________________
श्री- प्रभाचन्द्र-कृतः
गच्छंस्तेरसमीपे सैन्यं विमुच्य स्थितः । तत्र दौवारिकेरन्तः प्रवेशिताभ्यां धाराशिव भिल्लाभ्यां विज्ञप्तो राजा - देवास्माद्दक्षिणस्यां १३ दिशि गव्यत्यन्तरे पर्व॑तस्योपरि धाराशिवं नाम पुरं तिष्ठति । सहस्रस्तम्भं जिनलयणं च तस्योपरि पर्वतमस्तके वल्मीकम् । तद्धेतोः हस्ती पुष्करेण जलं कमलं च गृहीत्वागत्य त्रिः प्रदक्षिणीकृत्य जलेन ६ सीत्कारबिन्दुभिः पूजयित्वा प्रणमति । ताभ्यां तुष्टि दत्त्वा तत्र गत्वा जिनं समच्यं वल्मीकं पूजयन्तं हस्तिनं वीक्ष्य तत्खानितम्। तत्स्थितमञ्जूषामुद्घाट्य रत्नमयीं पार्श्वनाथप्रतिमां वीक्ष्य हृष्टः । तल्लय९ णमगालदेवसंज्ञया स्थापितवांश्च । मूलप्रतिमाग्रे ग्रन्थि विलोक्य विरूपका दृश्यते इति शिलाकर्मिणं बभाणेमां स्फोटयेति । तेनोक्तम् । जलसिरेयं जलपूरो निःसरीष्यतीति । तथापि स्फोटिता । तदनु १२ निर्गतं जलम् । राजादीनां निर्गमने संदेहो ऽभूत् । ततो राजा दर्भशय्यायां द्विविधसंन्यासेन स्थितः । नागकुमारः प्रत्यक्षीभूय वक्तुं लग्नः - कालमाहात्म्येन रत्नमयप्रतिमा रक्षितुं न शक्यत इति मया १५ जलपूर्ण लयणं कृतम् । ततस्त्वया जलापनयनाग्रहो न कर्तव्य इति महताग्रहेण दर्भशय्याया उत्थापितो राजा । ततस्तं पृच्छति स्म - केनेदं लयणं कारितं, तथा वल्मीकमध्ये प्रतिमा केन स्थापितेति । १८ नागकुमारः प्राह---अत्रैव विजयार्धे उत्तरश्रेण्यां नभस्तिलकपुरे राजानामित वेगवेगी । अत्रैवार्यखण्डजिनालयान् वन्दितुमागतौ मलयगिरी रावणकृतजिनगृहानपश्यताम् । वन्दित्वा तत्र परिभ्रमन्तौ २१ पार्श्वनाथप्रतिमां लुलोकाते । मञ्जूषायां निक्षिप्य गृहीत्वेमां पर्वत
मध्ये अत्र मञ्जूषां व्यवस्थाप्य क्वापि गतौ । आगत्य यावदुत्थापयतस्तावन्नोत्तिष्ठति मञ्जूषा । गत्वा तेरपुरे ऽवधिबोधं महामुनिं पृष्ठ२४ वन्तौ - मञ्जूषा किमिति नोत्तिष्ठतीति । तैरवादीयं मञ्जूषा लयणस्योपरिलयणं कथयति । अयं सुवेगी आर्तध्यानेन मृत्वा गजो भूत्वा तां मञ्जूषां पूजयित्वा यदा करकण्डुभूपस्तामुत्पाटयिष्यति तदा
१४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org