________________
२५०
बाल्यादीनि । 'वय गतौ ' (भ्वा.आ.से.), -असुन्'(उणा६२८) इंत्यसुन् । २ दश्यन्ते दशाः, स्त्रीलिङ्ग: । 'दश दीप्तौ ' ( ), स्थादित्वात् कः । ३ प्रकर्षेणाऽयन्ते प्रायाः । 'अय गतौ' (भ्वा.आ.से.), अच्, पुंलिङ्गः, रामवत् । त्रीणि सामान्येन
वयसः ॥
अभिधानचिन्तामणिनाममाला
३०
१ समुद्रे शरीरे भवं सामुद्रम् । तत्र भवः ४ | ३ |५३ ॥ इत्यण्, क्लीबेऽयम् । "सामुद्रों देहलक्षणे "[विश्वप्रकाशकोशः, रान्तवर्गः, श्ले-२०५]इति पुंस्यपि महेश्वरः । देहस्य लक्षणं चक्र१० ध्वजादि देहलक्षणम् । एकं देहलक्षणस्य ॥ ५६५॥
एकदेशे प्रतीकोऽङ्गावयवापघना अपि ।
१ शरीरस्य एकश्चासौ देशश्च एकदेशः, तत्र । प्रत्येति देहं प्रतीकः । 'इण् गतौ ' ( अ.प.अ.), 'सुप्रतिपूर्वादिण:'( ) इति कीन् । २ अङ्गत्येकदेशत्वम् अङ्गम् । 'अगि गतौ' (भ्वा.प.से.), अच् । ३ अवयौति अवयवः । अवपूर्वः 'यु मिश्रणे ' ( अ.प.से.), अच् । ४ अपहन्यतेऽनेनेति अपघनः । 'हन हिंसागत्योः ' ( अ.प.अ.), 'अपघनोऽङ्गम् ३ ॥३ ॥ ८१ ॥ इति साधुः । चत्वारि शरीरावयवस्य । "गात्रम् "[ शेषनाममाला ३ | ११८ ॥ ] शैषिकम् ॥
सामुद्रं देहलक्षणम् ॥५६५॥ -
२० उत्तमाङ्गं शिंरो मूर्धा मौलिर्मुण्डं कंमस्तके ॥ ५६६॥ वङ्गं करणंत्राणं शीर्षं मस्तिकमित्यपि ।
१ उत्तमं च तदङ्गं च उत्तमाङ्गम् । २ श्रीयते केशैः शिरः, क्लीबे । 'श्रिञ् सेवायाम् ' (भ्वा.उ.से.), 'श्रियतेः (श्रयतेः) स्वाङ्गे शिरः किच्च ' ( उणा - ६३३ ) इत्यसुन्, शिरादेशः । देहः श्रितोऽत्रेति वा । शृणातेरुधिरतिशृभ्यः (शृणाते: 'उषिरजिशुभ्यः ) कित् ' ( चान्द्रोणा - ३ | १०१ ॥ ) इत्यसुन् । 'ऋत इद्धातो: '७ ॥ १ ॥ १०० ॥ इतीत्वे शिरः " [ ] इति तु सुभूत्यादयः । कण्ठभूषणकाव्यालङ्कारे [उक्तम्
"शिरो] वाची शिरोऽदन्तो रजोवाची रजस्तथा ।
निवर्तक शिराद् द्रोणि: (निचकर्त शिरान् द्रौणि) रर्था: पादरजोपमाः ॥ १॥"
Jain Education International
[ मर्त्यकाण्डः-३
["] । तथा "पिण्डं दद्याद् गेयाशिरे " [ ] इत्यादिप्रयोगात् । ३ मूर्च्छत्यत्राहताः प्राणिन इति मूर्धा, पुंसि । यदमर :- "मूर्धा ना मस्तकोऽस्त्रियाम् "[ अमरकोषः २ । ६ । ९५ ॥ ] इति । मूर्छा मोहसमुच्छ्राययो: ' (भ्वा.प.से.), 'श्वन्नुक्षन् - ' ( उणा-१५७) इत्यादिना कनि साधुः । मूर्धानौ, मूधानः इत्यादि । ४ मूयते बध्यते मुकुटादिकमत्रेति मौलिः, पुंस्त्रीलिङ्गः । "चूडामुकुटकेशेषु मतो मौलिर्नरस्त्रियो: "[ ] इति माला । 