________________
५३२-५३६]
३।१।१३५ ॥ इति कः, गौरादिः । ४ दास दस्यते वा दासी । ‘दासृ दाने’(स्वा.प.से.), ‘दसु उपक्षये'' (दि.प.से.), अच्, घञ् वा । ५ कुटं घटं हरति कुटहारिका । 'हृञ् हरणे' (भ्वा.उ. अ.), ण्वुल्, 'प्रत्ययस्थात्- ७।३ १४४ ॥ इतीत्वम् । पञ्च दास्याः । " गणेरुका वडवा कुम्भदासी" [ शेषनाममाला ३।११४ ॥] शैषिकाणि ॥
व्युत्पत्तिरत्नाकरकलिता
ना तु कवी
१
नग्नां । "विवस्त्रा योषित् मुक्तकेशीत्यागमः” [अम.क्षीर. २ ।६ ॥१७॥] इति क्षीरस्वामी । 'कुट कौटिल्ये ' १० ( तु.प.से.) । कुटनं कोर्ट:, कोटेन कुटिलतया, मुखादिनमनेन लज्जावशाद् वेति याति कोटवी । 'वी गति [ व्याप्ति ] प्रजनकान्त्यसनखादनेषु' (अ.प.अ.), क्विप् । कौटिल्ययोगाद् ‘अन्येभ्योऽपि-'(वा-३।२।१०१ ॥ ) इति वप्रत्यये, गौरादित्वाद् ङीर्ष् वा । “कुट्टनं कोट्टः । 'कुट्ट छेदने ' (चु.प.अ.), घञि बाहुलकाद् गुणः । लज्जाभावात् कोट्टं छेदं वेति कामयते, क्विपि, गौरादिङीषि कोट्टवी " [ ]इति रूपरत्नाकर: । द्वे वस्त्ररहितायाः ॥
वृद्धा पलिक्न
१ वृद्धा पलिता पलिक्नी । 'क्नमेके ' ( वा - ४।१।२० ३९ ॥ ) इति साधुः । एकं वृद्धायाः । 'डोकरी' इति भाषा ॥ अथ रजस्वला ॥५३४ ॥ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मर्लिन्यवीः । उदक्या ऋतुमती च
१ रजोऽस्याऽस्ति रजस्वला । ' रजःकृष्यासुतिपरिषदो वलच् '५ ।२ ।११२ ॥, 'तसौ मत्वर्थे '१ ४ ११९ ॥ इति भत्वात् 'ससजुषोः - '८ |२ |६६ ॥ इत्युत्वं न ॥ ५३४ ॥ २ पुष्पं रजस्तद्योगान्मतुपि पुष्पवती । 'तदस्यास्ति - '५ ।२ ।९४ ॥ इति
Jain Education International
२३७
"
मतुप्, 'उगितश्च ४ |१ |६ ॥ इति ङीप् । 'पुष्पिता [] इति माला । ३ न धीयते मनोऽस्यां अधि: । 'डुधाञ् धारणादौ ' (जु.उ. अ.), 'उपसर्गे घो: कि : '३ । ३ ।९२ ॥ इति किः । ४ अत्रेरपत्यं स्त्री आत्रेयी । 'इतश्चानिञ : ४ । १ । १२२ ॥ इति ढक् । आत्रेयी प्रजापतिदुहितृत्वात्, यथा अत्रिदुहिताऽगम्या तथा ऋत्ववस्थायामियमपीत्यर्थः । अत्रायते (आत्रायते) इति वा । 'त्रै पालने' (भ्वा.आ.अ.), 'अचो यत् ' ७ । १ । ९७॥, ' आदेचः - ' ६ |१ |४५ ॥ इत्यात्वम्, 'ईद्यति '६ ४ ६५ ॥ इतीत्वं वा । 'अव्युत्पन्नोऽयम् "[" ] इति शाब्दिकाः । ५ रजः स्त्रीधर्मोऽस्त्यस्याः स्त्रीधर्मिणी । 'अत इनिठनौ '५ ।२ ।११५ ॥ इतीनिः, 'ऋनेभ्यो ङीप् ४ । १ । ५ ॥ । ६ मलमस्पृश्यत्वजनकं पापमस्यां मलिनी । 'अत इनिठनौ ५ ॥ २ ॥११५ ॥ इतीनि:, 'ऋनेभ्यो ङीप् ४।१।५ ॥ । मलाऽपि । ७ अवति रक्षति लज्जया गोपाद् ४० रज इति अवः । 'अव रक्षणादौ ' (भ्वा.प.से.), 'अवितृ(तृ) स्तृतन्त्रिभ्य ई: ' ( उणा - ४३८) इति ई: । लक्ष्मीशब्दवत् । 'अविं स्त्रीधर्मिणीं विद्यात् "["]इति कात्यदर्शनात् । हूस्वेकारन्ताऽपि । “अविर्भूपुष्पवत्योः स्त्री वायुप्राकारभास्सु ना” [वैजयन्तीकोष:६ ॥५ ॥४ ॥ ] इति वैजयन्ती च । ८ चतुर्थेऽहनि स्नानार्थमुजकमर्हति उदक्या । उदकात् संज्ञायां यत् । "ऋतुः स्त्री कुसुमेऽपि च ' [ अमरकोषः ३ | ३ |६१ ॥ ] इति वचनात् तद्यो - गान्मतुपि ङीषि ( ङीपि) च ऋतुमती । नव रजस्वलायाः ॥ पुष्पहीना तु निकली ॥५३५॥
१ पुष्पं स्त्रीधर्मस्तेन हीना, निर्गता कलाऽस्या निःकला ५० (निष्कला ) । नि:क्रान्ता (निष्क्रान्ता) कलाभ्योऽशुद्धिभ्यो वा । "निकला (निष्कला) विगतार्तवा "[ अमरकोषः २ १६ ॥ २१ ॥ ] इत्यमरः । यस्या रजो नास्ति, तस्या एकम् ॥५३५॥
का
तु सरजाः कन्या
१ गुरूणां लज्जां" राति ददाति राका । 'रा ला
१. 'दास्यते दासते' इति ३ . ४ ॥ २. स्वामिसायणसम्मतोऽयं धात्वर्थ:, 'तसु प्रक्षेपे, दसु च' इति मैत्रेयः ॥ ३. 'ओलजी व्रीडे' (तु.आ.से.), क्तः, 'ओदितश्च ८ ।२।४५ ॥ इति निष्ठानत्वम्, कुत्वम्, पृषोदरादित्वादादेर्नत्वम् ॥ ४. २प्रतौ नास्ति ॥ ५. 'ङीषि' इति१, 'ङीप् ' इति३ ॥ ६. " कुट्ट छेदने । कुट्टनं कोट्टः (पा.३।३।१८ ॥ ) बाहुलकाद् गुणः । लज्जाभयात् कोट्टं छेदं वेति कामयते । विच् (पा.३।२१७५ ॥), गौरादित्वात् ङीष् (पा. ४ १ १४१ ॥ ) 'कोट्टवी' - इति रूपरत्नाकरः" इति पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२७५, पृ. ३५० ॥ ७ तुलनीयोऽमरकोषः २ १६ ॥ १२ ॥ ८. इतोऽग्रे ४प्रतौ 'मत्वर्थ इति' इति दृश्यते ॥ ९ द्र अम.क्षीर. २।६।२१ ॥, पृ. १३८ ॥ स्वोपज्ञटीका ३५३५ ॥ पृ.१२१ ॥ १०. 'त्रेङ्' इति१.२.३ ॥ ११. द्र. पदचन्द्रिका, भा२, मनुष्यवर्गः, श्रो- २७८, पृ. ३५४ ॥ १२. 'अवी' इति३.४ ॥ १३. अम क्षीर. २।६।२ ॥ पृ. १३८ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- २७८, पृ. ३५४ ॥ रामाश्रमी २।६।२० ॥ पृ. २६९ ॥ १४. ' - रान्तोऽपि ' इति १ ।। १५. 'निःकला' इति१.४ ॥ १६. 'लज्जा' इति३ ॥
३०
For Private Personal Use Only
www.jainelibrary.org