________________
११९
कथाकोशः [९०*१२] [९०*११] (६) व्यञ्जनहीनाख्यानम् । मगधदेशे राजगृहनगरे राजा वीरसेनो, राज्ञी वीरसेना, पुत्रः सिंह एक एव । तस्योपाध्यायः सोमशर्मा। उत्तरापथे सुरम्यदेशे ३ पोदनपुरे राजा सिंहरथो, राज्ञी सिंहरथा च। वीरसेनेन सिंहरथस्योपरिगतेन पोदनपुराद् वीरसेनाया राज्ञादेशः प्रेषितः । यथा सिंहो ऽध्यापयितव्यः । अत्र राजाभिप्रायः । इङ् अध्ययने धातुस्तेनासौ ६ पाठयितव्य इति । वाचकेन वाचयितः। सिंहो ऽध्यापयितव्यः को ऽर्थः । ध्यै स्मृतिचिन्तायां धातुस्तेन चिन्तनिकामेव कारयितव्यो न पाठयितव्यः। अकारलोपव्याख्यातम् । आगतेन राज्ञा पृष्टः- ९ सिंहः पठितः। कथितम्-न पठितः। लेखार्थवाचको राज्ञा निर्धाटितः । एवं साधुनापि न ।
[९०१२] (७) अर्थहीनाख्यानम् । विनीतदेशे अयोध्यायां राजा वसुपालो, राज्ञी वसुमती, पुत्रो वसुमित्रः, तस्योपाध्यायो गर्गः। अवन्तीदेशे उज्जयिन्यां राजा वीरदत्तो, राज्ञी वीरदत्ता। अयं वीरदत्तो वसुपालस्य मानभङ्ग १५ करोति । वसुपालस्तस्योपरि रुष्टः उज्जयिनीमायातो बहुदिवसैवसुमत्यादीनां राज्ञादेशः प्रेषितः। यथा वसुमित्रो अध्यापयितव्यः उपाध्यायस्य शालिभक्तं मसिश्च घृतं दातव्यम् । वाचकेन वाचितः। १८ वसुमित्रो ऽध्यापयितव्यः । उपाध्यायस्य शालिभक्तं मसिश्च दातव्यम् । तं ततश्चूर्णीकृत्य कोकिला उपाध्यायो भोजनं कार्यते । आगतेन राज्ञा उपाध्यायः पृष्टः। कुशलमिति । तेनोक्तम् -- २१ सर्वं शोभनम् । परं किंतु भवतां कुलाचारेण मखों खादितुं न शक्नोमि। राज्ञी पृष्टा-किं कारणम् । तया लेखो दर्शितः। वाचकस्य मुण्डनगर्दभारोहणगूथभक्षणनिर्द्धाटनानि । एवं साधुनापि न ॥ २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org