________________
१८०
पर्यस्यं घृतदध्यादि
१ पयसो विकारः पयस्यम् । 'गोपयसोर्यत् '४।३। १६०॥ । किं तदित्याह-घृतदध्यादि, आदिना तक्रनवनीतग्रहः । एकं सामान्यतो घृतादेः ॥
अभिधानचिन्तामणिनाममाला
पेयूषोऽभिनवं पयः ।
१ पीयत इदं पीः पानकर्ता । 'पी पाने '(दि.
आ.अ.),
'अन्येभ्योऽपि दृश्यते'३।२।७५॥ इति विच् । 'यूष हिंसायाम् ' (भ्वा.प.से.) इत्यत इगुपधत्वात् कः, यूषो नाशयिता । पेर्यूषः पेयूषः, मूर्धन्यान्तः, पुंसि । वैजयन्ती तु - "आसप्ताहात् १० तु पेयूषं ततो मोरटमोरके "[ वैजयन्तीकोष : ३ |८ ॥ १४६ ॥ ] इति क्लीबमाह । पीयूषमित्यपि । वाचस्पतिरपि - "नवप्रसूतगोक्षीरं नवं सप्तदिनावधि पेयूषम् " [] इत्याह । एकं नवप्रसूतगोपयसः ॥
उभे क्षीरस्य विकृती किलाटी कूर्चिकाऽपि च
॥४०५॥
१ किरति क्षुधं किलाटी, पुंस्त्रीलिङ्ग: । 'कृ विक्षेपे' ( तु.प.से.), 'किरो लश्च वा' (हैमोणा - १४७ ) इत्याटः । "किलाटा' इत्याबन्तोऽपि "[ ] इति हलायुधटीका । एकं बलहीति ख्यातायाः । २ कूर्चस्तन्मस्तु तदस्त्यस्याः कूर्चिका । २० 'कूचिका' इत्यपि । एकं फेदडीति ख्यातायाः । उभे इति किलाटीकूर्चिके क्षीरस्य पयसो विकृती विकारौ ॥ पायसं परमान्नं च क्षैरेयी
१ पयसि संस्कृतं पायसम्, पुंक्ली. । 'संस्कृतं भक्ष्याः (भक्षाः)'४।२।१६॥इत्यण् । २ परमं च तदत्रं च परमान्नम्। क्षीरे संस्कृता क्षैरेयी । ' क्षीराढञ् ' ४ |२| २०॥ इति ढञ्, 'आयनेयी- '७।१।२ ॥ इति ढस्यैयादेशः, 'टिड्ढाणञ्- '४ ।१ ।१५ ॥ ङीष् (ङीप् ) । त्रीणि पायसस्य । 'क्षीरि' इति भाषा ॥ क्षीरजं दधि ।
[ मर्त्यकाण्डः-३
१ क्षीराज्जातं क्षीरजम् । 'जनी प्रादुर्भावे' (दि. ३० आ.से.), 'पञ्चम्यामजातौ '३ ।२९८ ॥ इति डः । २ दधते बलिष्ठतां दधि, क्लीबे । 'दध धारणे' (भ्वा.आ.से.), 'इन् सर्वधातुभ्यः ' (उणा - ५५७) । ३ गवां रसो गोरसः । त्रीणि दध्नः । " श्रीघनं मङ्गल्यम्''[शेषनाममाला ३ | १०० ॥ ] शैषिके ॥
तदघनं द्रेप्सं पत्Àलमित्यपि ॥ ४०६ ॥
Jain Education International
१ तद् दधि अघनं घनात् कठिनादन्यद् अघनम्,
द्रुतमित्यर्थः । दृप्यतेऽनेन द्रप्सम् । 'दृप् (दृप) हर्षविमोचनयो:'(दि.प.अ.), बाहुलकात् सः, तृपदृपयोरनिट्सु पाठः, 'अनुदात्तस्य- '६ । १ ५९ ॥ इत्यमागमः । " द्रप्सं दधि घनेतरत्" [ अमरकोषः २ ।९५१ ॥ ] इत्यमरः । द्रप्स्यमित्यपि । 'हप प्रीणने ' (दि.प.अ.) 'अर्ध्या (अग्न्या) दयश्च' (उणा - ५५१ ) इति यक्, धातोरमागमः, प्रत्ययस्य च सुडागमः । मदनस्तु
