________________
१७९-१८२]
पवौ अमरकोषः ३ ३ ११८४ ॥ ] इत्युक्तेनं सकारान्तत्वाशङ्कर । ७ शमयत्यरीन् शम्बः । अन्तर्भावितण्यर्थात् 'शमेर्बन्' (उणा५३४ ) इति छन् । कार्यं कृत्वा शाम्यति तिष्ठतीति वा । शं शुभमस्यास्त्यभेद्यत्वाद्वा । 'कंशंभ्यां बभयुस्तितुतयसः '५ ।२ । १३८ ॥ इति वः । " तालव्या अपि दन्त्याक्ष शम्बशूकरपांशव: "[] इत्यूष्मविवेकाद् दन्त्यादिरप्ययम् । ८ दभ्नोति खेदयति दानवानिति । दम्भाद् आटोपाल्लीयते लेषयतीति वा दम्भोलिः, पृषोदरादिः । " दभ्नोति खेदयति, ओलिप्रत्यये बाहुल्ये दम्भोलिः, पुंसि'[ ] इति स्वामी । ९ भेदनशीलत्वाद् भिदुरम्, क्लीवे १० भिदिर् विदारणे (रु.उ. अ.), 'विदिभिदिच्छिदेः कुरच् ३ ।२ ।१६२ ॥ | " कर्मकर्त्तरि चायमिष्यते इत्यत्र चकारः कर्त्तरीत्यनुकर्षणार्थ:, तेनाकर्मकर्त्तर्यपि भवति "[]इति वामनाचार्यः 1 तथा च-‘“गुरुमत्सरच्छिदुरया '[ शिशुपालवधम्, सर्ग: - ६, श्री८] इति माघः । केचित्तु भिदिरम् [ ] इति पठन्ति तत्र 'इषिमदि ( उणा - ५१ ) इत्यादिना किरन्। १० भिनत्ति पर्वतानिति भिदुः, पुंसि । भिदिर् विदारणे'(रु.उ.अ.), 'पृभिदिव्यधिगृषिभूषिषिभ्यः कुः ' ( उणा - २३) इति कुः ॥१८०॥ ११ विशेषेण आदधाति भयं दैत्यानामिति व्याधामः । 'डुधाञ् धारणपोषणयो: '(जु.उ. अ.), 'अर्तीरि-' (हैमोणा- ३३८ ) इति २० मः । १२ कुलौ हस्ते शेते कुलिशः, पुंक्ली. । 'शीङ् स्वप्ने' (अ.आ.से.), 'अन्यत्रापि दृश्यते ' ( वा ३ १२ १४८ ॥ ) इति डः, डित्त्वाट्टिलोपः । "कुलिर्हस्तो भुजादल: "[त्रिकाण्डशेषः
व्युत्पत्तिरत्नाकरकलिता
२ |६|२६||]इति त्रिकाण्डशेषः । यद्वा कुलिनः पर्वतान् श्यति पक्षच्छेदेन तनूकरोति 'शो तनूकरणे'(दि.प.अ.), 'अन्यत्रापि दृश्यते ' ( वा २ १२ १४८ ||) इति डः । " कुत्सितं लिशति तक्ष्णोति 'गिरीन् वा । 'लिश लेषणे ' ' ( तु.प.से.), 'इगुपधज्ञाप्रीकिरः कः ' ३ | १ | १३५ ॥ इति कः "["] इति स्वामी । द्वादश वज्रस्य ॥
44
Jain Education International
अस्यार्चिरतिभीः
१ अस्य वज्रस्यार्थि: ज्वाला अतिभीः । अतिशयेन बिभेत्यस्याः अतिभीः स्त्रीलिङ्ग जिभी भये ' (जु.प.अ.), ३० क्विबन्तः । एकं वज्रज्वालायाः ॥
७५
स्फूर्जथुर्ध्वनिः ।
,
१ अस्य वज्रस्य ध्वनिः स्फूर्जथुः पुंसि 'टु ओ] स्फूर्जा वज्रनिर्घोषे ' (भ्वा.प.से.), 'ट्वितोऽथुच्' ३ । ३ ।८९ ॥ इत्यथुच् । एकं वज्रध्वनेः ॥ स्ववैद्यावश्विनीपुत्रावश्विनौ वडवा॒सुतौ ॥ १८९॥ नासिक्यावर्कजी देस्त्राँ नासत्यावब्धिजौ यमौ ।
