________________
श्री- प्रभाचन्द्र-कृतः
ताभिस्तस्य पादयोः पात्यमानया तया भणितम् - यद्यस्य प्रणमामि तदा बृहद्धीवरस्य किं न प्रणमामि । एतदाकर्ण्य सर्वासां तापसो ३ रुष्टस्ताश्च नष्टाः । तापसेनोग्रसेनस्य कथितम् - जिनदत्तश्रावकेणाहं धीवरो भणितः । आनीतो जिनदत्तः । देवायं तापसः प्रमाणं यदि मया भणितः । तापसेनोक्तम् - अस्य चेटिकया भणितः । मुनेः सत्य६ वचनं हसित्वा राज्ञा साप्याकारिता । तां दृष्ट्वा कुपितेन तापसेनोक्तम् — ब्राह्मणकुलोत्पन्नं वायुभक्षं कथं धीवरसमानं मां भणसि रण्डे । तयोक्तम् - धीवरो ऽपि मत्स्यान् मारयति, त्वमपि इति कस्ततो ९ विशेषस्तवेति । जटाभारं झाटय । झाटिते तस्मिन् पतिता नानाप्रकारा मत्स्याः । ततो राज्ञा जिनधर्मप्रशंसां कृत्वा तापसो निःसारितः । गङ्गागन्धवत्योः संगमे गत्वा पञ्चाग्निसाधनं कर्तुं लग्नः । १२ पञ्चशतयतिभिः सह तत्र वीरभद्राचार्यः समायातः । तत्रैकेन मुनिनोक्तम्-तापसस्योत्रं तपः । आचार्येणोक्तम्- दयाहीनमज्ञानिनां तपः किं प्रशस्यते । रुष्टेन तेनोक्तम् - कथमहमज्ञानी । आचार्येणोक्तम्-यदि १५ त्वं ज्ञानी तदा तव गुरुर्मृत्वा क्व संजातः । तेनोक्तम् - स्वर्गे । आचार्येणोक्तम् - अस्य त्वया दह्यमानकाष्ठस्याभ्यन्तरे स सर्पो दह्यमानस्तिष्ठति । रुष्टेन तेन काष्ठे स्फाटिते सर्पो दृष्टः । ततो गर्व १८ मुक्त्वा धर्ममाकर्ण्य मुनिर्जातः । मथुरायां गोवर्धनगिरौ मासोपवा
साद्युग्रतपः कुर्वाणस्य विद्यादेवताः सिद्धाः, भणन्ति ताः - भगवन् किं कुर्मः । तेनोक्तम् - यदा मे प्रयोजनं तदा आगच्छत यूयम् । २१ मासोपवासे पूर्णे आदरवतोग्रसेनेन घोषणा दापिता - मा को ऽपि वसिष्ठमुनिं स्थापयतु | अहं स्थापयिष्यामि । तत्र प्रथमपारणके मदादुद्भ्रान्तः पाटवर्धनहस्ती स्तम्भमुन्मूल्य निर्गतः । अतस्तद्२४ व्याकुलो राजा जातः । नगरे राज्यकुले च भ्रमित्वा मुनिरलाभेन गतः । द्वितीयमासोपवासपारणके नगर्यामग्निदाहे राजा व्याकुलः तृतीयमासोपवासपारणके जरासन्धप्रेषितराजादेशो राजा व्याकुल: ।
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org