________________
( ६६५ ) अभिधानराजेन्द्रः ।
सामविसेस
मात, न समानाः' इति । श्रादिशब्दाद्-विशेषविनाशे तत्र तत्कवलग्रहणप्रसङ्गः । इति संक्षेपगर्भार्थः । इत्यलं प्रसङ्गेन ।
आह—कि पुनयथाक्तबुद्धशब्दद्वयप्रवृत्तिनिबन्धनम् ? इति । उच्यते-अनेकधर्मात्मकानां वस्तूनां तथाविधः समानपरिणाम इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलप्रभवदोष संभवः, समानपरिणामस्य तद्विलक्षणत्वात्,तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्य समानपरिणामत्वात्, अस्यैव च सामान्यभावोपपत्तेः समानानां भावः सामान्यमिति यत्तत्समानैस्तथा भूयत इत्यन्वर्थयोगात् अर्थान्तरभ्रतभावस्य च तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगात्, अन्यथा समानानामित्यभिधानाभावादयुक्तैव तत्कल्पना । समानत्वं च भेदाविनाभाव्येव, तदभावे सर्वथैकस्वतः समानत्वानुपपत्तेः । इति तथाविधः समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तम् ।
Jain Education International
सामण्ण विसेस मानपरिणामविकला अपि तथाविधबुद्धधादिहेतवः किं नेष्यन्ते १ । उच्यते-असमानेभ्यः समानबुद्धयाद्यसिद्धेः, तन्निबन्धनस्वभाववैकल्यात्, तथाहि-न चक्षुरादिषु समानबुद्धयादिभावः तथाऽप्रतीतेः । रूपज्ञानाद्येककार्यकारित्वं चात्रानर्थकमेव, सिद्धसाधनत्वात् । को हि नाम तथाऽ समानेभ्योऽपि तथैकं कार्य नेच्छति १ । तथाविधसमानपरिणामविकलास्तु समानबुद्धिशब्दद्वयप्रवृत्तिहेतवो न भवन्ति, न तथाविधैककार्याः, इत्यभिदधति विद्वांसः । ततान न किश्चिदुपद्रूयते, असमानेभ्यः समानबुद्ध्याद्यसिद्धेः ।
"
आह-किं पुनर्यथोक्तवुद्धि शब्दद्रय प्रवृत्तिनिबन्धनम् ? इति । उच्यते-अनकधर्मात्मकाना सत्वज्ञेयत्वाद्यपेक्षया वस्तूनां घटशरावाष्ट्रकादञ्चनादीनाम्, तथाविधो ' मृद् मृद् * इत्यभिन्न बुद्धिशब्दद्वय प्रवर्तकः, समानपरिणाम इति । न चात्र समानपरिणामे, सामान्यवृत्तिपरीक्षायामुपन्यस्तं च तद् विकल्पयुगलकं च ' तथाहि - तदेकादिस्वभावं सामान्यमनेषु दिग्दशसमयस्वभावभिन्नेषु विशषषु सर्वात्मना वा वर्त्तते, देशेन वा' इत्येतत् तत्प्रभवाश्च ते दोषाश्च सामाम्यानन्त्यादयः, तेषां संभवो न च । कुत इत्याह- समानपरिसामस्य तद्विलक्षणत्वात् पकादिधर्मकसामान्यविलक्षणत्यात् । वैलक्षण्यमेवाह - तुल्येत्यादिना । तुल्यज्ञानपरिच्छेद्यं च तद् वस्तुरूपं चेति विग्रहस्तस्य समानपरिणामत्वात् । अस्यैव-समानपरिणामस्य, सामान्यभावोपपत्तः । उपपत्तिश्व, समानानां भावः सामान्यमिति यत् तत्समानैस्तथा भूयत इति कर्तरि षष्ठी, इत्येवमन्वर्थयोगास् । नायं परपक्ष इत्याह- अर्थान्तरभूतभावस्य च संबन्धपक्षे समानानां संबन्धिनः, तद्व्यतिरेकेणापि भावव्यतिरेकेणापि तदर्थान्तरत्वेन तत्समानत्वं तेषां समानानां समानत्वे, प्रकृत्यैवेति भावः, किमित्याह- अनुपयोगात् अधिकृतभावस्य तमन्तरेग्रैव ते समाना इति कृत्वा । श्रन्यथैवमनभ्युपगमे तमन्तरेण तदसमानत्ये प्रकृत्या 'समानानाम्' इत्यभिधानाभावात्, अयुक्तैव तत्कल्पना - अधिकृतभावकल्पना' समानानां भावः' इत्येतत्संबन्धिनां समानानामिति कृत्वा । उपचयमाह-समानत्वं च तुल्यत्वं च भेदाविनाभान्येव यमनेन समानः' इति नीतेः । तद्भावे - भेदाभावे, सर्वथै
"
-
कत्वतः कारणात् ; किमित्याह - समानत्वानुपपत्तिः । इति तथाविधो 'मृद् मृद्' इत्यभिन्नवुद्धिशब्दद्वयवर्तकः, समानपण समानबुद्धिशब्दप्रवृत्ति निमित्तमिति स्थितम् ।
नासिद्धिः प्रधानेश्वरादिकार्यत्वसमानपरिणामविकले - भ्योऽपि भावेभ्यः ' प्रधानादिकार्या: प्रधानादिकार्या: ' इति केषाञ्चित्समानबुद्ध्यादिसिद्धेः । न । तस्याः सङ्केतसं मोहहेतुत्वात् श्रविद्वदङ्गनादीनामविशेषेण सम - नपरिणामवद्भावेष्विवाक्षदर्शनत एव तदप्रवृत्तेः । तथादर्शनमपि न तत्रार्थयाथात्म्यतः, अपि तु-जन्मान्तरवासनात इति चेत् । तत्रापि किं निमित्तम् १ इति वाच्यम् । जन्मान्तरवासनैवेति चेत् । अनवस्था | अनादि
एवम्,
आह-यथा असमाना अपीन्द्रियादयस्तथास्वभावत्वाद् | रूपज्ञानाद्येककार्यकारिणः, तथैतेऽपि भावास्तथाविधसत्वात् तद्वासनाया अयमप्यदोष इति चेत् । न े । अना
श्राह - यथाऽसमाना अपीन्द्रियादयः - इन्द्रियमनस्काassलोकरूपादयो जातिभेदेन तथास्वभावत्वाद्रूपादिज्ञानजननस्वभावत्वात् कारणात् रूपज्ञानादि श्रादिशब्दात् - स्वसंसताविन्द्रियादिकार्थग्रहः, एतदेककार्यकारिणः तथैतेऽपि भावा घट - शरावो-ष्ट्रिकोदञ्चनादयः, तथाविधसमानपरिणामविकला श्रपि ; ताविकसमान परिणामविरहिता अपीत्यर्थः, तथाविधबुद्धधादिहेतवः - समान बुद्धिशब्दद्वयहेतवः, किं नेष्यन्ते ? । एतदाशङ्कयाह - उच्यते-असमानेभ्यो जातिभेदेन समानबुद्धयाधसिद्धेः - समान बुद्धिशब्दद्वयानुपपत्तेः । असिद्धिश्च, निबन्धनस्वभाववैकल्यात् । समानवुयादिनिबन्धस्वभाववैकल्यात् । एतदेवाह - तथाहि - न चक्षुरादिषु विषयेषु, समानबुद्धयादिभावो विषयत्वेन । कुत इत्याहतथाऽप्रतीतेः चक्षुरादिषु विषयत्वेन समानबुद्धधाद्यप्रतीतेः, नीलादिष्विव समानेष्विति व्यतिरेकेण भावना । रूपशानायेककार्यकारित्वं चात्र व्यतिकरे, अनर्थकमेव । कुत इत्याह-सिद्धसाधनत्वात् । एतदेवाह - को हि नाम वादी, तथा - असमानेभ्योऽपि विशिष्टसमानपरिणामापेक्षया, तथैकं कार्य - सामग्रीजनकत्वेनैकं कार्य नेच्छति ? | तथाविधसमानपरिणामविकलाः पुनश्चक्षुरादयः समानबुद्धि-शब्दद्वयप्रवृत्तिहेतवो न भवन्ति, न तथाविधैककार्यास्तथाविधैककार्या भवन्त्येवेत्यर्थः इत्यभिदधति विद्वांसो जैनाः । ततश्चानेनानन्तरोदितेन न किञ्चिदुपद्रूयते । कुत इत्याह- असमानेभ्यः - चक्षुरादिभ्यः, सामानबुद्धद्याधसिद्धेः तत्सिद्धौ च नो बाधेति भावना ।
For Private & Personal Use Only
www.jainelibrary.org