________________
५६२-५६५ ]
११ चीयते सञ्चीयते' कललादिरूपेणाऽन्नादिना, उपचीयते वा कायः । 'चिञ् चयने ' (स्वा.उ. अ.), 'निवासचितिशरीरोप-' ३।३।४१ ॥ इति घञ्, आदेश्च कः । १२ मूर्च्छत्यनया मूर्तिः । 'मूर्च्छा मोहसमुच्छ्राययो: ' (भ्वा.प.से.), क्तिन्, 'राल्लोपः ' ६ । ४ । २१ ॥ इति छकारलोपः, 'र्वोरुपधायाः ८ २७६ ॥ इति दीर्घः । १३ वेति प्रजायते वेरम्, पुंक्ली. । 'वी गति - [व्याप्ति]प्रजनादौ'(अ.प.अ.), रन्प्रत्यये साधुः । १४ संहन्यन्तेऽङ्गान्यत्रेति संहननम् । 'हन हिंसागत्योः ' ( अ.प.अ.), अधिकरणे ल्युट् । १५ दिह्यते उपचीयते धातुभिरिति देहः, पुंक्ली. । १० यदमरः “देहः पुंक्लीबयो: " [अमरकोषः २।६।७१ ॥ ]इति । 'दिह उपचये'(अ.उ.अ.), घञ् । १६ सञ्चरन्त्यनेन सञ्चरः । 'चर गतिभक्षणयो:' (भ्वा.प.से.), 'गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च'३ |३|११९ ॥ इति साधुः ॥ ५६३ ॥ १७ धातुभिर्हन्यते घनः ।'हन हिंसागत्योः' (अ.प.अ.) 'मूर्ती घनः ' ३ ॥३॥७७॥ इति साधुः | १८ बध्यते पञ्चभिर्भूतैरिति बन्धः । 'बन्ध बन्धने' (क्र्या.प.अ.), घञ् । १९ पुरति पुरम् । 'पुर अग्रगमने' (तु.प.से.), 'इगुपध' ३ । १ । १३५ ॥ इति कः । २० धातुभिः पिण्ड्यते पिण्डः । ‘पिडि सङ्घाते' (भ्वा.अ.से.), कर्मणि घञ्, पुंक्लीबलिङ्गः । २१ वपति बीजम्, उप्यतेऽन्नादिकमत्र वा वपुः, २० क्लीबलिङ्गः। 'टुवप् बीजतन्तुसन्ताने ' (भ्वा.उ.अ.), 'धनत्ति'चक्षिपवपि - ' ( उणा - २७४ ) इत्यादिना उस् । २२ पूरणगलनधर्मत्वात् पुद्गलः, पृषोदरादिः । पद्यतेऽसौ पुगल इत्यलप्रत्यये वा निपात्यते । २३ वर्षति शुक्रादिकम्, वृष्यते स्नानपानादिना वा वर्ष्म, क्लीबलिङ्ग: । 'वृषु सेचने' (भ्वा.प.से.), '-मनिन्'(उणा-५८४) इति मनिन्, 'पुगन्तलघूपधस्य च ७।३।-८६ ॥ इति गुणः । २४ कले रेतसि व्रियते उपयुज्यते कलेवरम् । कर्मणि घञ्, 'तत्पुरुषे कृति - ६ |३ | १४ ॥ इत्यलुक् । माद्यति वा । 'कड मदे' (भ्वा.प.से.), 'कडेरेवर - ' (हैमोणा४४५) इत्येवरः, लत्वम् । २५ शीर्यते रोगादिना शरीरम्, पुंक्ली३० बलिङ्गः । ' शृ हिंसायाम् ' (क्र्या.प.से.), 'कृशृपृकटिपटिशौटिभ्य ईर[न्] ' (उणा - ४७०) इतीरः । पञ्चविंशतिः शरीरस्य । शेषश्चात्र
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
२४९
‘“देहैं सिनं प्रजनुकश्चतुःशाखं षडङ्गकं व्याधिस्थानं च ' [शेषनाममाला ३ । ११८ ] ॥
