________________
सामण्णविसेस
चैककालभाविना शक्त्या सहानुभवेनान्यतो भवन्त्याः शशेरन्यत एव स्वहेतोर्भवताऽनुभवेन तस्याः शक्तेरतिशयाघानं 'न्याय्यम्' इति शेषः । कुत इत्याह- तन्निबन्धनस्य अधिकृतशक्त्युपादानस्य तत्कृतविशेषासिद्धेर्विवक्षितानुभवकृतविशेषासिद्धेः । तदभ्युपगमे च सामान्येन तन्निबन्धनस्य तत्कृतविशेषाभ्युपगमे च तत्रापि तन्निबन्धनेऽयमेवानस्तरोदितो 'मोपादानकारणविशेषाधानमन्तरेण ततः कार्यविशेषासि:' इत्यादिवृत्तान्तः । एवमुक्तनीत्या निबन्धनपरम्परायामपि वाच्यम् । इति एवम् अत्राणं निबन्धनपरम्परा अनादावपि संसारे कस्यापि निबन्धनस्योक्तनीत्या विशेषाधानायोगादिति भावनीयम् ।
( ६८७ ) अभिधानराजेन्द्रः ।
स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना याऽनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्टं कार्य जनयत्यतो न दोष इति चेत् । न । अनुपकारिणोऽपेक्षायोगात् । तदभ्युपगमेऽतिप्रसङ्गात्, तत्तथाविधस्वभाबाधायक हेतोरप्यस्थानपक्षपातित्वापत्तेः स्वभावापर्यनुयोगस्य च प्रमाणोपपन्नस्वभावविषयत्वात् । स्वपरिकल्पनागर्भवाङ्मात्रोदितस्वभावविषयत्वे तु तवव्यवस्थानुपपत्तिः, तथाविधस्वभावानामपि तथाविधस्वभावत्वाभिधानाविरोधात् । एवं च सहेतुकनाशापत्तिः, 'स्वहेतुपरम्परातस्तथास्वभाव एवासाबुत्पन्नो भावो योऽकिञ्चित्क - रमपि नाशहेतुमपेक्ष्य नश्यति' इत्यपि वक्तुं शक्यत्वात्, स्वभावपर्यनुयोगासिद्धेः, अचिन्त्यशक्तित्वात्, अन्यथा त्वत्पक्षेऽपि तुल्यत्वादिति । नापि निरुद्धायाः, तस्या एवासच्वात् असतश्वोपकारकरणात् । न च प्रकारान्तरेगोपकारकरणं संभवति । एवं तावदाद्यपचे सहकारार्थाभाव इति ।
,
Jain Education International
स्वत्वित्यादि । स्वहेतुपरम्परात एव सा शक्तिरधिकृता तथा - स्वभावोत्पन्ना, याऽनुपकारिणमपि तदनुभवमधिकृतस्वलक्षणानुभवं सहकारिणमपेक्ष्य विशिष्ट कार्य जनयत्यधिकृत विकल्पाख्यम्, अतो न दोष इति चेत् अधिकृतः । एतदाशङ्क्याह-न अनुपकारिणः तदनुभवस्य । किमित्याह- अपेक्षाऽयोगात् । तदभ्युपगमेऽनुपकारिणोऽपेक्षाऽभ्युपगमेऽतिप्रसङ्गात्, तद्वद् विश्वापेक्षापत्तेः । तत्तथाविधेत्यादि । तस्याः शक्लेस्तथाविधस्वभावाधायको अनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्टं कार्य जनयतीत्येवविधस्वभावाधायकश्चासौ हेतुश्चेति समासः, तस्यापि, किमित्याह - प्रस्थानपक्षपातित्वापत्तेः नेति क्रियायोगः । उक्तं च - " अस्थानपक्षपातश्च हेतोरनुपकारिणि । अपेक्षायां नियुङ्क्ते यत कार्यमभ्याविशेषतः ॥ १ ॥ " इत्यादि । स्वभावापर्यनुयोगस्य च म स्वभावः पर्यनुयोगमर्हति इत्यस्य । किमित्याह प्रमाणोपपन्नस्वभावविषयत्वात् प्रतीतिसचिवस्वभावविषयत्वादित्यर्थः, स्वपरिकल्पनागर्भश्चासौ वाङ्माजोदितस्वभावश्चेति समासः, स एव विशेषो यस्य स्वभावापर्यनुयोगस्य स स्वपरिकल्पना गर्भवाङ्मात्रोदितस्वभा
सामण्ण विसेस वविषयस्तस्य भावस्तस्मिन् पुनरस्याभ्युपगम्यमाने किमित्याह — तस्वव्यवस्थानुपपत्तिः । कुत इत्याह-तथाविधस्वभावानामपि भावानां तथाविधस्वभावत्वाभिधानाविरोधात् । ततः किमित्याह एवं च सहेतुकनाशापसिः । कथमित्याह - स्वहेतु परम्परातः सकाशात् तथास्वभाव प वासावुत्पन्नो भावः पदार्थो योऽकिञ्चित्करमपि नाशहेतुमपेक्ष्य नश्यति इत्यपि वक्तुं शक्यत्वात् तथास्वभाव पर्यनुयोगासिद्धेरुक्तनीत्या । श्रसिद्धिश्वाचिन्त्यशक्तित्वात् स्वभावस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा त्वत्पक्षेऽपि स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोत्पश्वेत्यस्मिन्नपि । तुल्यत्वात् पर्यनुयोगस्य । इति सर्वत्र 'न, अनुपकारिणोऽपेक्षाsयोगात्' इत्यतो यथायोगं 'न' इति क्रिया योजनीया । नापि निरुद्धायाः 'शक्तेरुपकरोति तदनुभवः' इति प्रक्रमः । कुत इत्याह-तस्या एव निरुद्धायाः शक्तेरसत्वात्, असतश्च तुच्छस्य चोपकाराकरणात् । न चेत्यादि । न च प्रकारान्तरेणोक्तप्रकारत्रयातिरिक्तेनोपकारकरणं संभवति वस्तुतस्तस्यैवाभावात् । एवं तावताद्यपदे - उपन्यासक्रमप्राधान्यात् 'परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षणः' इत्यस्मिन्, सहकारार्थाभाव इति ।
एतेन पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणोऽपि सहकारार्थो निषिद्धः, तत्वतः प्रथमसहकारार्थाविशेषात्,
स्वहेतु परम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना इत्यादिना तु सुतरामभेदात्, प्रत्येकं तत्तथाविधकार्यजननसमर्थस्वभावेतरविकल्पदोषापत्तेश्च । प्रथमपत्ते किमन्योन्यापेक्षया १, एकत एव तत्सिद्धेः । द्वितीयपचे चापेचायामपि तदसिद्धेः, प्रत्येक मतत्स्वभावत्वात् ।
4
एतेनेत्यादि । एतेन - अनन्तरोदितेन, पूर्वस्वहेतोरेव समग्रोत्प मैककार्यक्रियालक्षणोऽपि सहकारार्थः प्राग् निदर्शितस्वरूपो निषिद्धः । कुत इत्याह- तत्वतः - परमार्थेन, प्रथमसहकारार्थाविशेषात् । अस्य सहकारार्थस्य परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षणः प्रथमः तदयमपि पूर्वखहेतोरेव समग्रोत्पन्नैककार्य क्रियालक्षणः सदा संतानापक्षयैवंभूत एव तस्य तस्य कार्यस्य विशिष्टक्षणोत्पादजलक्षणत्वादिति भावनीयम् । स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोतन्ना इत्यादिना त्वनन्तरोदितग्रन्थेन सुतरामभेदात्-द्वयोरपि सहकारार्थयोः फलाभेदादितिगर्भः । दोषान्तरमाह - प्रत्येकमित्यादिना । प्रत्येकमेकमेकं प्रति तेषां समयोत्पन्नानां तथाविधं विशिष्टं यद् विवक्षितं विज्ञानादि कार्य तज्जननसमर्थस्वभावश्चेतरश्चातज्जा. ननसमर्थस्वभावश्चेति विकल्पाभ्यां दोषास्तदापत्तेश्च कार णादू ' द्वितीयोऽपि सहकारार्थी निषिद्धः ' इति क्रिया । एतदुक्तं भवति - पूर्वस्वहेतोरेव समग्रोत्पनैककार्यक्रियालक्षणो द्वितीय' सहकारार्थः । तत्र ये समग्रा उत्पन्नास्ते प्रत्येकं तथाविधकार्यजननसमर्थस्वभावाः स्युः, न वा तथाविधकार्य जननसमर्थस्वभावा इति द्वयी गतिः । तत्र प्रथमपक्षे - प्रत्येकं ते तथाविधकार्यजननसमर्थस्वभाधा इत्यस्मिन्, किमन्योन्यापेक्षया ?, एकत एव तथाविधका
•
For Private & Personal Use Only
www.jainelibrary.org