________________
कथाकोशः [ ४९ ]
मुनिः पृष्टः - भगवन् केन मत्पुत्रेण कंस जरासन्धो हन्तव्यो । तत्प्रस्तावे हस्तधृताम्रशाखा देवक्या मुक्ता । तस्यास्त्रीणि फलयुगलान्यूर्ध्वं गतानि । एकं च फलं भूमौ पतितम् । पुनरेकमूर्ध्वं ३ गतम् । तन्निमित्तमालोक्योक्तं मुनिना - देवक्यास्त्रीणि पुत्रयुगलानि निर्वाणगामीनि । सप्तमपुत्रेण हन्तव्यौ । अष्टमोऽपि निर्वाणगामी पुत्रो भविष्यति । एवमेकदा देवकी कंसगृहे पुत्रयुगलं प्रसूता । तच्च ६ देवतया भद्रिलपुरे श्रुतदृष्टिश्रेष्ठिनो ऽलकाश्रेष्ठिन्यास्तत्समये प्रसूतायाः समर्पितं तत्प्रसूतं मृतपुत्रयुगलं च देवक्यग्रे धृतं तच्च कंसेन शिलायामाहतम् । एवं तस्यास्त्रीणि पुत्रयुगलानि तत्र नीतानि । ९ रोहिण्याष्टम्यां रात्रौ जले पतति सप्तममासे ऽपि सप्तमपुत्रं प्रसूता । वसुदेवेन स गृहीतः । बलभद्रेण छत्रं धृतम् । वृषभरूपेण शृङ्गदीपिका सा देवताग्रे चलिता । वासुदेवपादाङ्गष्ठस्पर्शात्प्रतोलीक- १२ पाटयुगलमुद्घाटितम् । जलभृतां यमुनां दत्तमार्गामुत्तीर्य मातृकागृहे प्रविश्य तस्याः पृष्ठे बालकं धृत्वा प्रच्छन्नौ स्थितौ । विवाहकाले देवक्याः क्षीरगृहं दत्तम् । तत्र यो महत्तरो नन्दनामा पुत्रया १५ तद्भार्यया यशोदया गन्धपुष्पादिभिर्मातृका पुत्रार्थमाराधिता । तस्यां रात्रौ तस्याः पुत्री जाता । रुष्टा यशोदा मातृकाग्रे तां धृत्वा निःसरन्ती वसुदेवेन बालिकां मातृकापृष्ठे धृत्वा बालकं चाग्रे धृत्वा १८ भणिता - हे यशोदे, पुत्रं गृहाण । तं गृहीत्वा तुष्टा गता । प्रभाते देवक्यग्रे तां पुत्रिकामालोक्य कंसेन नासिका तस्या भग्ना न मारिता । अथ गोष्ठे वासुदेवे वर्धमाने कंसेन निजगृहे नक्षत्रपाता- २१ द्युत्पातानालोक्य शकु [न] शर्मनामा नैमित्तिकः पृष्टः - किमुत्पाता जाताः । तेनोक्तम् - येन त्वं हन्तव्यः स गोष्ठे वर्धमानस्तिष्ठतीति । ततः पूर्वभवसिद्धा विद्यादेवताः स्मरणमात्रादेवागताः । भणिताश्च २४ कंसेन - गोष्ठे मम शत्रुं मारयथ । बालकाले पूतना विद्या विषदुग्धस्तनी समायाता पीत्वा निर्धाटिता । काकदेवी चञ्चपक्षत्रोटनेन
Jain Education International
For Private & Personal Use Only
७५
www.jainelibrary.org