अस्मिन्नजीवे कुणपं शवः ॥५६४ ॥
मृतकम्
१ अस्मिन् शरीरेऽजीवे जीवनिर्मुक्ते । कुणति शब्दायते कुणपम् । 'कुणं क्वण शब्दार्थे ' ( तु.प.से.), 'कुणश्च' ( ( ) इति कपः । यद्वाऽस्मादेव धातोः घञर्थे कः, कुणः । कुणं शब्दं पाति [ रक्षति वा ] । धनञ्जयाख्यस्य वायोरन्तःसत्त्वादव्यक्ततमशब्दकरणात् । क्वणतीति, 'क्वणे: संप्रसारणं च ' ४० (उणा-४२३)इति कपन्प्रत्यये कुणप इति वा । २ शवति गच्छि संस्कारं शवः । ‘शव गतौ ' (भ्वा.प.से.), अच्, तालव्यादिरयम्, पुंक्लीबलिङ्गोऽयम् । यदमर :- "शवमस्त्रियाम् "[ अमरकोषः २।८।११८] । 'शवस्' इति सकारान्तोऽप्यस्ति । तत्र शवसी, शवांसि इत्यादि क्लीबे ॥ ५६४॥ ३ म्रियते स्मेतिं मृतम्, स्वार्थे कनि मृतकम् । त्रीणि मृतकस्य ॥
buseबन्धौ त्वपशीर्षे क्रियायुजि ।
१ अपगतं छिन्नत्वात् शीर्षमस्याऽपशीर्षं वपुः, तत्र । क्रियां नर्तनक्रियां युनक्तीति क्रियायुक्, तत्र, नृत्यतीत्यर्थः । रूयते शब्दयते रुण्डः, पुंसि । 'रु शब्दे ' ( अ.प.से.), 'रुण्ड- ५० पिचण्ड- ' ( ) इति निपात्यते । २ कं शिरो बध्यतेऽत्र कबन्धः, पुंक्लीबलिङ्गैः । यदमरः - "कबन्धोऽस्त्री "[ अमरकोषः २८ । ११८ ॥ ] इति । 'बन्ध बन्धने' (क्र्या.प.अ.), अधिकरणे घञ् । “युद्धे सहस्रपूरक: कबन्धो नृत्यति ''[]इति वार्ता । नर्तकक्रियारहिते तूपचारात् कबन्धप्रयोगः । द्वे शिरोरहितशरीरस्य ॥
वयांसि तु दशाः प्रायाः
१ अर्थात् शरीरस्य, वयन्तिं क्रमेण गच्छन्ति वयांसि,
१. १प्रतौ नास्ति ॥ २. 'क्लीबपुंसो :' इत्यमरकोपे ॥ ३. 'बीजसन्ताने' इति क्षीरतरङ्गिण्यादयः ॥ ४. 'अर्तिपृवपि - ' इत्युणादिगणे ॥ ५. 'घः' इति १.२.४ ॥ ६. इतोऽग्रे १.२.४ प्रतिष्ववग्रहो दृश्यते ॥ ७. 'कुण शब्दोपकरणयो:' इति क्षीरतरङ्गिण्यादयः ॥ ८. " अस्मिन्नपि क्वणेरेव संप्रसारणं कपंश्च प्रत्ययो विधीयते, न कुणेः । सरस्वतीकण्ठाभरणे ( २।२ ।११२ ॥ ) तु कुणैरेव कुणपो निपात्यते " इति क्षीरतरङ्गिण्यां 'कुण शब्दोपकरणयो:' इत्यत्र टिप्पणी, पृ. २५० - २५१, टिप्पणीसङ्ख्या ५ ॥ ९. ' - ख्यवा-' इति १.२ ॥ १०. 'स्म' इति ३ ॥ ११. ' -ङ्गोऽयम्' इति १ ॥ १२ द्र. पदचन्द्रिका, भा-२, क्षत्रवर्ग:, श्री- ५७२, पृ.६५२ ॥ १३. इदं विचारणीयम्, वयधातोरात्मनेपदित्वात् ॥
For Private & Personal Use Only
www.jainelibrary.org