________________
२२५-२२८]
[']इति मैत्रेयः । तदा नदीवत् । "तां द्रष्ट्वा श्रीमिवायान्तीम्''['] इति प्रयोगः। १० कमला इति प्रागेवोक्तम् । काम्यते सर्वैरिति वा कमला। ‘कमु कान्तौ’(भ्वा.आ.से.), 'वृषादिभ्यः कलच्ं ' (उणा-१०६) इति बाहुलकात् कलच्, टाप् । ११ इन्दति परम'श्वर्यमनुभवति अनया इन्दिरा । 'इदि परमैश्वर्ये (भ्वा.प.से.), 'इषिमदिमुदि-'(उणा-५१) किरच्प्रत्ययः । " बाहुलकात् किरच्"[मा. धातुवृत्तिः, भ्वादिः, धातुसं-५३ ] इति माधवः । १२ हरेर्विष्णोः प्रिया हरिप्रिया । १३ पद्मे वासोऽस्याः पद्मवासोऽस्या इति वा पद्मवासा । १४ क्षीरोदस्य तनया क्षीरोदतनया । चतुर्दश लक्ष्म्याः । १० शेषश्चात्र- " "लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी "[शेषनाममाला २७८ ॥ ] ॥ २२७ ॥
मंदनो जराभीरुरनङ्गमन्मथौ कर्मनः कलकेलिरनन्यजोऽङ्गजः । मधुदीपमरौ मधुसारर्थिस्मरौ विषैमायुधो दर्पककार्महृच्छ्याः ॥२२७॥ प्रद्युम्नः श्रीर्नन्दनश्च कन्दर्पः पुष्पकेतनः ।
N
व्युत्पत्तिरत्नाकरकलिता
१ मदयति हर्षयति मन इति मदनः । 'मदी हर्षग्ल(ग्ले)पनयो:'(भ्वा.प.से.), अस्माण्णिजन्ताद् नन्द्यादित्वाद् ल्युः । २ जरायाः सकाशाद् भीरुः जराभीरुः । ३ अविद्यमान२० मङ्गमस्य अनङ्गः । ४ मननं मद् युक्तिजन्यं ज्ञानम् । 'मन ज्ञाने'(दि.आ.अ.), सम्पदादित्वात् क्विप् 'अनुदात्तोपदेश - ' ६।४।३७॥ इत्यादिनाऽनुनासिकलोप:, 'ह्रस्वस्य पिति- '६ । १ ७१ ॥ इति तुक् । मध्नाति मथः, 'मन्थ विलोडने ' (क्र्या.प.से.), पचाद्यच् । “मतो मथो मन्मथः ' [ अम. क्षीर. १ १ २५ ॥] इति स्वामी । मनो मध्नाति वा, पृषोदरादित्वात् । "माद्यतीति मत् । 'मदी हर्षे' (दि.प.से.), क्विप् । मथ्नातीति मथः । मच्चासौ मथश्च॑ मन्मथः!''[टीकासर्वस्वम् १ | १ |२५ ॥ ] इति सर्वानन्देः । ५ कामयते शृङ्गारं कमनः । 'कमु कान्तौ ' (भ्वा.आ.से.),
Jain Education International
१०७
अस्माद् वासरूपेणानुदात्तेल्लक्षणो युच् । ६ कलासु केलिरस्य कलाकेलिः । ७ न मनसोऽन्यस्माज्जायत इति अनन्यजः । न ३० विद्यतेऽन्यद् यस्मात् सोऽनन्यो विष्णुः, "सर्वं विष्णुमयं जगत्" [ ] इति श्रुतेः । अनन्याद् विष्णोर्जात इति अनन्यजः । ८ अङ्गाज्जायत इति अङ्गजः । 'जनी प्रादुर्भावे ' (दि.आ.से.), 'पञ्चम्यामजातौ '३ ।२ ।९८ ॥ इति डः । ९ मधौ वसन्ते दीप्यते मधुदीपः । 'दीपी दीप्तौ ' ( दि. आ.से.), पचाद्यच् । १० म्रियतेऽनेनेति मारः । 