________________
व्युत्पत्तिरत्नाकरकलिता अथ शैषशिशिरौ समौ । १ शेषस्यायं पूजाहेतुत्वात् शैषः । 'तस्येदम् ' ४।३।१२०॥ इत्यण् । २ शीर्यन्तेऽस्मिन् तृणगुल्मवनस्पतीनां तेजांसीति शिशिरः, पुंक्लीबलिङ्ग: । शशति गच्छति शीघ्रं दिनमत्रेति वा । ( शशन्ति धावन्ति पथिका यस्मिन् वा ) । 'शृ हिंसायाम् '(क्र्या.प.से.), 'शश प्लुतगतौ ' (भ्वा.प.से.) वा, 'अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिरा: ' (उणा - ५३) इति सूत्रेण किरजन्तो निपातितः । माघफाल्गुनाभ्यां शिशिरऋतुस्तस्य द्वयम् ॥ १० वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः ॥१५६॥
2
१५४-१५७]
१ वसति कामोऽत्र, वसति सुखं वा अत्रेति वसन्तः, पुंक्ली.।‘वस निवासे’(भ्वा.प.अ.), 'तृभूवहिवसिभासिसाधिगण्डिमण्डिजनिनन्दिभ्यश्च' (उणा - ४०८ ) इति झच्, 'झोऽन्तः ' ७।१।३॥ | वस्ते आच्छादयति पत्रपुष्पफलादिर्भुवं वा । 'वस आच्छादने'(अ.आ.से.), 'तृभूवहि - ' ( उणा - ४०८ ) इत्यनेनैव झच् । २ इषस्य तुल्यः समरात्रिन्दिवत्वाद् इष्यः, पुंक्ली. । शाखादित्वाद् यः। यद्वा एषणमिट् पुष्पादिवाञ्छा, तस्यां साधुरिति वा । 'तत्र साधुः ४ १४ १९८ ॥ इति यत् । " वसन्ते त्वस्त्रियामिष्यः "[] इति वाचस्पतिः । ३ सुष्ठु रभन्ते रसयुक्ता भवन्त्यत्रा२० याते जना इति सुरभिः, पुंलिङ्गः । 'रभ राभस्ये' (भ्वा.आ.अ.), ‘इन् सर्वधातुभ्यः'(उणा-५५७) इतीन् । सुरैर्भातीति पृषोदरादिर्वा । ४ पुष्पाणां कालः पुष्पकालः । ५ बलं वीर्यमङ्गेऽस्माद् बलाङ्गकः । 'उरःप्रभृतिभ्यः कप्' ५ ।४ । १५१ ॥ | चैत्रवैशाखाभ्यां वसन्तस्य पञ्च। शेषश्चात्र- " वसन्ते पिकबान्धवः षुष्पसाधारणश्च''[शेषनाममाला २।२५] ॥ १५६ ॥ उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः ।
१ ओषति तापेन लोकानिति उष्णः, पञ्चमस्वरादिः । 'उष दाहे ' (भ्वा.प.से.), 'इण्सिजिदीड(ङ) ष्यविभ्यो नक्' (उणा-२८२) इति नक् । २ उष्णस्य घर्मस्यागमोऽत्रेति उष्णा३० गमः । ३ गिरति पीडयति प्राणिनः, ग्रसते जलं वा ग्रीष्मः ।
५९
गिरति जलं वा । ‘गृ निगरणे' (तु.प.से.), 'ग्रसु अदने ' (भ्वा.आ.से.) वा, ‘घर्मसीमभीमग्रीष्म- ' ( ) इति उणादिसूत्रेण साधुः । ४ निदह्यतेऽत्रेति निदाघः, पुंक्ली । निपूर्व: 'दह भस्मीकरणे ' (भ्वा.प.अ.), 'हलश्च ३ | ३ | १२१ ॥ इति घञ्, 'संज्ञायां मघमेघनिदाघावदाघा- ' (गणसू-७ १३ १५३ ॥ ) इति न्यङ्क्वादिपाठात् कुत्वम्। " दघ घातने पालने च' (स्वा.प.से.), ततो निदध्यतेऽनेन कृत्वा निदाघः साधुरिति पारायणिकाः” [ ]इति सुधाकरस्तदपाणिनीयम् । ५ तपति सन्तापयति तपः । 'तप सन्तापे'(भ्वा.प.अ.), पचाद्यच् । “तपेन वर्षा[:] शरदा हिमागम: "[ शिशुपालवधम् १ |६६ ॥ ] इति माघः । तपः सकारा- ४० न्तोऽपि । "तपं ( तपश्च) तपसा समम् " [ शब्दप्रभेदः, श्रो- ३६ ] इति शब्दप्रभेदः । ६ ओषति ऊष्मकः । 'उष दाहे ' (भ्वा.प.से.), बाहुलकाद् मनिनि दीर्घत्वं च यावादिपाठात् कन् । 'ऊष रुजायाम् ' (भ्वा.प.से.) अस्माद्वा मनिन् । " ऊष्मा तापनिदाघयो: "["] इति नन्तो वोपालितः, ततः कन् । 'ऊष रुजायाम्' (भ्वा.प.से.) अस्माद् मकि प्रत्ययेऽदन्तोऽपि ऊष्मशब्दः । "ऊष्मो घर्मेऽश्रुणि तथा ज्यैष्ठे" ऊष्मा स्त्रियां त्विषि "["]इति वोपालितः । ज्येष्ठाषाढाभ्यां ग्रीष्मस्तस्य षट् । [शेषश्चात्र- "ग्रीष्मे तूष्माणो मतः, आखोरपद्मौ "[ शेषनाममाला २।२५-२६॥] ॥ वर्षास्तपात्ययः प्रावृण्मेघात् कालागमौ क्षरी ॥१५७॥। ५०
१२
"आपः सुमनसो वर्षा अप्सराः सिकताः समाः ।
एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरत्रयम् ॥१॥’ [ ]इत्युक्तेः।‘वरिषा'[शब्दप्रभेदः, श्लो-३८] इत्यपि शब्दप्रभेदः । २ तपस्यात्ययो नाशोऽत्र तपात्ययः । ३ प्रवर्षन्त्यस्यां मेघाः, प्रकृष्टं वर्षमत्रेति वा प्रावृद्, स्त्रीलिङ्ग: । 'पृषु वृषु मृषु सेचने' ६० (भ्वा.प.से.), सम्पदादित्वात् क्विप्, 'नहिवृतिवृषि - ' स्वोपज्ञटीका २।१५६ ॥ पृ. ३५ ॥ ४. ' -न्त्यत्र जना' इति ॥ ६. १. २. ४प्रतिषु
१. कोष्ठान्तर्गतः २.३.४प्रतिषु न दृश्यते ॥ २. 'पुंक्लीब:' इति ॥ ३. द्र. न दृश्यते ॥ ७. 'ग्रस' इति२.४ ॥ ३. ' - भीष्म' इति ॥ ८. उणादिगणे 'घर्मः ' (उणा - १४६ ) इति 'ग्रीष्मः ' ( उणा - १४७ ) इति च पृथग् दृश्यते ॥ ९. तुलनीया माधवीयधातुवृत्तिः, स्वादिः, धातुसं-२८, पृ.४५८ ॥ १०. द्र. पदचन्द्रिका, भा-१, कालवर्ग:, श्रो- १२१, पृ. १५४ ॥ रामाश्रमी १ ४ १९ ॥, पृ.६४॥ ११. ‘ज्येष्ठे' इति३.४ ॥ १२ द्र टीकासर्वस्वम्, भा-१, १४१९ ॥, पृ.८८ ॥, पदचन्द्रिका, भा-१, कालवर्ग:, श्रो- १२१, पृ. १५४ ॥, रामाश्रमी १।४।१९॥, पृ.६४ ॥ १३. क्षीरतररङ्गिण्यादौ आच्छादनेऽर्थे वृञ्धातुर्न दृश्यते ॥ १४. उणादिगणे 'वृतृवदि-' इति दृश्यते ॥
Jain Education International
१ व्रित आच्छाद्यते मेघैर्नभोऽत्रेति वर्षाः । ‘वृञ् आच्छादने' '(क्र्या. उ. से.), 'वृञ्वदि-' ( उणा-३४२) इत्यादिना सः। वर्षमस्त्यास्विति वा । अर्शआदित्वादच् । वर्षन्तीति वा । 'पृषु वृषु मृषु सेचने'(भ्वा.प.से.), पचाद्यच् । वर्षणं वा वर्षाः । भावे घञ्। नित्यबहुवचनान्तोऽयम्, स्त्रीलिङ्गश्च ।
For Private Personal Use Only
www.jainelibrary.org