________________
सामाविस
असत्वापत्तेः । पनामेवाह- सन्निहितार्थदर्शनबलोत्पन्ननिश्चयादपि सकाशात्, पारम्पर्येणार्थान्तरदर्शनशक्निजत्वाऽऽरेकातः-श्राशङ्कातः कारणात् प्रवृत्याद्ययोगात्, आदिशब्दात्-प्राप्तिपरिग्रहः । एवं तावद् भिन्नविषययोः सविकल्पाविकल्पज्ञानयोर्यौगपद्यमसंभव्येव निदर्श्य साम्प्रतमिदमाह समानेत्यादि । समानविषययोः पुनरनयोः सविकल्पाविकपज्ञानयोर्भावः तथा हेतुफलभावेन भवन्नपि अहिरहिः' इत्यादौ, न नो बाधायै— नास्माकं बाधार्थम् । कुतइत्याह- श्रक्रमेणा प्रवृत्तेः - श्रवग्रहकल्पादविकल्पादवायकपसविकल्पभावेन क्रमेण प्रवृत्तेरित्यर्थः । एवं चेत्यादि । एवं सति श्रतीताद्यर्थगतविकल्पेनापि प्रमात्रा, इन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः' इत्यादि पूर्वपक्षेोकं यावद्' भिनजातीयत्वात्' इत्येतद् व्युदस्तमपाकृतमबसेयम् । कुत इत्याह- श्रक्रमप्रवृत्तौ सत्याम्, अतीतादिविकल्परूपादिग्रहगयोरस्य- पूर्वपक्षोक्लस्य, साफल्यापपत्तेः अन्यथाऽक्रमप्रवृत्तिमन्तरेण वाड्यात्रत्वादिति ।
आह- यद्यत्र क्रमः, कथं न संलक्ष्यत इति १ । उच्य - ते-उत्पलपत्रशतव्यतिभेदवत् कालसौक्ष्म्यात् छद्मस्थप्रमातुरनाभोगबहुलत्वात्, अदृष्टप्रतिबन्धात्, वस्तुनोऽनेकधर्मत्वात् यथाक्षयोपशममबोधप्रवृत्तेः, च तत्तद्धेतुभेदतो वैचित्र्यादिति ।
तस्य
( ६५२ )
अभिधान राजेन्द्रः ।
,
आह-यद्यत्र सविकल्पाविकल्पविज्ञानद्वये, क्रमः, कथं न संलक्ष्यते ? इति । उच्यते- उत्पलपत्रशतव्यतिभेदवत् कालसौचम्याद् न संलक्ष्यत इति । किमेतदेवमित्याह - छद्मस्थमातुरनाभोग बहुलत्वात् । श्रनाभोगबहुलत्वं चाइष्टकर्मप्रतिबन्धात्, तथा वस्तुनः प्रमेयस्यानेकधर्मकत्वात्, तथा विभ्रमादिनिबन्धनत्वेन यथाक्षयोपशम यस्य यथा क्षयोपशमस्तथाऽवबोधप्रवृत्तेः, तस्य च क्षयोपशमस्य तत्तद्धेतुभेदतो द्रव्यादिभेदेन, वैचित्र्यात्, क्रमो न संलक्ष्यत इति ।
Jain Education International
"
आह-यदि कालसौक्ष्म्यादत्र क्रमाऽलक्षणम् । एवं तर्हि 'सरः' इत्येवमादिकयोर्वर्णयोरुच्चारणे नितरां कालसौक्ष्म्यमित्यक्रम ग्रहणं स्यात् । तथाच क्रमालक्षणात् श्रुतिभेदो न भवेत् यथा सरो रस इति । इतश्च न भवेद्युगपद गोचरीभूतविषयेन्द्रियवतोऽविच्छेदेन सर्वोपलब्धौ क्रमपक्षेऽप्यक्रमस्यैव दर्शनात्, स हि वंशादिवादयितूरूपं पश्यति, तदैव ततः शब्दं शृणोति, नीलोत्पलादिगन्धं जिम्मति, कर्पूरादे रसमास्वादयति श्रासनादिस्पर्श स्पृशति, चिन्तयति च किञ्चित् इति तत्त्वतोऽस्यानवरतं सर्वपरिच्छित्तिः । एवं यावदत्राप्ययुगपत्पतेऽपि समाश्रीयमाणे पञ्चभिर्विज्ञानैर्व्यवधानेऽपि क्रमभावि सत् तेषामेकैकं विज्ञानमविच्छिन्न भिव प्रतिभाति, तथानुभृतेः । यदैतदेवम्, तदा कथमन्यविज्ञानावृत्तौ वर्णयोर्न सकृच्छ्रुतिः, इत्यविच्छिन्नमेकघनीभूतायतवर्णाकारं दर्शनं न भवनि च भवति तथाऽप्रतीतेः, इति यत्र क्रमस्तत्र कालसौ
-
सामाविसेस
म्येऽप्युपलभ्यत एव । न च प्रतीतिं विहाय पदार्थतत्वव्यवस्थापनोपायः, इति यथाप्रत्ययं युगपद्विज्ञानप्रवृत्तिर्न्यायविदाऽङ्गीकर्तव्या, अन्यथोक्तवद् न्यायोच्छेदप्रसङ्गादिति ।
आह--यदि कालसौक्ष्म्यादत्र अधिकृते सविकल्पाविकल्पज्ञानद्वये, क्रमालक्षणम् एवं तर्हि 'सर' इत्येवमादिकयोर्वयोः, श्रादिशब्दाद् - रसादिग्रहः, उच्चारणे नितरां काल सौक्ष्म्यम्, अव्यवधानेनोच्चारणात् इत्यक्रमग्रहणं स वर्णयोः स्यात् । तथा चेत्यादि । तथा च सति क्रमालक्षणात् कारणात्, श्रुतिभेदः - श्रवणभेदो भवेत्, यथा सरोरस इति द्विवर्णविषयः । इतश्च न भवेच्छ्रुतिभेदः । कुत इत्याह-यु
पदित्यादि । युगपदेकदैव, गोचरीभूतविषयाणि च तानीन्द्रियाणि चेति विग्रहः, तान्यस्य विद्यन्त इति तद्वान्, तस्याऽविच्छेदेन प्रबन्धवृत्त्या, सर्वेषां प्रक्रमाद्विषयाणामुपलब्धिः, सर्वोपलब्धिः अस्यां सर्वोपलब्धौ सत्याम् । किमित्याह — क्रमपक्षेऽपि विज्ञानविषये, अक्रमस्यैव दर्शनात् एतदेवाक्रमदर्शनमाह-स हीत्यादिना । सहि युगपगोचरीभूतविषयेन्द्रियवान्, वंशादिवादयितू रूपं पश्यति, तदैव ततः वंशादिवादयितुः सकाशात्, शब्दं शृणोति, तथा, नीलोत्पलादिगन्धं जिघ्रति, तथा, कर्पूरादे रसमास्वादयति एवमासनादिस्पर्श स्पृशति, चिन्तयति च किचिन्मनसा, इत्येवं तत्त्वतोऽस्य युगपद्गोचरीभूतविषयेन्द्रि यवतः प्रमातुः । किमित्याह--अनवरतं सर्वपरिच्छित्तिः अनवरत सर्वपरिच्छित्तिरेव युगपदेवेन्द्रियविषयसंबन्ध सिद्धेः । एवं तत्त्वव्यवस्थित सति यावदत्रापि युगपदनुभase तावके, अयुगपत्पक्षेऽपि समाश्रीयमाणे किमित्याह पञ्चभिर्विज्ञानैर्व्यवधानेऽपि सति अधिकृतन्यायेन, क्रमभावि सद् भवत् तेषां पराणां विज्ञानानाम्, एकैकं विज्ञान शब्दादिगोचरादि, अविच्छिन्नमिव-युगपदिव, प्रतिभाति । कुत इत्याह-- तथानुभूतेः-- अविच्छेदेनानुभूतेः । प्रकृतयोजनामाह-यदेत्यादि । यदेतदेवमनन्तरोदितम्, तदा कथमन्यविज्ञानावृत्तावपान्तराले, वर्णयोः सरादिरूपयोः, न सकृच्छुनिर्न युगपच्छ्रवणमिति । एतदेवाह अविच्छिन्नम् - एकदैव एकघनीभूतश्चासावायतवर्णश्चति विग्रहः, तदाकारं दर्शनं न भवति । स्यादेतद् भवत्येव इत्याशङ्कानिरासार्थमाहन च भवति । कुत इत्याह-- तथाऽप्रतीतः । इत्येवं यत्र क्रमस्तत्र कालसौक्ष्म्येऽप्युपलभ्यत एव यथाऽधिकृतवर्णयोः । न च प्रतीतिं विहाय परित्यज्य पदार्थतत्त्वव्यवस्थापनोपायः इत्येवं यथाप्रत्ययं -- यथानुभवं, युगपद्विज्ञानप्रवृत्तिः षडपेक्षया प्रस्तुतद्वयापेक्षया वा, न्यायविदा प्रमात्रा, अङ्गीकर्तव्या, अन्यथैवमनभ्युपगमे, उक्तवद् यथोक्तं तथा न्यायोच्छेदप्रसङ्गात् प्रतीतिबाधेन न्यायानुपपत्तेस्तस्यापि प्रतिबीजत्वादित्यभिन्य इति ।
अत्रोच्यते-यत्किश्चिदेतत्, वर्णयोः सावयवत्वेनोक्तदोपानुपपत्तेः, सराssदयों हि वर्णाः सावयवत्वेनानेकक्षणलब्धवृत्तयः, तथोपलब्धितस्तत्तत्स्वभावत्वात्, अन्यथा तदनुपपत्तेः, न क्षणिकज्ञानग्राह्याः, तस्य परमाणुव्य
For Private Personal Use Only
www.jainelibrary.org