________________
२६०
अभिधानचिन्तामणिनाममाला
[अष्टाङ्गहृदयम्, शारीरस्थानम्, अध्यायः -४ - २६-२७ ॥ ] इति । २ के शिरसि लम्बेते' कलम्बिके । 'लबिङ् शं (स्रं ) सने' (भ्वा.आ.से.), ण्वुल् । द्वे ग्रीवापश्चाद्भागनाड्योः ॥५८७ ॥ गलो निगरणः कण्ठः
१ गीर्यते भक्ताद्यनेन गलः । 'गृ निगरणे' (तु.प.से.), 'पुंसि संज्ञायाम्- '३।३।११८ ॥ इति घः, 'अचि विभाषा '८।२ ।२१॥ इति लत्वम् । गलति गलो वा । 'गल अदने ' (भ्वा.प.से.), अच् । २ निगरत्यनेन निगरणः । 'गृ निगरणे ' ( तु.प.से.) । ३ कणति शब्दायते कण्ठः । 'कण शब्दे' (भ्वा.प.से.), दण्डकः, १० 'कणेष्ठः'(उणा-१०३ ) इति ठः, बाहुलकात् ठस्येकाभावः । कण्ठः, कण्ठी, कण्ठं च । "समीपगलशब्देषु त्रिषु कण्ठं विदुर्बुधाः''[शाश्वतकोश:, श्रो- ४८९ ] इति शाश्वतः । त्रीणि
कण्ठस्य ॥
काकलकस्तु तन्मणिः ।
१ कु ईषत् कलः काकलः, स्वार्थे कनि काकलकः । तस्य कण्ठस्य मणिः तन्मणिः । गलमणेरेकम् ॥
अंसो भुजशिरः स्कन्धः
१ अमति रुजति भारादिना अंसः, पुंक्लीबलिङ्गः। ‘अम्(अम) गतिशब्दसंभक्तिषु' (भ्वा.प.से.), 'उद्यमि-' ( ) २० इति सः ('अमेः सन् ' ( उणा - ६९९ ) इति सन्) । बाहुलकाद् 'वृ[तृ]वदि- ' (उणा - ३४२ ) इति वा सः । २ भुजस्य शिरो भुजशिरः, सकारान्तः, क्लीबलिङ्गः । भुजशिखरमपि । ३ स्कन्द्यते भारेण स्कन्धः । 'स्कन्दिर् गतिशोषणयो:' (भ्वा.प.अ.), 'स्कन्द्यमिभ्यां - ' (हैमोणा - २५१ ) धः, बाहुलकाद् दलोपः । यद्वा कं शिरो दधाति । 'आतोऽनुपसर्गे कः ' ३।२।३॥, पारस्करादित्वात् सुट् । त्रीणि स्कन्धस्य ॥
जत्रु सन्धिरुरों सगः ॥५८८॥
१ उरोंऽसगो वक्षःस्कन्धगतः सन्धिरन्तरं जत्रु, उच्यत इत्यन्वयः । जायते प्रकाशते बाहुरस्माद् जत्रु । 'जनी प्रादुर्भावे'
[ मर्त्यकाण्डः-३ (दि. आ.से.), 'जत्र्वादयश्च' (उणा - ५४२ ) इति रुः, नकारस्य च ३० तकारः, क्लीबेऽयं, तकाररेफसंयोगोपधः । एकं हत्स्कन्धा
न्तरस्य ॥५८८ ॥
भुजो बहुः प्रवेष्टो दोवहाँ
