________________
श्रो प्रभाचन्द्र-कृतः माम तव स्कन्धमहमारोहामि मम स्कन्धे त्वमारोह। शीघ्रं येन गम्यते । चिन्तितं तेन ग्रहिलो ऽयम् । बृहद्ग्रामः उद्वसः, लघुग्रामो ३ महान् यत्र भुङ्क्त। १. महिष्यः प्राणाः । २ वृक्षतले छत्रिका
धृता पथि संवृता । ३. जले प्राणहिते पादयोः पथि हस्ते धृते। ४. पृष्टं बदर्याः कति कण्टाः । ५. नारी बद्धा मुक्ता वा कुट्यते । ६. मृतको मृतो जीवेन वा गच्छति । ७. शालिक्षेत्रमिदं कुटुम्बिना भक्षितं भक्ष्यते भक्षितव्यं वा। ८. इति मार्गे चेष्टितं कुर्वन्तं बाहिरे श्रेणिकं धृत्वा काञ्चीपुरे निजगृहं प्रविष्टो मन्त्री। अभयमत्या स पृष्टः-तात त्वमेकाकी गत आगतो ऽसि । कथितं तेन-आगच्छतः एको रूपवान् ग्रहिलो बटुर्मिलितो बाहिरे
तिष्ठति । पृष्टं तया-कीदृशो ग्रहिलः । अस्मान्माम स्कन्धारोहणादि१२ कमाकर्ण्य व्याख्यानं कृत्वा तया पुरुषहस्ते स्तोकतैलखली प्रेषिते।
तैलखली समर्प्य भाजने याचिते । तेन कर्दममध्ये गर्ताद्वये धृते द्वे । कर्दममध्ये नीतस्य पादप्रक्षालनार्थं भाजने स्तोकजलं दत्तम् । वंशकम्बया कर्दमापनयनेन वक्रप्रवालके दवरकप्रोतनेन तुष्टा। अभयमतिः परिणीता तेन अतिवल्लभा जाता। विलपन्त्यटव्यां
जिनदत्तवसुमित्रश्रावकयोः पार्वे धर्ममाकर्ण्य यः सोमशर्मा ब्राह्मणः १८ संन्यासेन मृत्वा सौधर्मे देवो ऽभूत् स स्वर्गादेत्याभयमत्याभयकुमार
नामा पुत्रो जातः । अथ वसुपालराजेन विजययात्रां गतेनैकस्तम्भप्रासादमालोक्य काञ्च्यां सोमशर्मस्य तदर्थं लेखः प्रेषितः । स च तं कारयितुमजानन् व्याकुलो ऽभूत् । श्रेणिकेन स विशिष्टतरः कारितः। आगतेन राज्ञा तमालोक्य तुष्टेन वसुमित्रा निजपुत्री
श्रेणिकाय दत्ता। अथ राजगृहपुरे प्रश्रेणिकश्चिलातपुत्रस्य राज्यं २४ समर्प्य निविण्णः प्रावाजीत् । चिलातपुत्रे सर्वान्यायरते प्रधानैः
श्रेणिकस्य विनयपत्रिका प्रेषिता। सो ऽपि तामालोक्य राजगृहपुरे पाण्डुरकुटीमागच्छेति वसुमित्राभयमती भणित्वा आगत्य चिलातपुत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org