________________
२६२
१ अस्मान्मणिबन्धादाकनिष्ठं कनिष्ठां मर्यादीकृत्य करे भातीति करभः । ' भा दीप्तौ ' ( अ.प.अ.), 'सुपि '३ ॥ २ ॥४॥ इति योगविभागात् कः । कीर्यते मुष्टिरनेनेति वा । 'कृ विक्षेपे' ( तु.प.से.), 'कृश्गर्दिरासिवल्लिभ्योऽभच्' (कातन्त्रोणा३ ।१४३ ॥) “मणिबन्धादाकनिष्ठं करस्य करभो बहि: "[ अमरकोषः २ | ६ |८१ ॥ ] इत्यमरः । एकं करभस्य ॥
अभिधानचिन्तामणिनाममाला
शाखाङ्गुली ।
अं
१ करस्य शाखा इव करशाखा । २ अङ्गति ग्रहणाय १० गच्छति अङ्गुलिः । अगिर्गत्यर्थः, 'ऋतन्यञ्जि-'(उणा-४४२) इति उरि:, 'वालमूललघ्वङ्गुलीनां वा रो लं ः ' ( वा-८ |२॥ १८ ॥ इति लत्वम् । करशाखा च अङ्गुलिश्च करशाखाङ्गुली, प्रथमाद्विवचनम् । 'कृदिकारात् - ' ( गणसू - ४ ११ । ४५ ॥ ) इति ङीषि अङ्गुली च । ३ ['वालमूल- ' ( वा - ८।२।१८ ॥ ) इति विकल्पपक्षे रत्वम्] अङ्गुरी । अङ्गुलस्तु प्रकृत्यन्तरं यवमाने ।" अङ्गुलस्तु यवो मतः"[]इत्यमरदत्तः । "अङ्गुलो ना यवमानम्" [] इति वाचस्पतिः । त्रीण्यङ्गुल्याः ॥
२
अङ्गुलोऽङ्गुष्ठः
१ अङ्गु' शरीरावयवं लाति अङ्गुलः । 'आतोऽनुप२० सर्गे कः'३।२।३॥ । अङ्गुरिति अङ्गुलीशब्दैकदेशानुकरणम् । २ अङ्गौ तिष्ठति अङ्गुष्ठः । ‘ष्ठा गतिनिवृत्तौ ' (भ्वा.प.अ.), 'सुपि स्थः ' ३ ।२।४ ॥ इति कः, 'अम्बाम्बगोभूमि - '८ ।३ ।९७ ॥ इत्यादिना षत्वम्, ष्टुत्वम् । द्वे अङ्गुष्ठस्य ॥
Jain Education International
तर्जनी त प्रदेशनी ॥५९२॥ तु
१ तर्ज्यतेऽनया तर्जनी । 'तर्ज भर्त्सने ' (भ्वा.प.से.), करणे ल्युट् । २ प्रदिश्यतेऽनया प्रदेशनी । 'दिश अतिसर्जने'(तु.उ.अ.), करणे ल्युट् । 'प्रदेशिनी " [ ] इत्यन्ये । द्वे तर्जन्याः ॥ ५९२ ॥
तु मध्यमा मध्या
[ मर्त्यकाण्डः-३
१ अतिशयेन वृद्धा ज्येष्ठा । 'अतिशायि (य) ने ३० तमबिष्ठनौ '५ ॥ ३ ॥ ५५ ॥ इतीष्ठन्, 'वृद्धस्य च '५ ।३ ६२ ॥ इति ज्यादेशः । २ मध्ये भवा मध्यमा । 'मध्यान्म: ४ | ३ |८ ॥ इति मः | ३ मध्यभूतत्वाद् मध्या । त्रीणि मध्यमायाः ॥ सावित्री स्यादनामिका ।
१ सविता 'देवताऽस्याः सावित्री । 'सास्य देवता' ४ । २ । २४ ॥ इत्यण् । २ अनया किल ब्रह्मशिरच्छिन्नमतो ब्रह्मवधत्वादस्या नामग्रहणमयोग्यमित्यनामा । ' डाबुभाभ्यामन्यतरस्याम् ४ । १ । १३ ॥ इति डापू, ततः कन्, 'केऽणः ७।४।१३ ॥, 'प्रत्ययस्थात्- ७ । ३ । ४४ ॥ इतीत्वम् [ अनामिका ] । द्वे अनामिकायाः । 'देव पूजणी' इति भाषा ॥
"
कनीनिका त कनिष्ठा तु
१ कनति दीप्यते कनीनिका । 'कन दीप्तौ ' (भ्वा.प.से.), ‘कनेरीनक:'(हैमोणा - ७३ ) इतीनकः । २ पूर्वाङ्गुल्यपेक्षयाऽल्पेति कनिष्ठा । द्वे कनिष्ठायाः । 'चिटी' इति भाषा ॥ अवहस्तो हस्तपृष्ठतः ॥ ५९३ ॥
१ हस्तपृष्ठत इति, हस्तपृष्ठ इत्यर्थः । सप्तम्यर्थेऽत्र तसिल् । अवकृष्टो हस्त: अवहस्तः । एकं हस्तपृष्ठस्य ॥ ५९३ ॥ कामांङ्कुशो महाराजः करंजो नखरो नखः । करशूको भुजाकण्टः पुनर्भवपुनर्नवौ ॥५९४॥
१. 'वालमूललघ्वलमङ्गुलीनां वा लो रमापद्यते' इति वार्तिकस्वरूपम् ॥ २. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री - ३४०, पृ. ४२६ ॥, रामाश्रमी २।६।८२॥, पृ.२९८॥ ३. 'अङ्गु' इति १ ॥ ४. 'प्रदेशिनी' इति मुद्रिताभिधानचिन्तामणिनाममालायाम्, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ५. 'दै- ' इति४ ॥ ६. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादयः ॥ ७ द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३४१, पृ.४२७॥, रामाश्रमी २१६।८३ ॥, पृ. २९८ ॥ ८. 'पुंक्ली' इत्येव३ ॥
१ कामस्याऽङ्कुश इव कामाङ्कुशः । २ महाराज ५० इव शोभनत्वाद् महाराजः । ३ कराज्जातः करजः । 'पञ्चम्यामजातौ - '३ ।२९८ ॥ इति डः । यौगिकत्वात् पाणिजः कररुहादयः । ४ नखं नखत्वं धर्मप्रधानाद् नखपदप्रवृत्तिनिमित्तं राति ददाति प्रतिपादयति नखरः, त्रिलिङ्गः, कवर्गद्वितीयमध्यः । “नखरं त्रिषु''[ ँ]इत्यमरमाला । स्त्रियां टापि नखरा । ५ नास्ति खमिन्द्रियं त्वग्रूपमत्रेति नखः, पुंक्लीबलिङ्गः । "नखोऽस्त्री " [ अमरकोषः २ १६ ॥ ८३ ॥ ] इत्यमरः । 'नभ्राण्नपात्- '६ ॥३ ॥ ७५ ॥ इत्यादिना नञः प्रकृतिभावः । न खन्यत इति
४०
For Private & Personal Use Only
www.jainelibrary.org