१ भुज्यतेऽनेनेति भुजः पुंस्त्रीलिङ्ग: । 'भुज पालनाभ्यव्यवहारयोः ' (रु.प.अ.), 'हलश्च ३ | ३ | १२१ ॥ इति करणे घञ्, 'भुजन्युब्जौ पाण्युपतापयोः ७ । ३ । ३१ ॥ इति निपातनादगुणत्वमकुत्वं च । स्त्रियां टापि भुजा । २ वहन्त्यनेन बाहु:, पुंस्त्रीलिङ्ग: । 'वह प्रापणे' (भ्वा. उ. अ.), 'वहिरहितलिपंशिभ्यश्च'(कातन्त्रोणा-१ |३ || ) इत्युण् । ३ प्रकर्षेण वेष्टयति प्रवेष्टः, पुंक्लीबलिङ्गः । ‘वेष्ट वेष्टने'( ), चुरार्दिः, अच् । ४ ४० दाम्यन्त्यनेनेति दोः, पुंक्लीबलिङ्ग: । 'दमु उपशमे' (दि.प.से.), 'दमेर्डोस्(डोसि:)'(उणा - २२७ ) । पुंसि शसादौ ' पद्दन्नोमास्- '६।१।६३ ॥ इत्यादिना दोषन्नादेशः । क्लीबे दो:, दोषी, दोंषि इत्यादि । भागुरिमते दोषाऽपि । "दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा" [ धनञ्जयनाममाला, श्री - १०१] इति धनञ्जयनिघण्टुः (-नाममाला)। "बहुदोषो गुरुध्वंसीं गोहन्ता जनपीडक: "[ विदग्धमुखमण्डनम्, परिच्छेद:- ४, श्लो- २३] इति विदग्धमुखमण्डनम् । " दोषः स्याद् दूषणे पापे दोषा रात्रौ भुजेऽपि च ''[ विश्वप्रकाशकोशः, षान्तवर्ग:, श्रो- ७ ] इति महेश्वरः । ५ वहन्त्यनया वाहा । 'वह प्रापणे' (भ्वा.उ. अ.), ५० 'हलश्च'३।३।१२१ ॥ इति करणे घञ् । बाहते प्रयतते वा । 'बाहू (बाह्र) प्रयत्ने' (भ्वा.आ.से.), पचाद्यच् । वाहोऽदन्तोऽपि । “वाहोऽश्वजयोः पुमान्”["]इति दामोदरः । " वाहो बाहुरिति स्मृतः "["] इति देशीकोषः । पञ्च भुजस्य ॥
अथ भुजकोटरः ।
Jain Education International
दोर्मूलं खण्डिकः कक्षा
१ भुजस्य कोटरो भुजकोटरः, पुंक्लीबलिङ्गः । २ दोष्णोर्मूलं दोर्मूलम् । ३ खण्डकमस्याऽस्ति खण्डिकः । 'अत इनिठनौ '५ । २ । ११५ ॥ इति ठन्, 'ठस्येकः ७।३ ॥ ५० ॥ ॥ ४ कष्यते स्पर्शेन हिंस्यते कक्षा, पुंस्त्रीलिङ्ग: । 'कष हिंसायाम्' ६०
१. 'लम्बते' इति २ ॥ २. 'लबि अवस्रंसने च' इति क्षीरतरङ्गिण्यादयः ॥ ३. 'पुंक्ली' इत्येव१ ॥ ४. 'गत्यादिषु' इति क्षीरतरङ्गिण्यादयः ॥ ५. 'सुक्' इति १ ॥ ६. ‘-नेन' इति १ ॥ ७. 'पुंक्लीब' इति ३ ॥ ८. वेष्टधातुस्तु भ्वादौ वर्तते ॥ ९. 'पुंक्ली' इति ३ ॥ १०. 'गुणध्वंसी' इति विदग्धमुखमण्डने ॥ ११. 'प्रजा यतते' इति ३ ॥ १२ द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री - ३३८, पृ. ४२४ ॥ रामाश्रमी २।६।८० ॥ पृ. २९६ ॥ १३. 'देशीये कोष : ' इति१, 'देशीय-' इति४ ॥ १४. 'भुजस्य पञ्च' इति ३ ॥
For Private & Personal Use Only
www.jainelibrary.org