________________
४५२-४५६ ]
कित्' (उणा - ५५९) इतीन् ह्रस्वोकारादिरयम् । 'निसर्गतः कूणिपङ्गुपोगण्डा:''[]इति नाममालायामार्यापाठाद् दीर्घो - कारवांश्च । " कुत्सितः पाणिरस्य " [ ] इति नैरुक्ता: । द्वे 'टूंटा' इति ख्यातस्य ॥ ४५३ ॥
निखर्व: खट्टेनः खर्वः खर्वशाखश्च वामनः ।
१ नितरां खर्वति निखर्वः । 'खर्व गतौ ' (भ्वा.प.से.), पचाद्यच् । २ खट्टयति खट्टनः, टवर्गाद्यद्वयमध्यः । 'खट्ट संवरणे'(चु.उ.से.), चुरादिः, नन्द्यादित्वाद् ल्युः । ३ खर्वति प्रकृतपुरुषप्रमाणान्न्यूनतां गच्छति खर्वः । 'खर्व गतौ ' १० (भ्वा.प.से.), पचाद्यच् । ४ खर्वा ह्रस्वाः शाखा: करचरणलक्षणा अस्य खर्वशाखः । ५ वामयति प्राण्यन्तरप्रमाणाद् विपरीतमाचष्टे वामनः । 'तत्करोति - ' ( गणसू - ३ |१ | २६ ॥ ) इति ण्यन्ताद् वामशब्दाद् नन्द्यादित्वाद् ल्युः । वामनशब्दोऽत्र करचरणहस्वे देहे वर्तते, ततो वामोऽस्याऽस्ति वामनः, पामादित्वान्न इति वा । स्त्रियां गौरादित्वाद् ङीषि वामनी । पञ्च वामनस्य । " ह्रस्वः "[शेषनाममाला ३ | १०६ ॥ ] इति शैषिकम् ॥ अकर्ण एंडो बधिरः
व्युत्पत्तिरत्नाकरकलिता
१ अविद्यमानौ कर्णावस्य अकर्णः । २ एडयति श्रवणायाऽन्तरात्मानं प्रेरयति एड: । 'इल प्रेरणे' ( चु.उ.से.), २० चुरादिः, पचाद्यच्, डलयोरैक्यम् । एडः पशुरिवेति वा । आ ईड्यतेऽसाविति वा । आङ्पूर्वः 'ईड स्तुतौ ' (अ.आ.से.), पचाद्यच् । ३ बध्यते हितश्रवणाभावात् पीड्यते बधिरः । 'बन्ध बन्धने' (क्र्या.प.अ.), 'इषिमदि- ' ( उणा - ५१ ) इति किरच् । त्रीणि बधिरस्य ॥
१ दुरिति निन्दायाम्, असम्पूर्णत्वाद् दुरिति निन्दितं शेफाग्रस्य चर्माऽस्य दुश्चर्मा, नकारान्तः, शैशवे निश्चर्माग्रशिश्नत्वात्, निराच्छादनत्वाच्च । २ द्विर्नग्नो द्विनग्नकः ॥४५४ ॥
१९९
३ चण्डते ( वण्डते) पिधत्ते चण्डः (aण्डः ) | 'चडिङ् ३० (वडि) वेष्टने ' (भ्वा.आ.से.), पचाद्यच् । ४ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः । चत्वारि दुश्चर्मणः । " जन्मारभ्य बालवयोवर्ती यौवनादिवयोवर्ती वाऽसम्पूर्णशिश्नः, सम्पूर्णशिश्नश्चैवंविध उच्यते, निश्चर्माग्रशिश्नोऽयम् [ ] इति केचित् ॥ खोडखोरौ तु खञ्जके ।
Jain Education International
