________________
कथाकोशः [४९] अलाभेन नगर्या निर्गच्छन्तं' मूर्छाविह्वलं तं मुनिं दृष्ट्वा एकडोकरिकया भणितम्-स्थापयन्तो लोका निवारिताः स्वयं च न स्थापयति मारितो ऽनेनायं महातपाः । एतदाकर्ण्य रुष्टेन गोवर्धनं ३ गत्वा भणितास्ता विद्या:-पापमुग्रसेनं मारयत । भणितं ताभिःभगवन्न युक्तमिदं तवानेन रूपेण । जन्मान्तरे तहि मदीया आज्ञा कर्तव्या । अमुमुग्रसेनमन्यभावे मारयिष्यामीति निदानं कृत्वा मृत्वा ६ रेवतीगर्भे ऽवतीर्णः क्षीयमाणशरीरां रेवती महादेवीं दृष्ट्वा पृष्टाकेन कारणेन तव शरीरं क्षीयते। कथितम्-पापिष्ठ दोहलकवशात् । कीदृशो दोहलकः । देव कथयितुं नायाति । अत्याग्रहेण ९ पृष्टया कथितम्-यथा तव हृदयं विदार्य हस्तद्वयेन रक्तं पिबामीति । लेप्यमयदोहलके तथाभूते पुत्रो जातः । उग्रसेनस्य तन्मुखमवलोकयतः क्रूरां दृष्टि कृत्वा मुष्टिर्बद्धा । तत उग्रसेननामाङ्कितमुद्रिकारत्न- १२ कम्बलाभ्यां सह कंसं मञ्जूषायां धृत्वा यमुनायां प्रवाहितः । कौशाम्ब्यां गङ्गभट्टकल्पपालस्य रञ्जोदर्या भार्यया जलार्थ गतया आनीता सा मञ्जषा । कंसनामा पुत्रः पोषितः । अष्टवार्षिकः परपुत्र- १५ पिट्टनोपालम्भान्निर्धाटितः । शौरिपुरे वसुदेवस्य शिष्यः सर्वशास्त्रदक्षो ऽभूत् वरं च लब्धवान् । अथ यथार्थनामा सिंहरथो राजा जरासन्धस्य न सिध्यति । ततः सर्वसामन्तानां जरासन्धेन घोषणा १८ दापिता। यः सिंहरथं बन्धयित्वा आनयति तस्मै जीवद्यशापुत्री वाञ्छितदेशं च ददामि । ज्येष्ठभ्रातृसमुद्रविजयादेशेन सर्वबलसमेतो वसुदेवो गतः । पोदनपुरसमीपे कटकं धृत्वा सार्थवाहरूपेण पोदनपुरे २१ गत्वा सिंहानां गूथमूत्राण्यानीय निजबलस्य तद्गूथसहनं कारयित्वा संग्रामे सिंहरथं विरथं कृत्वा वसुदेवेन कंससारथिर्भणित:-सिंहरथं बन्धय । तेन च बद्धः। तमादाय गतो वसुदेवो जरासन्धेन २४
१) नगर्यादिनि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org