________________
२०
१५२
'धेट् पाने'(भ्वा.प.अ.), ‘नासिकास्तनयोर्ध्याधेटो : '३ । २ । २९ ॥ इति खश्, ‘अरुर्द्विषदजन्तस्य-'६।३ ।६७ ॥ इति मुम् । स्त्री चेत् स्तनन्धयी । यौगिकत्वात् स्तनपोऽपि । ८ प्रथते जन्मना पृथुकः । ' प्रथ विस्तारे' (भ्वा.आ.से.), 'अर्भकपृथुकपाका वयसि साधर्वः'(उणा-७३१) इति साधुः । पृथु कायतीति वा । 'कै शब्दे’(भ्वा.प.अ.), ‘आतोऽनुपसर्गे कः ३ ।२।३ ।। ९ इयर्ति वृद्धिम् अर्भः । 'ऋ गतौ ' ( जु.प.अ.), 'अर्तिगृभ्यां भन्' (उणा४३२) इति भन् । अर्भते शब्दायते वा । 'अर्भ शब्दे ' ( ), पचाद्यच् । स्वार्थे कनि अर्भकोऽपि । १० उत्तानः शेते उत्तानशयः । 'शी १० स्वने'(अ.आ.से.),‘पार्श्वादौ च ' ( ) इत्यच् । १२ क्षीरं कण्ठेऽस्य
क्षीरकण्ठः । यौगिकत्वात् क्षीरपोऽपि । १३ कामयते यदपि जरी जीर्णो यातयामो जीन:
अभिधानचिन्तामणिनाममाला
दृष्टं सदिति कुमार: । 'कमु कान्तौ ' (भ्वा.आ.से.), णिगन्त : ( णिङन्तः) । ‘“कमेरुच्चोपधाया आरन्, स चित्' (उणा४१८) इति सूत्रेण आरन् धातोरुपधायाश्चोकारः । कुमारयति क्रीडति वा । 'कुमार क्रीडायाम् ' (चु.उ.से.), णिजन्तः, पचाद्यच् । कु ईषत्, कुत्सितो मारः कामोऽस्येति वा । स्वार्थे के कुमारकः । द्वादश शिशोः ॥ ३३८ ॥ शिशुत्वं शैशवं बाल्यम्
१ शिशोर्भाव: शिशुत्वम् । तस्य भावस्त्वतलौ '५ । १ । ११९ ॥ । २ शिशोर्भावः शैशवम् ।' इगन्ताच्च लघुपूर्वात्' ५।१।१३१ ॥ इत्यण् । ३ बालस्य भावः बाल्यम् । 'गुणवचन- ब्राह्मणादिभ्यः कर्मणि च'५ ।१ ।१२४ ॥ इति ष्यञ् । तच्च षोडश वर्षपर्यन्तम्, "आषोडशाद् भवेद् बाल्यम्''[ ] इत्युक्तेः । त्रीणि बालभावस्य ॥
वयःस्थस्तरुणो युवा ।
[ मर्त्यकाण्डः-३ 'कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिव: ' (उणा - १५४) इति कनिन्, 'अचि श्नुधातु - '६ । ४ । ७७ ॥ इत्युवङ् । त्रीणि यूनः ॥ तारुण्यं यौवनम्
१ वयसि यौवने तिष्ठति वयःस्थः । "वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके "[मेदिनीकोशः, सान्त-वर्ग:, श्रो३२] इति विश्वः (मेदिनी) । वय: शब्दपूर्वात् तिष्ठते: 'आतोऽनुपसर्गे कः ३ ।२।३ ॥, ' आतो लोप इटि च '६ ४१६४ ॥ इत्यालोपः । २ तरति कौमारं तरुणः । 'तृ प्लवनतरणयोः ' ३० (भ्वा.प.से.), 'कृवृतॄदारिभ्य उनन् ' ( उणा - ३३३) । ३ मिश्रीभवति विषयैः स्त्रिया वा युवा । 'यु मिश्रणे ' ( अ.प.से.),
Jain Education International
१ तरुणस्य भावः कर्म वा तारुण्यम् । ब्राह्मणादित्वात् ष्यं । २ यूनो भावो यौवनम् पुंक्ली. । 'हायनान्तयुवादिभ्योऽण् '५ ।१ ।१३० ॥ इत्यण्, 'अन् '६ ।४।१६७ ॥ इति प्रकृतिभावान्न टिलोपः । द्वे यौवनस्य ॥
वृद्धः प्रवयाः स्थविरो जरैन् ॥३३९॥
१ वर्धते स्म वृद्धः । 'वृधु वर्धनें'(भ्वा.आ.से.), निष्ठा, 'झषस्तथो:- '८।२४० ॥ इति धत्वम् । २ प्रगतं वयो यौवनमस्य प्रवयाः, सकारान्तः । ' अत्वसन्तस्य चाधातो: ' ६।४।१४॥ इत्युपधादीर्घः । ३ तिष्ठति विषयाद् व्यावृत्तः सन्निति स्थविरः । 'ष्ठा गतिनिवृतौ ' (भ्वा.प.अ.), 'अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिरा: ' (उणा - ५३ ) इति किरचि अवादेशो ऽन्त्यस्य निपात्यते । ४ जीर्यते स्म जरन् । 'जृष् वयोहानौ' (दि.प.से.), 'जीर्यतेरतृन् '३ ।२ । १०४ ॥ उगिदचाम् ७ १७० ॥ इति नुम् । जरन्तौ, जरन्तः इत्यादि ॥ ३३९॥ ५ जराऽस्यास्ति जरी । व्रीह्यादिभ्यश्च ५ | २ | ११६ ॥ इति इनिः । जरिणौ, जरिणः इत्यादि । ६ जीर्यति स्म जीर्णः । 'जूर्ष् वयोहानौ'(दि.प.से.), निष्ठा, 'ऋत 'ईद्धातोः '७।१।१००॥ ‘उरण् रपरः '१।१।५१ ॥, ' रदाभ्यां निष्ठा - ' ८।२।४२ ॥ इति नत्वम्, ['हलि च ' ८ ।२ ७७ ॥ इति दीर्घत्वम् ], 'श्रूयुकः किति' ७ ४ १११ ॥ इति नेट् । ७ याता यामाः प्रहरा अस्य यातयामः । ८ जिनाति स्म जीनः । 'ज्या वयोहानौ' ( क्या.प.अ.), निष्ठा, 'ग्रहिज्या- '६ |१ | १६ ॥ इति संप्रसारणम्, 'ल्वादिभ्यश्च ८ ।२ ।४४ ॥ इति निष्ठानत्वम्, ‘हल:'६ ४२ ॥ इति दीर्घत्वम् । अष्ट वृद्धस्य ॥
५०
१. 'प्रथ प्रख्याने' इति क्षीरतरङ्गिण्यादौ ॥ २. उणादिगणसूत्रे नास्ति ॥ ३. 'अधिकरणे शेते '३ । २ ॥१५ ॥ इत्यत्र 'पार्श्वादिषूपसंख्यानम्' इति वार्तिकं मनसि निधाय 'पार्श्वादौ च' इत्युक्तम्, वस्तुतः 'उत्तानादिषु कर्तृषु' (वा - ३ ।२ । १५ ॥ ) इत्यनेन वार्तिकेनाच्प्रत्ययो योग्यः ॥ ४. णिजन्तः' इति १ ॥ ५. उणादिगणे 'कमेः किदुच्चोपधायाः' इति सूत्रस्वरूपं दृश्यते ॥ ६. 'स चत्' इति २ ॥ ७. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ ८. -तृ-' इति ३ ॥ उणादिगणे 'तृ' इत्यस्य नोल्लेखः, स चोचित एव, 'त्रो रश्च लो वा ' ( उणा - ३३४ ) इति सूत्रस्य विद्यमानत्वात्, अन्यथा 'तरुणः तलुनः ' इति रूपद्वयं न भविष्यति ॥ ९. 'ष्यन्' इति ३.४ ॥ १०. 'वृद्धौ' इति क्षीरतरङ्गिण्यादौ । ११. 'जू' इति १.२ ॥ १२. 'ई-' इति १.२.४ ॥ १३. 'सप्त' इति १.४ ॥
For Private & Personal Use Only
अथ विस्सा जरा ।
४०
६०
www.jainelibrary.org