________________
सामरविसेस
विकल्पे ज्ञाने एव प्रतिपत्तृणी कुत इत्याह- तयोः - सविकल्याविकल्पज्ञानयोः, विमोहासिद्धेः, असिद्धिश्च स्वसंवेदन - रूपत्वेन हेतुना ताभ्यां स्वस्वभावदर्शनादिति । इत्थमपिस्वस्वभावदर्शनेऽपि सति विमोहे तदनुच्छेदापत्तिः- मोहानु छेदापत्तिः । कुन इत्याह-उपायाभावात् । न हि स्वसंवेद नरूपे कदाचिदन्यथा भवत इत्युपायाभावः । नचेत्यादि । न चानयोः सविकल्पविकल्प योर्विज्ञानयोः, ऐक्यव्यवसायः । कुत इत्याह- मिथः- परस्परं भेदाभ्युपगमात् । यदि नामैवं ततः किमित्याह-स्वविषयनियतत्वेन हतुना, तथाप्रतिभासानुपपत्तेः - ऐक्यप्रतिभासानुपपत्तेः । प्रतिभासश्च व्यवसाय इति । एवमपि तथाप्रतिभासानुपपत्तावपि तदभ्युपगमे ऐक्यव्यवसायाभ्युपगमे श्रतिप्रसङ्गात् शशविषाणादिव्यवसायापत्तेः ।
1
"
स्यादेतत् एक्यव्यवसायस्तदपरो विकल्प एव व्यत्रसायरस परिच्छेदात्मकत्वात् । स किंविषय इति वाच्यम् । तदुभयविषय इति चेत् । कथमेतत्प्रतिमासी तद्विषय: १, तत्प्रतिभासित्वे वा कथमैक्यं व्यवस्यति ? न चात्यन्तभिन्नयोस्तथाव्यवसाये निमित्तम् । भ्रान्त एवाऽयमिति चेत् । तदन्यैवंविधभावे कथं नेतरयोर्भेदव्यवसायः १ । व्यवसाय एवेति चेत् । न, तथायुक्त्यनुभवाभावेन वाङ्मात्रत्वात् । एतेन ' अन्यत्र ऽनयोयगपद्येऽपे भेददर्शनात्, इत्यादि प्रत्युक्तम्, तच्चतस्तुल्ययोगचे मत्वात् । स्यादेतदित्यादि । स्थादेतत् ऐक्यव्यवसायोऽधिकृतः नाभ्यां सविकल्पा विकल्पविश्वाभ्यामपरः - अन्यो विकल्प एव । कुत इत्याह-व्यवसायस्य परिच्छेदात्मकत्वात् । एतदाशङ्कयाह-स किंविषयो विकल्पः, इति वाच्यम् । तदुभयविषयः - सर्विकल्पाविकल्पविज्ञानोभयविषय इति चेत् । एतदाशङ्कयाह- कथमेतत्प्रतिभासीसविकल्पविकल्पविज्ञानाऽप्रतिभासी सन् तद्विषयः 'सविकल्पाविकरूपज्ञानविषयः ? । तत्प्रतिभासित्वे वा - सविकल्पाविकल्पविज्ञानप्रतिभासित्वे वा सति कथमैक्यं व्यवस्यति परिच्छिनत्ति ? तयवसायरूपत्वादित्यर्थः । न चेत्यादि । न चात्यन्तभिन्नयोर्जातिभेदेन, सविकल्पा विकल्प विज्ञानयोरिति प्रक्रमः, तथाव्यवसायः, ऐक्येन व्यवसाये निमित्तं नीलपीतयोरिव भ्रान्त एवायमपरो विकल्प इति वेत् । एतदाशङ्क्याह- तदन्येत्यादि । तस्माद् भ्रान्तादम्योