________________
१७५-१७९]
१ इन्द्रस्य गजो हस्ती ॥ १७६ ॥ इरा मदिरा, तत्प्रधानं वनं इरावणम्, इरावनम् । 'विभाषौषधि - ' ८ ४ ६ ॥ णत्वम् । इरावणे भव ऐरावणः । 'तत्र भवः' ४१३ १९५३ ॥ इत्यण् । २ अभ्रात्मको मातङ्गः अभ्रमातङ्गः । शाकपार्थिवादित्वाद् मध्यपदलोपी समासः । अभ्रस्थत्वाद्वा अभ्रमातङ्गः । ‘अभ्ररूप:' इत्येके । यत्कात्यः - "ऐरावतं विजानीयान्नागमम्बुदगोचरम् "[]इति । ३ चत्वारो दन्ता अस्य चतुर्दन्तः । ४ अर्कस्य सोदरः अर्कसोदरः, द्वयोरपि समुद्रोत्पन्नत्वात् । ५ इरा : नीराणि नित्यं विद्यन्तेऽस्मिन्निति इरावान् समुद्रः । १० " इराम्भोवाक्सुरा भूमिषु" [ अनेकर्थसङ्ग्रहः २।३८५] इत्यनेकार्थः । इरावति भवः ऐरावतः, पुंनपुंसक': । 'तत्र भवः' ४।३।५३॥ इत्यण् । इरावती कश्यपजा अनपत्या पुलहप्रिया, तया संभृतत्वाद्वा । तथा चागमः - " इरावत्या भृतः पुत्रस्यार्थे' ऐरावतस्ततः”[“] इति । " ऐरावत एव ऐरावणः, पृषोदरादित्वात् तस्य णत्वम् "[ ] इति केचित् । ६ हस्तिनां मल्लो हस्तिमल्लः । ७ श्वेतश्चासौ गजश्च श्वेतगजः । ८ अभ्रतीति अभ्रमुः । 'अभ्र वभ्रमभ्र गतौ ' (भ्वा.प.से.), 'अध्रेरमुः' (हैमोणा-८०० ) इत्यमुप्रत्ययः । अभ्रे खे माति, न भ्राम्यति वा मन्थरगामित्वात्, यल्लक्ष्यम्-“अभ्रं वा जघनान्तदोलितकरः "["] । तस्याः प्रियः २० अभ्रमुप्रियः । अष्ट ऐरावणस्य ।
शेषश्चात्र
व्युत्पत्तिरत्नाकरकलिता
वैजयन्तौ तु प्रासादध्वजौ
‘“ऐरावणे मदाम्बरः सदादानो भद्रवेणु: " [शेषनाममाला २।३५ ॥ ] ॥ १७७॥
१ इन्द्रस्य प्रासादो ध्वजश्च, वैजयन्ती पताकास्ति अनयोरिति वैजयन्तौ । 'अर्शआदिभ्योऽच् '५ ।२।१२७ ॥ " विजयत इति विजयन्तो विष्णुः । 'जिजये' (भ्वा.प.अ.), 'तृभूवहिवसिभासिसाधिगण्डि मण्डिजिनन्दिभ्यश्च' (उणा - ४०८) इति झच् 'झोऽन्तः '७।१।३ ॥ । तस्यायं वैजयन्तः "[" ]इति स्वामी । ३० इन्द्रप्रासादो वैजयन्तः, ध्वजोऽपि वैजयन्तः प्रोच्यते, वैजयन्तीनामा लघुपताका ध्वजेऽस्ति, तद्योगात् । [ एकं इन्द्रगृहस्य, ध्वजस्य च ] ॥
Jain Education International
पुर्य
१ इन्द्रस्य पुरी, अमराः सन्त्यस्याम् अमरावती । ‘तदस्यास्त्यस्मिन्निति मतुप् '५ ।२९४ ॥, 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः '८।२ ।९ ॥ इति मस्य वत्वम्, 'मतौ बह्वचोऽनजिरादीनाम् ' ६ |३ | ११९ ॥ इति दीर्घः । एकमिन्द्रपुर्याः । 'सुदर्शनम् "[शेषनाममाला २ । ३५ ॥ ] इति शैषिकम् ॥
..
७३
सरो नन्दीसरः
१ इन्द्रस्य सरः, नन्दीनाम्ना सरः नन्दीसरः । एक- ४० मिन्द्रसरसः ॥
पर्षत् सुधर्मा
१ इन्द्रस्य सभा सुधर्मा । शोभनो धर्मोऽस्यामिति सुधर्मा । 'धर्मादनिच् केवलात् '५ १४ ॥ १२४ ॥ इत्यनिच् । सुधर्माणौ, सुधर्माणः इत्यादि । "सुधर्मामिव तां सकौशिकां विन्ध्याटवी (विन्ध्याटवीं) विवेश" ["] इति वासवदत्तायामाबन्तत्वे समासान्तो विधिरनित्यः [] इत्यनिजभावः । यद्वा 'डाबुभ्याम् -' ४।१।१३ ॥ इति डाप्, नकारान्तपक्षे ऋनेभ्यो डीपि प्राप्ते 'अनो बहुव्रीहेः ४ । १ । १२ ॥ इति प्रतिषेधः । इन्द्रसभाया एकम् ॥
नन्दनं वनम् ॥१७८॥
१ इन्द्रस्य वनम्, नन्दयति नन्दनम् । 'टुणदि (टुनदि) समृद्धौ ' (भ्वा.प.से.), हेतुमण्णिच् 'नन्दिग्रहिपचादिभ्यः- ' ३।१।१३४॥ इति ल्युः, 'युवोरनाकौ' ७।१।१ ॥, 'णेरनिटि ' ६४ ॥ ५१ ॥ इति णिलोपः । इन्द्रवनस्य एकम् ॥१७८॥ वृक्षाः कल्पः पारिजातो मन्दारो हरिचन्दनः । सन्तानश्च
१ इन्द्रस्य वृक्षाः पञ्च, तन्नामानि यथा - कल्पः सङ्कल्प इच्छा, 'तैत्पूरकत्वात् कल्पः । " कल्पः सङ्कल्पितोऽर्थस्तस्य वृक्षः "["]इत्यन्ये । " कल्पस्थायी वृक्षः "["] इत्येके । ६०
44
'कल्पः सङ्कल्पः, तस्य वृक्षः, जन्यजनकसम्बन्धात् कल्पवृक्षः '
[" ] इति माधवी । २ समुद्रपारे जातः पारिजातः, पृषोदरादिः ।
१. द्र. स्वोपज्ञटीका २१७७॥ अम क्षीर. १ । १ ४६ ॥ पृ. १५ ॥ २. 'नपुंसक' इति२ ॥ ३. 'स्वार्थे' इति १ ॥ ४. 'तत्र' इति४ ॥ ५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - ४१, पृ.६२ ॥ ६. 'अभ्र वभ्र बभ्र मभ्र चर गत्यर्था:' इति क्षीरतरङ्गिण्यादौ ॥ ७. द्र. स्वोपज्ञटीका २।१७७ ॥, पृ.४१ ॥, अम. क्षीर. १ ।१ ।४६ ॥, पृ.१५ ॥ ८. — भद्रविष्णुः' इतिर, 'भद्ररेणुः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ९. ' -गडि ' इत्युणादिगणे ॥ १०. द्र. पदचन्द्रिका, भा१, स्वर्गवर्गः, -४१, पृ.६२ ॥ ११. ' - शिकी' इतिर, 'शिकीं' इति १.३ ।। १२. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-४३, पृ.६५ ॥, टीकासर्वस्वे 'सकौशिकां' इत्यस्य स्थाने "स्वच्छकौशिकां" इति दृश्यते, भाग-१, १११ १४८ ॥ पृ.३७ ॥ १३. 'तत्' इति ३प्रतौ नास्ति ॥ १४. द्र. पदचन्द्रिका, भाग - १. स्वर्गवर्ग:, श्रो- ४५, पृ. ६७ ॥ १५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, श्रो- ४५, पृ.६८ ॥
५०
For Private Personal Use Only
www.jainelibrary.org