१ स्वः स्वर्गस्य वैद्यौ स्ववैद्यौ । २ वडवारूपिणी संज्ञारूपयोगादश्विनी, तस्याः पुत्रौ अश्विनीपुत्रौ । यौगिकत्वाद् आश्विनेयौ । 'स्त्रीभ्यो ढक् '४ । १ । १२० ॥ इति ढक् । ३ अश्वो ४० नित्यं विद्यतेऽनयोः अश्विनौ अत इनिठनौ ५ ।२ ।११५ ॥ इतीनि: । (संदारूढावित्यर्थः । अश्विन्यां जाताविति नक्षत्राण: 'नक्षत्रेभ्यो बहुलम् ' ४ | ३ | ३७ ॥ इति लुकि 'लुक् तद्धितलुकि' १ । २४९ ॥ इति डीपो लुकि अश्विनौ नान्तौ ह्रस्वादी) । "सदाश्वारूढत्वादश्वयोगादश्विनी"]इति तु स्वामी" । ४ बडवायाः सुतौ वडवा ॥ १८१ ॥ ५ " संज्ञानामा सूर्यस्य स्त्री उत्तरकुरौ धृताश्वरूपा तपस्यन्ती आसीत्, रविरपि तत्सङ्गमेच्छुः तुरङ्गरूपी सङ्गमगात्, स च तयान्यपुरुषधिया निरस्तः सन् तन्नासापुटद्वये रेतोऽभ्यषिञ्चत, तत्र तौ जातौ " [ ] इत्याश्चर्यपर्व । अतो 'नासिकाभवत्वेन नासिक्यवर्णसदृशौ नासिक्यौ । अश्विन्या ५० नासिकारन्ध्रयो रवे रेतः पातादुत्पन्नौ "["] इति हि प्रसिद्धिः । ६ अर्काज्जातौ अर्कजौ । ७ दस्यत उत्क्षिपतो रोगानिति
ま
१४
44
१. द्र. रामाश्रमी १ १ ४७ ॥ पृ. २५ ॥ अमरकोशस्य मल्लिनाथसूरिकृताऽमरपदपारिजातटीका, भा-१, १ । १ । ४७ ॥ पृ. ३४ ॥ २. अम. क्षीरस्वामिटीकायां "दभ्नोति खेदयति दम्भोलिः" इत्येव दृश्यते १ ।१ ।४७ ॥ पृ. १५ ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ४२, पृ. ६३ ॥ ४. धृषिभ्यः ' इत्येवोणादिगणे दृश्यते ॥ ५. 'लिश अल्पीभावे' अथवा 'लिश गतौ' इति पाठ्यम्, 'लिश भूषणे' इत्यास्यादर्शनात् ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः श्रो-४२, पृ.६३, तत्र "कुलिनः पर्वतान् श्यति पक्षच्छेदेन तनूकोरोति, कुत्सितं लिशति लक्ष्यतीति वेति तु स्वामी इति दृश्यते ॥ ७ अम. क्षीरस्वामिटीकायां "कुत्सितं लिक्षति तक्ष्णोत्यरीन् वा" इत्येव दृश्यते १ १ ४७ ॥ पृ. १५ ॥ ८. 'भिरुच्यते' इति३ ॥ ९. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ।। १०. २प्रतौ नास्ति ॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-४६, पृ.६९ ॥ १२. अम. क्षीरस्वामिटीकायां 'अश्विनौ सदाश्वाधिरूढौ" इति दृश्यते, १।१।५१ ॥ पृ.१६ ॥ १३. "संज्ञानामादित्यमहिला उत्तरकुरावश्वरूपधारिणी प्रागासीत् । आदित्योऽपि तत्सङ्गमेच्छुरश्वरूपेण तत्सनिधिमगमत् । स तयान्यशङ्कया निरस्तः सन् तन्वासापुरद्वये रेतो निषिक्तवान् । तत्र तो जातावित्याश्चर्यपर्वणि ।" इति टीकासर्वस्वम्, भा-१, ११५१ ॥, पृ.३८ ॥, पदचन्द्रिकायां " संज्ञा च सूर्यस्त्री उत्तरकुरौ धृताश्वरूपा तपस्यन्त्यासीत् । सूर्योऽपि तत्सङ्गमेच्छुस्तुरगरूपी समीपमगात् । स च तान्यपुरुषधिया निरस्तः सन् तन्नासापुटद्वये रेतो न्यषिञ्चत । तत्र तो जातावित्याश्चर्यपर्व ॥" इति दृश्यते, स्वर्गवर्ग:, श्री - ४६, पृ.६८ ॥ १४. द्र. स्वोपज्ञटीका २ ।१८१ ॥ पृ. ४२ ॥ १५. 'पतौ रोगाविति' इति४ ॥
For Private & Personal Use Only
www.jainelibrary.org