________________
४९५-५०० ]
इत्यत्र 'पादः पद् च्छ चं' (गणसू- ४१४ ११० ॥ इति पादाद्वनि ॥ ॥ ) पद्भावः । पादाविकोऽपि । 'अव रक्षणादौ' (ध्वा.प.से.), 'इण्भीकापाशल्यतिमर्चिभ्यः कन् ' ( उणा- ३२३ ) इक् चागमः पादाविकः । अवनमावः रक्षणम् । पादेनावः पादाव:, ततः 'तत्र नियुक्तः ४ १४ १६९ ।। इति छन् । मूलविभुजादित्वात् के पादातोऽपि । " पदातिपत्ति[ पादात ] पादाविकपदातयः (-जयः ) " ['] इत्यमरमाला । पादसमानार्थः पच्छब्दोऽप्यन्नास्ति । अष्टौ 'पालिहार' इति ख्यातस्य । [ शेषश्चात्र- " पादातपदगौ समौ " [शेषनाममाला ३ ॥१० ॥ ] ] ॥ १० सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगमिगः ॥ ४९८ ॥
प्रष्ठ:
व्युत्पत्तिरत्नाकरकलिता
१- ३ पुरः प्रभृतिभ्यस्त्रिभ्यः पुरः सरः शब्दो योज्यते, तेन पुरोऽग्रे सरति पुरस्सरः । एवं अग्रतः सरः, अग्रेसरः । 'सृ गतौ ' (भ्वा.प.अ.), त्रिष्वपि अच् । अग्रेसर इत्यत्र 'तत्पुरुषे कृति '६।३।१४ ॥ इति सप्तम्या अलुक । अत्र न्यासे आत्रेये च " अग्रे इत्येकारान्तत्वं निपातनात् "[ ] इत्युक्तम् । " अग्रे सरति अग्रेण वा सरति इत्यादावपि एकारान्तत्वं फलम् "[ ]इति च । एवं चं " सवरुणावरुणाग्रसरं रुचा" []" आयोधनाग्रसरतां त्वयि वीर याते "[]इत्यादयः २० प्रयोगाश्चिन्त्याः स्युः । ४-६ पुरस्तः पुरः शब्दाद् गमादयः त्रयो योज्यन्ते, पुरो गच्छति पुरोगमः । 'गमञ्च'३ ।२ १४७ ॥ इति खच् । पुरो गच्छति पुरोगामी ग्रहादित्वाणिनिः । पुरो गच्छति पुरोगः | 'गम्लृ गतौ ' (भ्वा.प.अ.), डप्रत्ययः ॥ ४९८ ॥ ७ प्रतिष्ठते प्रष्ठः 'ष्ठा गतिनिवृत्तौ (ध्वा.प.अ.), 'सुषि स्थ: ' ३१२ | ४ || इति कः, 'आतो लोपः - ६ ।४।६४ ॥, 'प्रष्ठोऽग्रग्रामि८३ ९२ ॥ इति षत्वम् । सप्त अग्रेसरस्य ॥ अथावेशिकान्तु प्राणोऽभ्यागतो ऽतिथिः । प्राघूर्णके
३०
१ आवेशनमावेशो ऽन्तः प्रापणम्, तदर्हति आवेशिकः | 'अ (आ) हदगोपुच्छ - '५ । १ । १९ ॥ इति ठक् | विश्रमाद्यर्थमाविश्यते स्थीयतेऽत्रेति आवेशः । 'विश प्रवेशने ' ( तु.प.अ.), अधिकरणे घः, तदस्य प्रयोजनम् '५ ।१ ॥१०९ ॥ इति ठक् या आवेशे (अवेशे) अप्रतिवेशे भव आवेशिक
Jain Education International
२१९