'मूङ् बन्धने' (भ्वा.आ.से.), 'मूधू (धूमू) भ्याम् -' (हैमोणा - ७०१ ) इति लिं । ५ मुण्यते प्रतिज्ञायते मुण्डम्, पुंक्ली. । यद्गौड :- " मुण्डो मूर्धन्यस्त्री स्यात् ''[ ] इति । 'मुण् (मुण) प्रतिज्ञाने' (तु.प.से.), 'जमन्ताङः - ' ( उणा - १११) । मुण्ड्यत इति वा । 'मुण्ड मुण्डकर्मणिं ( ), घञ् । ६ कायति शब्दायते कम् । 'कै शब्दे'(भ्वा.प.से.), 'क्वचिड्ड: '(हैमसू-५1१/१७१ ॥) इति डः । ७ मस्यति परिणम्यते मस्तम् । 'मसी परिणामे' (दि.प.से.), बाहुलकात् तन्, ततः स्वार्थे कनि मस्तकम्, पुंक्ली. ॥५६६ ॥ ८ वरमङ्गं वराङ्गम् । ९ करणानीन्द्रियाणि त्रायन्तेऽनेनेति करणत्राणम् । 'त्रै पालने ' (भ्वाआ.अ.), करणे ल्युट्, 'आदेचः - '६ ।१ । ४५ ॥ इत्यात्वम् । १० शीर्यते जरसा, शृणन्ति शत्रव इदं वा शीर्षम् । 'शू ५० हिंसायाम् ' (क्र्या.प.से.), बाहुलकात् षप्रत्यये कित्त्वाद् गुणाभावेत्वरपरत्वदीर्घत्वानि, 'कुमारशीर्षयोर्णिनिः '३ । २।५१ ॥ इति निर्देशादेव वा साधुः । ११ मस्यते मस्तिकम्, तृतीयस्वरमध्यः । किनि प्रत्यये साधु । एकादश शिरसः ॥ तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः
॥५६७॥
१. विश्वप्रकाशकोशे 'सामुद्र' इत्येव दृश्यते ॥ २. 'अग-' इति१.२.३ ॥ ३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्ग:, श्रो-३५३, पृ.४४० ॥ ४, द्र. टीकासर्वस्वम्, भा-२, २।६।९५ ॥, पृ. ३५६ ॥ तत्र 'विचकर्त शिरान् द्रौणी रथोत्पादरजोपमान्" इति दृश्यते, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री३५३, पृ.४४० ॥ ५. ‘गवां शि-' इति ३ ॥ ६. 'ण्वुल्' इति १ ॥ ७. 'मूर्धनि अस्त्री' इति पदच्छेदः ॥ ८. 'मुण्ड मुण्डने ' ( ), कर्मणि' इति ३ ॥ ९. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ १०. 'क्वचित्' इत्येव हैमसूत्रम् ॥ ११. '' इति १.२.३ ॥ १२. 'मस्यति' इति १.२.४॥
वालाः स्युः
१ तस्मिन् शिरसि जाताः तज्जा: । 'सप्तम्यां जनेर्ड : ' ३ । २।९७ ॥ । शिरसिजाः, शिरोजाश्च । के मस्तके शेरते तिष्ठन्ति केशाः । ' शीङ् स्वप्ने' (अ.आ.से.), 'अन्येभ्योऽपि - ' ६० ३।२।१०१॥ इति डः, 'तत्पुरुषे कृति - '६ । ३ । १४ ॥ इति सप्तम्यलुक् । क्लिश्यत एभिरिति वा । 'क्लिशू विबाधने' (क्र्या. - प.वे.), 'क्लिशः के च ' (हैमोणा - ६३० ) इति शः । २ तीर्थे उच्यन्ते उपयाच्यन्ते तीर्थवाकाः । 'वच परिभाषणे ' ( अ.प.अ.),
४०
For Private Personal Use Only
www.jainelibrary.org