________________
१५
अत्र कथा – पूर्वविदेशे वरेन्द्रविषये देवीकोट्टपुरे ब्राह्मणः सोमशर्मा चातुर्वेदः, ब्राह्मणी सोमिल्या, पुत्रावग्निभूतिवायुभूती । ६ तत्रैव विष्णुदत्तो ऽपरब्राह्मणो व्यवहारकः, पत्नी विष्णुश्रीः । ऋणं विष्णुदत्तस्य गृहीत्वा एकदा सोमशर्मा मुनिसमीपे धर्ममाकण्यं मुनिर्भूत्वा विहृत्य कोट्टपुरमायातो विष्णुदत्तेन दृष्टो धृत्वा द्रव्यं याचितः । तव पुत्रौ दरिद्रौ त्वं द्रव्यं धर्मं वा देहि । ततो वीरभद्राचार्योपदेशेन श्मशाने रात्रौ धर्मं विक्रीणतः सोमश मुनेः प्रत्याख्यादेवतया पृष्टं कीट [दृश ]स्ते धर्मः । कथितस्तेन मूलोत्तरगुणक्षमादि१२ युक्तः । भणितं देवतया
१८
श्री- प्रभाचन्द्रः
[९०*४]
[ आणक्खिदा य लोचेण अप्पगो होदि धम्मसड्ढा य । उग्गो तवो य लोचो तहेव दुक्खस्स सहणं च ॥ ९२ ॥ ]
११४
२१
धम्मो जयवसियरणं धम्मो चितामणी य अग्घे उ । धम्मो सुहवसुधारा धम्मो काम ||१| ॥१॥ किं जंपिएण बहुणा जं जं दीसइ य सुम्मई लोए' । इंदियमणोहिरामं तं तं धम्मफलं सव्वं ॥२॥ सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च नारद । सर्वतीर्थाभिषेकश्च यः कुर्यात्प्राणिनां दया ||३||
इति सर्वोत्तमधर्मस्य नास्ति मूल्यम् । किंतु सर्वोपसर्गनिवारणार्थमेकवारोत्पाटित - एकचिमुटी केशानां मूल्यं ददामीत्युक्त्वा रत्नराशिः कृतः । तथा प्रभाते तत्तपो ऽतिशयमालोक्य तस्यैव समीपे विष्णुदत्तो मुनिर्भूत्वा स्वर्गापवर्गं साधितवान् । अन्ये लोका जिनधर्मे लग्नाः । कोटितीर्थनामा चैत्यालयः ॥
२४ १) सुम्मुतियालोए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org