SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ( ७०० ) अभिधान राजेन्द्रः | सामरणविसेस प्रसाधकमिति । न हि ' मधुरक - लड्डुकादिविशेषानर्थान्तरं सर्वथैकस्वभावमेकमनवयवं सामान्यम्' इत्यभिदधति जैनाः । अतः किमुच्यते-' न विषं विषमेव मोदकाद्यभिन्नसामान्याव्यतिरेकात् ' इत्यादि ? । किं तर्हि ? | समानपरिणामः । स च भेदाविनाभूतत्वाद् न य एव विपादभिन्नः स एव मोदकादिभ्योऽपि सर्वथा तदेकत्वे समानत्वायोगात् । यथोक्तं पूर्वपक्षग्रन्थे, 'सामान्यविशेषोभयरूपत्वे सति, वस्तुनो घटादेः सकललोकप्रसिद्ध संव्यवहारनियमोच्छेदसङ्गः' इत्यादि, तदपि किमित्याह -- जिनमतानभिज्ञतासूत्रकमेव केवलम्, न पुनरिष्टार्थप्रसाधकं वस्त्वनुपपत्तिरिष्टोऽ थे इति न तत्प्रसाधकम् । कथमित्याह-न हीत्यादि । न यस्माद् मधुरक-लड्डुकादिविशेषानर्थान्तरमभिन्नम्, सर्वथैकस्वभावमेकमनवयवं सामान्यमित्यभिदधति जैना:- भराम्त्याईताः । अतः किमुच्यते ऽनभ्युपगती पालम्भप्रायम्, यदुत - ' न विषं विषमेच, मोदकाद्यभिन्न सामान्यादयतिरेकात्' इत्यादि ? । किं तर्हि ? । समानपरिणामः सामान्यमिस्वभिदधति जैना इति । स च समानपरिणामः किमित्याह भेदाविनाभूतत्वात् कारणात्, न य एव विषादभिन्नः स एव Hrearersy | कथं नेत्याद्द-सर्वथा तदेकत्वे समानपरि मैकत्वे, समानत्वायोगात् । न ह्येकं समानमिति भावना । स्यादेतत् समानपरिणामस्यापि प्रतिविशेषमन्यत्वादस - मानपरिणामवत् तद्भावानुपपत्तिरिति । एतदप्ययुक्तम्, सत्यप्यन्यत्वे समानासमानपरिणामयोर्भिन्नस्वभावत्वात् तथाहि - समानधिषणा -- ध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्टबुद्धयभिधानजननस्वभावस्त्वितर इति यथोक्तसंवेदनाभिधान संवेद्याभिधेया एव च विषादय इति प्रतीतमेतत्, अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपम्, तथापि विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणाम। विनाभूतवात्, न तु मोदके, तत्समानपरिणामाविनाभावाभावात् तद्विशेषपरिणामस्येति । अतः प्रयासमात्रफला प्रवृत्ति - नियमोच्छेदचोदनेति । स्यादतदित्यादि । स्यादेतद्, अथैवं मन्यसे, समानपरिणामस्यापि मृदाद्यात्मकस्य, प्रतिविशेषः- विशेषं विशेष प्रति घट-शरावादिलक्षणम्, अन्यत्वात् कारणात् असमानपरिणामवदिति निर्देशनम्, तद्भावानुपपत्तिः - समानपरिणामभावानुपपत्तिरिति । एतदाशङ्क्याह- एतदप्ययुक्तम् । कथमित्याह - सत्यप्यन्यत्वे समानपरिणामस्य प्रतिविशेपम्: समानाऽसमानपरिणाम योरुलक्षणयोः, भिन्नस्वभावत्वात् । भिन्नस्वभावत्वमेवाह - तथाहीत्यादिना । तथाहीत्युपप्रदर्शन । समानाधिपणा ध्वनिनिबन्धनस्वभावस्तुल्यबुद्धिशब्दहेतुस्वभावः समानपरिणामः, यनः खलु घटशरावादिषु ' मृद् मृद्' इत्यविशेषेण भवतो - धिषणा-ध्वनी: Jain Education International सामस्थजोग तथा विशिष्टबुद्धयभिधानजननस्वभावस्त्वितरोऽसमानंपरिणामः, यतः खलु घटादिष्वेव ' घटः शरावम्' इत्यादिविशेषेण भवतो बुद्धयभिधाने इति । एवमधिकृतोदारणापेक्षया