'मृङ् प्राणत्यागे' (तु.आ.अ.), करणे घञ् । मारयति विरहिणं वा, पचाद्यच् । ११ मधुर्वसन्तः सारथिरस्य मधुसारथिः । १२ स्मरयति उत्कण्ठयति स्मरः । 'स्मृ चिन्तायाम्'(भ्वा.प.अ.) इत्यतो णिजन्तात् पचाद्यच् । स्मर्यते वनिताऽनेन कृत्वा स्मरः । 'पुंसि संज्ञायाम् '३ । ३ । ११८ ॥ इति ४० सूत्रेण घः । १३ विषमाण्यायुधान्यस्य विषमायुधः । १४ दर्पयति हर्षयति दर्पकः । 'दृप हर्षणमोचनयो: '(दि.प.अ.), 'ण्वुल्तृचौ ' ५।१।१३३ ॥ इति ण्वुल् । १५ कामयत इर्ति कामः । 'कमु कौ' (भ्वा.आ.से.), पचाद्यच् । काम्यतेऽनेनेति वा । 'पुंसि संज्ञायाम्- '३।३।११८ ॥ इति घः । कामोऽभिलाषोऽस्त्यस्य वा, 'अर्शआदिभ्योऽच्' ५।२ । १२७ । । १६ हृदि शेते हृच्छयः । 'शी स्वप्ने' (अ.आ.से.), पचाद्यच् । यौगिकत्वाद् मनसिशयः ॥२२७॥ १७ प्रकृष्टं द्युम्नं बलमस्य प्रद्युम्नः । १८ श्रिया लक्ष्म्या नन्दनः श्रीनन्दनः, रुक्मिण्याः श्रियोऽवतारत्वात् । १९ के ब्रह्मणि दृप्तवान्, कं ब्रह्माणं दर्पितवानिति वा कन्दर्पः, ५० पृषोदरादिः । 'कम्' अव्ययं कुत्सायाम्, कं कुत्सितो दर्पो ऽस्येति वा। २० पुष्पाणि केतनमस्य पुष्पकेतनः । विंशतिर्मदनस्य । शेषश्चात्र
44
"कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः । शमान्तकः सर्वधन्व गरज्जुः प्रकर्षकः ॥१॥ मनोदाही मथनश्च" [शेषनाममाला २।७८-७९॥] कन्तुर्देश्याम्, संस्कृतेऽपि ॥
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- २२, पृ.४१ ॥ २. 'वृषादिभ्यश्चित्' इत्युणादिगणे ॥ ३. 'लक्ष्म्यां तु' १.२.४प्रतौ नास्ति ॥ ४. —-सारथिः स्मरो' इतिर, मुद्रितमूलेऽपि तथैव ॥ ५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- २०, पृ.३८ ॥ क्षीरस्वामिटीकायां "मतो मनसो मथः [ मध्नातीति ] मन्मथः" इति दृश्यते, १।१।२५ ॥ पृ.९ ॥ ६. श्चेति' इति टीकासर्वस्वे भा-१, ११२२५ ॥ पृ. २१ ॥ ७ द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो२१, पृ.४०॥ ८. ‘श्रुतिः' इति ॥ ९. 'हर्षमोहनयो:' इति क्षीरतरङ्गिण्याम्, दिवादिः, धातुसं - ८७, पृ.२२४ ॥ १०. १प्रतौ नास्ति ॥ ११. 'कामे तु' इति १.२.४प्रतौ नास्ति ॥ १२. 'सर्वधन्वी' इति३, शेषनाममालास्वोपज्ञटीकयोः 'सर्वधन्वी' इति दृश्यते, तत्तु विचारणीयम्, 'वा संज्ञायाम् '५ ।४।१३३ ॥ इत्यस्य प्रवृत्तित्वात् ॥
For Private & Personal Use Only
www.jainelibrary.org