________________
श्री-प्रभाचन्द्र-कृतः
१२
मम इत्थं विद्यालाभः संजात इति कथितम् । तेनोक्तम्-मम विद्यां देहि, येन त्वया सह पुष्पादिकं गृहीत्वा वन्दनाभक्ति करोमि। ततः श्रेष्ठिना तस्योपदेशो दत्तः । तेन च कृष्णचतुर्दश्यां श्मशानवटवृक्षपूर्वशाखायामष्टोत्तरशतपादं च दर्भसिक्यं बन्धयित्वा तस्य तले तीक्ष्णसर्वशस्त्राण्यूर्ध्वमुखानि धृत्वा गन्धपुष्पादिकं दत्त्वा सिक्यमध्ये प्रविश्य षष्ठोपवासेन पञ्चनमस्कारानुच्चार्य क्षुरिकयैकैकपादं छिन्दताधो जाज्वल्यमानप्रहरणसमूहमालोक्य भीतेन संचिन्तितम् । यदि श्रेष्ठिनो वचनमसत्यं भवति तदा मरणं भवतीति शङ्कितमनाः वारंवारं चटनोत्तरणं करोति । एतस्मिन्प्रस्तावे प्रजापालराज्ञः कनकाराज्ञीहारं दृष्ट्वा अञ्जनसुन्दरीविलासिन्या रात्रावागतोऽञ्जनचोरो भणितो-यदि मे कनकाया, हारं ददासि तदा भर्ता त्वं नान्यथेति । ततो गत्वा रात्रौ हारं चोरयित्वा अञ्जनचोरोऽप्यागच्छन् हारोद्योतेन ज्ञात्वा अङ्गरक्षैः कोट्टपालैश्च ध्रियमाणो हारं
त्यक्त्वा प्रणश्य गतो वटतले बटुकं दृष्ट्वा पृष्ट्वा तस्मान्मन्त्रं गृहीत्वा १५ निःशङ्कितेन तेन विधिना एकवारेण सर्वं शिक्यं छिन्नं शस्त्रोपरि
पतितः। सिद्धया विद्यया भणितमादेशं देहीति । तेनोक्तम्-जिनदत्त
श्रेष्ठिपार्वे मां नयेति। ततः सुदर्शनमेरुचैत्यालये जिनदत्तस्याग्रे १८ नीत्वा धृतः पूर्ववृत्तान्तं कथयित्वा तेन भणितम्-यथेयं सिद्धा विद्या
भवदुपदेशेन तथा परलोकसिद्धावप्युपदेशं देहीति । ततश्चारणमुनिसंनिधौ तपो गृहीत्वा कैलासे केवलमुत्पाद्य मोक्षं गतः ॥
आकाङ्क्षिताख्यानकं यथा पिण्याकगन्धस्य, तत्त्वग्रे कथयिष्यते ॥
[७] निःकाङ्क्षिताख्यानकथा । ___२४ अङ्गदेशे चम्पानगर्यां राजा वसुवर्धनो, राज्ञी लक्ष्मीमती, श्रेष्ठी
प्रियदत्तो, भार्या अङ्गवती, पुत्री अनन्तमती। नन्दीश्वराष्टम्यां
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org