________________
श्री- प्रभाचन्द्र-कृतः
प्रतिवर्षं ददाति । तस्य भार्या नन्द्या [न्दा] वन्ध्या । पुत्रार्थं द्वितीया सुनन्दा परिणीता । तयोर्झकटके संजाते अर्धार्धं सर्वं तयोर्दत्तम् । ३ नन्दा गोपालगोभाजनानां दुग्धादिखलादिप्रक्षालनादि पूजां क्रमेण करोति । सुनन्दा सौभाग्यगर्विता न करोति । तस्य गोपालाः स्वयं दुग्धं पिवन्तीत्यादयो दोषाः । पूर्ण नन्दाघृतम् । सुनन्दाया न ६ किमपि । नन्दया अन्यघृतं दत्तम् । निर्द्धाटिता सुनन्दा पुनः सर्वगृहव्यापिनी जाता । एवं मुनिना पूजा कर्तव्या ॥
११८
[ ९०१० ] ( ५ ) अनिवाख्यानम् ।
अवन्तीदेशे उज्जयिन्यां राजा धृतिषेणो, राज्ञी मलयावती, पुत्ररचण्डप्रद्योतनः । दक्षिणापथे वेनातटनगरे ब्राह्मणः सोमशर्मा, ब्राह्मणी सोमा, पुत्रः कालसंदीव: सर्वविद्यापारगः । अष्टादशलिप१२ यस्तेनोज्जयिन्यां चण्डप्रद्योतं पाठयता मस्तके पादेनाहत्य एका यवनलिपि: पाठिता । तेनोक्तम् - यदाहं राजा तदा तव पादं खण्डयिष्यामि । दक्षिणापथं गत्वा कालसंदीवो मुनिर्जातः । चण्ड१५ प्रद्योतनाय राज्यं दत्त्वा धृतिषेणो मुनिरभूत् । चण्डप्रद्योतनस्य एकदा यवनदेशराजेन लेखः प्रेषितः । तं को ऽपि न वाचयति । चण्डप्रद्योतनेन स्वयं वाचयित्वोपाध्यायं स्मृत्वा समानीय च पूजितः । १८ स श्वेतसंदीवस्य तपो दत्त्वा विहरन् विपुलगिरी वर्धमानसमवसरणं प्रविष्टः । कालसंदीवः समवसरणबाहिरे श्वेतसंदीव आतापनस्थो निर्गच्छता श्रेणिकेन गुरुः पृष्टः । वर्धमानस्वामी मे गुरुरिति भणिते २१ पाण्डुरं शरीरं तत्र क्षणे कृष्णं जातम् । तस्य व्याघुट्य श्रेणिकेन गौतमस्तच्छरीरकृष्णत्वकारणं पृष्टः । कथितं तेन गुरुनिह्नवात् । श्रेणिकेन संबोधितो निन्दालोचनायुक्तो मोहक्षयात्केवलज्ञानी २४ जातः । एवमन्येनापि न निह्नवः कर्तव्यः ॥
९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org