4
" दधिस्त्यानं पयः सम्यक् स्त्यानमीषत्तु मन्दकम् । तन्मृष्ट(मिष्ट) मम्लमत्यम्लं मधुराम्लमिति स्मृतम् ॥१॥" [ मदनपालनिघण्टुः, पानीयादिवर्ग:-८, श्रो- ८८ पृ. १९० ] इति दो भेदद्वयमाह । तन्मध्ये यो मन्दकमिति द्वितीयो भेदः, सद्रप्समित्यनेन, अन्ये तु " उपरि प्लवमानं घनं दधि द्रप्सं, दघ्नस्तरिः''[ ]इत्याहुः । " एतच्च द्रप्स शरम् []इति भागुरिः । “बाणद्रप्सौ शरौ "[" ] इति दुर्गः । अत्र द्रप्सशब्दः ' थरि' इति लोकख्यातायाः पर्यायत्वेनोक्तः । " शरः पुनर्दधि - ५० सारे काण्डतेजनयोरपि "[ अनेकार्थसङ्ग्रहः २ ।४४९ ॥ ] इत्यनेकार्थे 'दधिसार' इति पर्यायो द्रप्समित्यस्य ज्ञेयः । २ पत्त्रं लाति पत्त्रलम् । पत्त्रमस्त्यस्येति सिध्मादित्वाल्लच् वा । द्वे पातलुं दधीति ख्यातस्य ॥४०६ ॥
गोरसच
१. इतोऽग्रे ३प्रतौ 'छतादि. ' इति दृश्यते ॥ २. अत्र रामाश्रमी द्रष्टव्या २ १९५४ ॥ पृ.४२५ ॥ ३. वैजयन्त्यां तु 'पीयूषं' इति दृश्यते पृ.९८ ॥ ४. प्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, श्रो- ६२७, पृ. ७१८ ॥ ५. ' - लिङ्गः' इति २. ३नास्ति ॥ ६. 'कूर्चकस्त-' इति४ ॥ ७. 'क्षीर' इति३ ॥ ८. धातुप्रदीपसम्मतोऽयम्, -हर्षमोहनयो:' इति स्वामिसायणौ, 'हर्षण-' इति ३ ॥ ९ 'द्रप्स ' इति १.३ ॥ १०. 'हर्षमोह (च) नयो:' इति क्षीरतरङ्गिण्यादौ ॥ ११. 'घनदधि' इति १, 'घन' इति २प्रतौ नास्ति, ३प्रतौ त्रुटितः पाठो दृश्यते ॥ १२ द्र. अमरकोशक्षीरस्वामिटीका २।९।५१ ॥, पृ. २११॥ १३. द्र. अमरकोशक्षीरस्वामिटीका २९ । ५१ ॥ पृ. २११ ॥, रामाश्रमी २९५१ ॥ पृ. २२४ ॥ १४. 'प्रक्षणादकान्तिगतिषु' इति३ ॥
४०
घृतं हविष्यमाज्यं च हर्विराघारसर्पिषी ।
१ जिघर्ति क्षरति दीपयति बलं वा घृतम्, पुंक्ली. । 'घृ क्षरणदीप्त्योः’(जु.प.अ.), 'अञ्जिघृसिभ्यः क्तः ' (उणा-३६९) । २ हविषे हितं हविष्यम् । हविस्शब्दात् 'उगवादिभ्यो यत् '५ ।१ ।२ ॥ । ३ अनक्ति व्यक्तीभवति क्षरणाच्चलतीति आज्यम्।' अञ्जू [व्यक्ति ] प्रक्षणादौ' (रु.प.से.), आङ्पूर्वः 'अञ्जः संज्ञायाम्' (वा - ६० ३ । १ । १०९ ॥ ) इति क्यपि अनुनासिकलोपः । ४ हूयत इदम्,
For Private Personal Use Only
www.jainelibrary.org