इति वा । "नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा "[ मनुस्मृति:, अध्या- ३, श्रो- १०३ ] इति स्मृतेः । अध्यात्मादित्वाट्ठक् । २ आगच्छतीति आगन्तुः । 'गम्लृ गतौ ' (भ्वा.प.अ.), 'सितनिगमि- '(उणा ६९ ) इति तुन् । ३ प्राघुणति भ्रमति प्राघुणघुण भ्रमणे' (तु.प.से.), तौदादिकः, 'इगुपध-' ३ । १ । १३५ ॥ इति कः, 'अन्येषामपि दृश्यते '६ १३ | १३७ ॥ इति दीर्घत्वम् । ४ अभ्यागच्छति अभ्यागम्यते स्म वा अभ्या गतः । अभ्यापूर्वी 'गम्लृ गतौ ' (ध्वा. प. अ.), निष्ठा, 'अनुदात्तोपदेश- ६१४ ३७ ॥ इति म्लोपः ५ अतति सततं गच्छति अतिथिः, पुंसि । यदमरः - " अतिथिर्ना "[ अमरकोषः २७/३४ ॥] अत सातत्यगमने ' (भ्वा.प.से.), ऋतनि- '(उणा४४२ ) इति अतेरिधिन्, पृषोदरादिर्वा । "प्राघुणस्त्वतिथिर्द्वयोः ''[ त्रिकाण्डशेषः २७ ।९ ॥ ] इति त्रिकाण्डशेषात् स्त्रियामतिथिरतिथी च क्लीचे तु अतिथि ।
१२
१३
" तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १॥" ["] इति भेदोऽत्र नाश्रितः । आतिथ्योऽपि । ६ प्राघूर्णते प्राघूर्णकः । 'घूर्ण घूर्णने '(भ्वा.आ.से.), ण्वुल्, तत्र । षडतिथेः । 'पाहुणा' इति भाषा ॥
अथावेशिकमातिथ्यं चातिथेय्यपि ॥४९९ ॥
१ अवेशेऽप्रतिवेशे भवम् आवेशिकम् । अध्यात्मादित्वाद्वक्। २ अतिथ्यर्थे वस्तुनि भवम्, अतिथये इदं वा आतिथ्यम्।' अतिथेः ५ १४ । २६ । । ३ अतिथी साधुः आति। । थेयी, स्त्रीक्लीबयोः, 'पथ्यतिथिवसतिस्वपते(र्ढञ्) '४४ - १०४।। दजि, 'आयनेयी - ७ १२॥ इत्येयादेशः, 'दिवाण ४ १ १५ ॥ इति ङीष् ( ङीप् ) । त्रीण्यतिथिसत्कारस्य ॥४९९॥ सूर्योढस्तु स संप्राप्तो यः सूर्येऽस्तंगतेऽतिथिः ।
१ सूर्यप्रकाशव्याप्तः कालोऽपि सूर्य:, तमूढवान् सूर्योढः । 'वह प्रपणे ' (भ्वा.उ. अ.), निष्ठा, 'हो ढः '८।२ । - ३१ ॥, 'झषस्तथोः-'८।२ ४० ॥ इति धत्वम्, ष्टुत्वम्, 'ढो ढे लोपः '८।३।१३ ॥ । योऽतिथिः प्राघूर्णकः सूर्येऽस्तंगते सङ्गते संप्राप्तः, तस्यैकम् ॥
१. ' पादः पच्च' इति गणसूत्रस्वरूपं दृश्यते ॥ २. प्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्ग:, श्रो-५२०, पृ. ६०६ ॥ रामाश्रमी २८ ६७ ॥ पृ.३७६ ॥ ३.
4
' - यार' इति २ ॥ ४. 'न' इति३ ॥ ५. द्र माधवीयधातुवृत्तिः, भ्वादि:, धातुसं -६५६, पृ. २५६ ॥ ६. प्राघूर्णो-' इति ३, 'प्राघुणो-' इति१.२.४ । ७. 'शक' इति ३ ।। ८. 'प्राघुर्णति' इति३ ।। ९. 'प्राघुर्ण:' इति ३ । १०. अत्र दीर्घत्वं विचारणीयम् ॥ ११. 'अथि-' इति ३ ॥ १२. 'थिः ' इति३ ॥ १३. द्र. स्वोपज्ञटीका ३ ४९९ ॥ पृ. ११४ ॥ अम. क्षीरस्वामिटीका २।७।३४ ॥ पृ. १७० ॥ अम. क्षीरस्वामिटीकायां " अतिथिः स हि विज्ञेयः शेषः प्राघूर्णिकः स्मृतः" इत्युत्तराधों दृश्यते ॥ १४. क्षीरतरङ्गिण्यादौ भ्रमणेऽर्थे दृश्यते ॥
For Private & Personal Use Only
४०
५०
६०
www.jainelibrary.org