१ खोडति गतौ प्रतिहतो भवति खोड:, कवर्गद्वितीयादिः। ‘खोडृ गर्तिप्रतीघाते' (भ्वा.प.से.), पचाद्यच् । "खोट : "[ ] इति शब्दप्रभेदः । २ खोरति खोरः । 'खोर (खोर) प्रतीघाते' (भ्वा.प.से.), अच् । ३ खञ्जति खञ्जः । 'खजि गतिवैकल्ये ' (भ्वा.प.से.), अच् । खञ्जः पादस्तद्योगा- ४० दर्शआद्यचि वा । ततः स्वार्थे कनि खञ्जकः, तत्र । खञ्जके खोडखोरौ"[ ] इति रभसः । त्रीणि खञ्जस्य ॥
" अथ
विकलाङ्गस्तु पोगण्डः
१ विकलान्यङ्गान्यस्य विकलाङ्गः । २ पूयतेऽपसार्यते पोगण्डः। 'पूयी विशरणे' (भ्वा.आ.से.), 'पूयोगादिः ' (हैमोणा - १७४) इत्यण्डप्रत्ययः । "पोगण्डो विकलाङ्गकः " [] इति रत्नकोषः । " पोगण्डो विकलाङ्गः स्यात् "[ हलायुधकोश : २ । ३८८ ॥ ] इति हलायुधः । अपकृष्टं गच्छति गमेः 'ञमन्ताड्डुः'(उणा-१११) पृषोदरादित्वादोत्वें अपोगण्डोऽपि । 'अपोगण्डस्तु शिशुके विकलाङ्गे च भीरुके " [ विश्वप्रकाशकोशः, डान्तवर्गः, श्लो-३९]इति विश्वः । द्वे विकलाङ्गस्य । 'हाथपगजेहना लूला' इति भाषा ॥
५०
ऊर्ध्वजुरूर्ध्वजानुकः ॥ ४५५॥
दुश्चर्मा तु द्विनग्नकः ॥४५४॥ ऊर्ध्वज्ञश्चापि चण्डश्च (वॅण्डश्च) शिपिविष्टश्च
"
१ ऊर्ध्व (ऊर्ध्वे) तिष्ठतो यस्य दूरोत्थायिनी जानुनी भवतः स ऊर्ध्वजुः । ऊर्ध्वाद्विभाषा '५ । ४ । १३० ॥ इति जानुनो जुः । जकारञकारसंयोगवान् पञ्चमस्वरान्तोऽयम् । यन्माघैकादशसर्ग:
१. प्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३०६, पृ. ३८३ ॥ रामाश्रमी २१६४८ ॥ पृ. २८० ॥ तत्र 'पोगण्डाः' इत्यस्य स्थाने ' - पौगण्डा:' इति दृश्यते ॥ मल्लिनाथसूरिकृतामरपदपारिजातटीका, भा-१, २१६ ॥ ४८ ॥ पृ. ३९० ॥ २. द्र. स्वोपज्ञटीका ३।४५३ ॥, पृ.१०४ ॥ ९ 'गौरादिङीषि' इति१.२ ॥
३.
' - क्ये' इति ३ ॥ ४. इतोऽग्रे १.२प्रत्योः '४' इति दृश्यते ॥ ५. 'प्रतिघाते' इति ४ हैमसम्मतोऽयम्, यद्वा 'खोलू' इति बोद्धव्यम्, अत एवोक्तं भ्वादि:, धातुसं - ३६०, पृ.१५१ ॥ ६. 'प्रतिघाते' इति४ ॥
तस्य व्याख्यानावसरे सायणः "खोड: खञ्जः, पचाद्यच्, लडयोरभेदः" इति, मा. धातुवृत्तिः ७. द्र. टीकासर्वस्वम्, भा-२, २१६ १४९ ॥, पृ.३०७॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, -३०८, पृ. ३८४ ॥ रामाश्रमी २।६।४९ ॥, पृ. २८० ॥ ८. तुलनीयोऽमरकोषः २ १६ १४६ ॥ ९ द्र टीकासर्वस्वम्, भा-२, २६४७ ॥ पृ.३०२ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो- ३०४, पृ.३८० ॥ १०. ' - दरादोत्वे' इति३ ॥ ११. विश्वप्रकाशकोशे - लाङ्गे च भीरुके' इत्यस्य स्थाने 'लाङ्गेऽतिभीरुके' इति दृश्यते, पृ. ४६ ॥
For Private Personal Use Only
www.jainelibrary.org