणसम्भवः ॥६३२॥
१ शियते शिङ्गाण: । 'शिघि आघ्राणे' (भ्वा.प.से.), 'लूशिघि(शिङ्खि) धाञ्भ्य आणक्ं ' ( दशपाद्युणा३।२७)इत्याणक्' । स्वार्थे कनि शिङ्खाणकोऽपि, तालव्यादिः । एकं नासामलस्य ॥ ६३२ ॥
सृणीका स्यन्दिनी लालाऽऽस्यांसवः कफकूर्चिका ।
१ सरति पतति मुखादिति सृणीका । 'सृ गतौ' (भ्वा.प.अ.), ‘सर्तेर्नुक्( नुम्) च' (उणा - ४६३) इतीकन्, २० दन्त्यादिः । सृणिका ह्रस्वमध्याऽपि । २ स्यन्दतेऽवश्यं स्यन्दिनी, दन्त्यचतुर्थान्तस्थाद्यसंयोगादिः । स्यदि किञ्चिच्चलने ' (भ्वा.आ.से.), आवश्यके णिनिः । ३ लालयति प्राप्तुमिच्छति लाला । 'लल ईप्सायाम् ' ( चु.आ.से.), णिजन्ता - दच्, टाप् । ४ आस्यं मुखम् तस्य आसवः आस्यासवः । ५ कफस्य कूर्चिकेव कफकूर्चिका । पञ्च लालायाः ॥ मूत्रं बस्तिमलं मेहः प्रस्त्रावो नृजलं स्रवः ॥६३३॥
१ मूत्रयति प्रस्रवति मूत्रम् । 'मूत्र प्रस्रवणें ' ( चु.
३०
[ मर्त्यकाण्डः-३ उ.से.), चुरादिः, अच् । मुच्यते तद्वा । 'मुच्लृ मोक्षणे (तु.उ.अ.), 'सिविमुच्योष्टेरू च ' ( उणा - ६०२ ) इति ष्ट्रन् । २ बस्तेर्मलं बस्तिमलम् । मिह्यते मेहः । 'मिह सेचने ", (भ्वा.प.अ.), घञ् । ४ प्रस्तूयतेऽनेन प्रस्त्रावः, दन्त्यरेफसंयोगमध्यः । ‘स्रु प्रस्रवणे" (भ्वा.प.अ.), प्रपूर्वः, 'प्रें' द्रुस्तुस्रुवः '३ ॥३॥२७॥ इति घञ् । ५ नुर्नरस्य जलं नृजलम् । ६ स्त्रवणं स्त्रवः । 'स्रु प्रस्रवणे (भ्वा.प.अ.), 'ऋदोरप् ' ३ | ३ |५७ | | षट् मूत्रस्य ॥ ६३३॥
पुष्पिका तु लिङ्गमलम्
Jain Education International
१ पुष्पति पुष्पिका । पृषोदरादिः । लिङ्गस्य मलं लिङ्गमलम्, एकम् ।
विड् विष्ठाऽवस्करः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥६३४॥
१ विशति पक्वाशये विट् स्त्रीलिङ्गः । वैजयन्ती तु - " उच्चारो विट् न ना" [ वैजयन्तीकोष : ४ । ४ । ११९ ॥ ] इति क्लीबेऽप्याह । 'विशें प्रवेशने ' (तु.प.अ.), क्विप् । अमरस्तु-वेवेष्टि नाडीं मलं वा, 'विष्तृ व्याप्तौ (जु.प.अ.), विडिति मूर्धन्यषकारान्तमाह, "विष्ठाविषौ स्त्रियाम् "[अमरकोषः २।६।६८॥]इति। २ विशति भूमिम् । बाहुलकाद् ' - वमि (रमि) काशि-'(उणा-१५९) इत्यादिना थक्, षत्वम्, कुत्वं (ष्टुत्वं) च विष्ठा । विविधप्रकारेणोदरे तिष्ठति वा, 'उपसर्गात्- '८ १३ १६५ ।। इति षत्वे वा विष्ठा । ३ अवकीर्यते अवस्करः घञन्तः । वर्चस्कादित्वात् साधुः । 'वर्चस्केऽवस्कर : '६ । १ । १४८ ॥ इति सुड् ५० वा। ४ शक्नोति विस्मर्तुं शकृत्, क्लीबे । 'उणादयो बहुलम् ' ३ | ३ | १ ॥ इति शके : ऋत् । ५ गवते शब्दं करोति, गूयते उत्सृज्यते वा गूथम्, पुंक्लीबलिङ्ग: । 'गु शब्दे' (भ्वा.आ.अ.), 'गु पुरीषोत्सर्गे' (तु.प.अ.) वा, 'तीर्थ(तिथ) पृष्ठगूथयूथप्रोथा: ' ( उणा - १६९) इति थक्, दीर्घत्वं च निपातनात् । ६ पिपर्त्ति मलं पुरीषम् । पृ पालनपूरणयोः'
१. ' - सम्भवम्' इति२ ॥ २. " 'आणको लूशिङ्घिधाञ्भ्यः (दशपाद्युणा-३।२७) शिङ्खाणक: पीनसः" इति क्षीरतरङ्गिणी, भ्वादि:, धातुसं - ९६, पृ.३६ ॥, 'आणको लूधूशिङ्खिधाञ्भ्यः' (उणा - ३६३) इत्युणादिगणे ॥ ३. 'इत्याणकः' इति२ ॥ ४. ' - कूर्चिका' इति मुद्रितमूले, स्वोपज्ञटीकापि तमाश्रित्यैव ॥ ५. 'कुचि-' इति१.२.४ ॥ ६. 'कुचिका' इति२.४ ॥ ७ प्रश्र - ' इति१.२.३ ॥ ८. इतोऽग्रे ३प्रतौ 'चुरादिः, अच्' इति दृश्यते ॥ ९. ' - रूच्च' इति३ ॥ १०. 'मिह सेचने' इति १ प्रतौ नास्ति ॥ ११. 'स्रु गतौ' इति स्वामिसायणौ, 'षु स्रु गतौ' इति मैत्रेयः ॥ १२. 'प्रो' इति३ ॥ १३. 'अविश्' इति १.२.४ ॥ १४. 'स्त्रियौ' इत्यमरकोषे ॥ १५. 'भूमि' इति२.३ ॥ १६. 'पुंक्ली. ' इति३ ॥ १७. 'ओगुङ्' इति ॥
For Private Personal Use Only
४०
www.jainelibrary.org