भावार्थमभिधाय पूर्वपक्षेोपन्यस्तभेदापेक्षया प्रक्रान्तनिगमनायाह-यथोक्तसंवेदनेत्यादि । यथोक्ते च ते संवेदनाभिधाने च तयोः संवेद्याभिधेया इति विग्रहः , एवंभूता एव च विषाऽऽद्यः तथाहि - ' सत् सत्' इति • विषादयः संवेद्यन्ते श्रभिधीयन्ते च, तथा विषमोदकः इत्येवं चेति प्रतीतमेतत् । अन्यथा यथोक्त संवेदनाभिधानसंवेद्याभिधेयत्वाभावे, यथोक्तसंवेदनाद्यभावप्रसङ्गात्, आदिशब्दाद् - यथोक्ताभिधानग्रहः श्रतो यद्यपि द्वयमपि वि मादकश्चेति उभयरूपं - सामान्यविशेषरूपम्, तथापि विषार्थी प्रमाता विष एव प्रवर्तते । कुत इत्याह-तद्विशेषपरिणामस्यैव- विषविशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वाद् - विष समान परिणामाविना भूतत्वात् न तु मोदकेन पुनर्मोदके । कुत इत्याह- तत्समानपरिणामाविनाभावाऽभावात् - मोदकसमान परिणामाविनाभावाभावात्, तद्विशेषपरिणामस्येति विषविशेषपरिणामस्येति । अत उक्लन्यायात्,प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना पूर्वपक्ष संबन्धिनीति | एतेन ' विषे भक्षिते मोदकोऽपि भक्षितः स्यात् ' इत्याद्यापि प्रतिक्षिप्तमवगन्तव्यम्, तुल्ययोगक्षेमत्वादिति । इत्यादि । तदपि कूटनटनृत्तभित्राविभावितानुष्ठानं न वियच्चापरेणाप्युक्तम्- 'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः , दुषां मनोहर मित्यपकर्णयितव्यम्, वस्तुतः प्रदत्तोत्तरत्वात्सामान्यविशेषरूपस्य वस्तुनः सम्यग्व्यवस्थापितत्वात् । एतेनेत्यादि एतेनानन्तरोदितेन ग्रन्थेन, 'विषे भक्षिते मोदकोऽपि भक्षितः स्यात्' इत्यपि पूर्वपक्षोक्तं प्रतिक्षिप्तमवगन्तवयम्, तुल्ययोगक्षेमत्वादिति । यश्चापरेणाप्युक्तम्'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । इत्यादि । तदपि कुः ननुतमिवेति निदर्शनम्, श्रविभावितानुष्ठानं दर्शनमा - वार्थपरिज्ञानशून्यत्वेन, न विदुषां मनोहमिति कृत्वा, अ एकर्णयितव्यं न श्रोतव्यम् । कुत इत्याह-वस्तुतः प्रदत्तोत्तरत्वात् । तथा, सामान्यविशेषरूपस्य वस्तुनः सम्यख्यवस्थापितत्वात् । अने० ३ अधि० । सामत्थ- सामर्थ्य - न० 1 समर्थस्य भावः सामर्थ्यम् । वर्ये,आ म० १ ० । बले, शा० १ ० १६ श्र० । 'चेट्ठा सत्ती सामर्थ ति य जोगस्स हवंति पजाया । ' आ० चू० १ ० । बलं ति या वीरियं ति वा सामत्थं ति वा एगट्ठा। नि० चू० ११ उ० । आ० ० । वीर्येणापि वीर्यस्य सामत्थं समत्थशब्दो वा युक्त वाचकः वीर्ययुक्त इत्यर्थः । नि० चू २ उ० । साधुत्र्यसनपरित्राणवले, पञ्चा०२ विव० पर्यालोचने व्य० ६ उ० पञ्चा० । समत्थजोग - सामर्थ्य योग- पुं०। शास्त्रोक्ते नृपक श्रेणी द्वितीये पूर्वकरण भाविनि योगे, पो०१५ विव० । शास्त्रीयेऽतिशकौ योगे, द्वा० १६ द्वा० । ( ' जोग' शब्दे चतुर्थभागे १६२७ पृष्ठ व्याख्यातमेतत् । ) सामत्थजोग्गया सामर्थ्ययोग्यता- स्त्री०|सामानफलसाधक त्वरूपेण सामर्थ्येन योग्यतायाम्, पो० १२ विव० । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy