________________
१०
२०
३०
१५०
दण्डादिभ्यो यः, ‘तत्र साधुः ४ १४ ९८ ॥ इति वा यत् । ततो नञ्समासः । "वधानर्हस्य ब्राह्मणस्य पूत्करणे अवधयाचनार्थम् "[ ] इत्येके । एकं वधं नार्हतीति वचसः ॥ ज्यायसी तु स्वसाऽत्तिका ।
अभिधानचिन्तामणिनाममाला
१ अत्ता मातेव अत्तिका । 'इवे प्रतिकृतौ '५ ।३ ।९६ ॥ इति कः, 'प्रत्ययस्थात्- ७।३ १४४ ॥ इतीत्वम् । "द्वितकारकः पाठ: "[ ] इति सर्वधरः । " 'अन्तिकं निकटे नाट्योक्त्या ज्येष्ठस्य भार्यापि'[ ]इति नानार्थकोषदर्शनाद् द्वितकारः प्रामादिक : ''[ ] इति तु कलिङ्गः । वयं तु " अत्तिका चान्तिका तथा" [] इति द्विरूपकोषाद् द्वितकारः पाठः, तथैकतकारपाठोऽपीत्याचक्ष्महे । एकं नाट्योक्तौ ज्येष्ठभगिन्याः ॥ भर्त्ताऽऽर्यपुत्रः
१ नाट्योक्तौ भर्त्ता पतिः, (तन्नामैकम् आर्यपुत्रः । आर्यस्य पुत्रः ) इति समासः ॥
माताऽम्बा
१ नाट्योक्तौ माता जननी, सा अम्बा इत्युच्यते । अम्ब्यते शब्दयते बालैरित्यम्बा । 'अवि (अबि) शब्दने' (भ्वा.आ.से.), कर्मणि घञ् । अमति गच्छति वात्सल्यमिति वा । ‘अम् गतौ''(भ्वा.प.से.) 'शम्यमी (शम्यमेः)-' (हैमोणा३१८) इति ब:, टाप् । अम्बत अपत्यं जल्पतीति वा । 'अबि गतौ (शब्दे) ' (भ्वा.आ.से.), पचाद्यच् । ननु कथं "तातेनाम्बविहीनोऽस्मि बालभावेऽहमम्बया "[ ] इत्यादावनाट्योक्तावप्यम्बादिप्रयोगः, तत्र जातौ कादयस्त्वाहुः । नाट्योक्तौ अज्जुकादय एव प्रयुज्यन्ते, न गणिकामात्रादय इत्ययं नियमः । ननु " मातः किमप्यसदृशं करुणं वचस्ते "[ ] इति वेणीसंहारादौ मात्रादीनामपि प्रयोगात् तस्मादम्बादीनां नाट्ये प्रायशः प्रयोगाद् विधिरयम् । अज्जुकादीनां त्वन्यत्राऽप्रयोगान्नियमं फलतीति । एतदेवाह शब्दार्णवकार:
"अथैतेषां रूपकाणामुक्तीर्वक्ष्याम्यशेषतः ।
कासुचिन्नियमस्तत्र विधिरेव च कासुचित् ॥ १ ॥ [ ] इति ॥
देवकाण्डः - २ भदन्ताः सौगतादयः ॥३३५॥
१ नाट्योक्तौ सौगतादयः, सौगत आदिरेषामिति सौगतादयः, आदेर्निर्ग्रन्थादयो भदन्ताः प्रोच्यन्ते । भन्दन्ते कल्याणिनो भवन्ति भदन्ताः । 'भदि कल्याणे सुखे च' (भ्वा.आ.से.), 'भन्देर्नलोपश्च' (उणा-४१०) इत्यतच्' 'सामन्त(सीमन्त) हेमन्तभदन्त - '(हैमोणा - २२२ ) इत्यादिना साधुर्वा ॥
पूज्ये तत्रभवानत्रभवांश्च भगवानपि ।
Jain Education International
१-२ स भवान् तत्रभवान्, एष भवान् अत्रभवान् । 'इतरे(इतरा) भ्योऽपि दृश्यन्ते ५ | ३ |१४ ॥ इत्यनेन सर्वविभक्त्यन्तेभ्यः किम्सर्वनाम बहुभ्यो द्वयादिभ्यों भवद्दीर्घाssयुरायुष्मच्छब्दयोगे तसिलादयो विहिताः । तेष्वत्रतत्रशब्दविशिष्टो भवच्छब्दः पूज्यतां द्योतयति [ ]इति प्राञ्चः । एवं तु अत्रभवन्त इत्यादौ भवच्छब्दार्थो विवक्षित एव पूजा परमधिका गम्यत इत्येतावत्, न त्वेतद् युक्तम् - " यन्मां विधेयविषये सभवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः " [मालतीमाधवम् प्रथमोऽङ्कः, श्रो- १० ] इति मालतीमाधवे, "वरवती खलु तत्रभवन्ती शकुन्तला "[ ] इति शाकुन्तले, " कथमत्रभवान् विश्वामित्रः " [ ]इति अनर्घ्यराघवादिष्वसम्बोध्ये परोक्षेऽपि प्रयोगदर्शनात् । न चात्र कश्चिदवयवानां पृथगर्थो गम्यते, तस्मात् पूज्यतामात्रवचनौ समुदायावेवात्रभवत्तत्रभवच्छब्दौ उदनुबन्धौ प्रकृतिप्रत्ययविभागेन कल्प्यौ, उपलक्षणं चैतत्, स भवान् तं भवन्तं ततो भवन्तमित्याद्यपि दृश्यते [ ]इति कृष्णमिश्राः । ३ भगो ज्ञानमस्यास्ति भगवान् । त्रीणि पूज्यस्य ॥ पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः ॥३३६॥
पादाद्यास्त्रयः शब्दाः पूज्यनामतोऽग्रे योज्याः । यथागुरुपादाः, अर्हद्भट्टारकै:, कुमारपालदेवः एवमन्येभ्योऽप्येते प्रयोज्याः । " भरटकः, भट्टः "[शेषनाममाला २ ।९१ ॥ ] इति शैषिके ॥३३६॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां" देवकाण्डो द्वितीयः ॥ सर्वाङ्गीणकलाविलासनिलयः कल्पद्रुमाभः कलौ जाग्रत्सर्वजनीनमञ्जुमहिमो मित्रप्रतापोदयः । श्रीमच्छ्रीविधिपक्षगच्छगणभृद् भूभृन्नताद्वियः श्रीकल्याणसमुद्रसूरिसुगुरुः सूरीन्द्रचूडामणिः ॥१॥ तन्निर्देशविधायिवाचकवर श्रेणीकिरीटोपमा भास्वत्साधुगुणौघशालिविनयाच्चन्द्राभिधावाचकाः । तच्छिष्या रविचन्द्रइत्यभिधया तेषां विनेयो व्यधादेनं वाचकदेवसागरगणिर्व्युत्पत्तिरत्नाकरम् ॥२॥ ॥ इति श्रीवाचकवरदेवसागरविरचितायामभिधानचिन्तामणिनाममालायां व्युत्पत्तिरत्नाकरटीकायां देवकाण्डो द्वितीयः ॥
१. द्र. टीकासर्वस्वम्, भा-१, १७।१५ ॥ पृ. १४४॥, रामाश्रमी १।७।१५ ॥ पृ. ९९ ॥ २. कोष्ठान्तर्गतपाठस्थाने २प्रतौ " तस्याभिधानम् आर्यपुत्र:, आर्यस्य पुत्र आर्यपुत्रः" इति दृश्यते ॥ ३. 'अम गत्यादिषु' इति क्षीरतरङ्गिण्यादौ ॥ ४. ' - सदृश' इति३ ॥ ५. 'वचसे' इति२ ॥ ६. 'रूपकारणा- ' इतिर । ७. 'न्लोपश्च' इति१.२.४ ॥ ८. 'इत्यतच्' इति १ २नास्ति ॥ ९ १ प्रतौ नास्ति ॥ १०. ' - न्नियुक्ते' इति२ ॥ ११. 'कल्पौ' इति३.४ ॥ १२. अत्र ३प्रतौ–‘‘ ‘भट ज्ञाने' धातुः, भटतीति भट्, क्विपि सिद्धे भट् चासौ तारकश्च भट्टारकः, ष्टुभि: ष्टुः इति धातुरत्नाकरे माधवीयवृत्तितोऽपि गृह्यते" इति टिप्पणी दृश्यते ॥ १३. इतोऽग्रे ३प्रतौ 'देवकाण्डो द्वितीयः' इत्यस्य स्थाने 'द्वितीयः काण्डः समाप्तः' इति दृश्यते ॥
For Private Personal Use Only
४०
६०
www.jainelibrary.org