________________
कथाकोशः [६०] योध्यायां राजा समुद्रविजयो, राज्ञी विजया, महाबलदेवश्च्युत्वा तत्पुत्रः सगरचक्रवर्ती जातः । एकदा सगरकारितवसतिकायां जनक्षोभकार्यातिशयेन सुन्दरं नवयौवनभरं मुनिरूपमादाय मणिकेतु- ३ देवेन संबोधितः सगरो, न वैराग्यं गतः। पुनरपि अयोध्यासमीपे चतुर्मुखमुनिकेवलज्ञानोत्पत्तौ समवसरणे तेन संबोधितो, न वैराग्यं गतः । एकदा षष्टिसहस्रपुत्ररतुलबलवीर्यैरतिगवितैः कीर्त्यथिभिः सगरो भणित:-देव, आदेशं देहि असाध्यं च साधयामः । भणितं तेन-न किमप्यसाध्यं ममास्ति, सर्वं सिद्धम् । पुनरपि तैरुक्तम्तथापि किमप्यादेशं देहि। ततस्तेनोक्तम्-कैलासगिरी भरतचक्र- १ वर्तिकारितरत्नसुवर्णमयप्रतिमानां रक्षार्थ खातिकां कुरुत। इत्याज्ञां प्राप्य गतास्ते। दण्डरत्नेन गङ्गाखातिकायां कृतायां तेन मणिकेतुदेवेन भणितास्ते-मदीयं भवनं भवद्भिरात्मनाशार्थं विनाशितम् ।। इत्युक्त्वा तन्मिषं कृत्वा भीमभगीरथौ मुक्त्वा मायया सर्वे च भस्मीकृताः। भीमभगीरथौ सिंहासनस्थौ दृष्ट्वा अन्येषां मन्त्रिवचनान्मरणं ज्ञात्वा सगरो वैराग्यं गतः । मणिकेतुदेवेन ब्रह्मचारि- १५ रूपमादाय संबोधितः । भगीरथाय राज्यं दत्त्वा भीमसेनेन सह तपः कृत्वा मोक्षं गतः । मणिकेतुदेवेनोत्थापितास्ते सगरपुत्रास्तां वार्तामाकर्ण्य तपो गृहीत्वा मोक्षं गताः। भगीरथो ऽप्येकदा वरदत्त- १ पुत्राय राज्यं दत्त्वा तपो गृहीत्वा गङ्गातटे कायोत्सर्गेण स्थितः । क्षीरसमुद्रजलेन देवैस्तस्य पादौ धौतौ। तज्जलं देवैर्वन्द्यमानं गङ्गायां पतितम् । ततः वन्द्या पवित्रा भागीरथी जाता। भगीरथश्च । तत्रैव निर्वाणं गतः ।।
- [६०] भरतग्रामस्य कुम्भकारेणेत्यादि । [ सस्सो य भरधगामस्स सत्त संवच्छराणि णिस्सेसो। दड्ढो डंभणदोसेण कुंभकारेण रु?ण ॥१३८८।। ]
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org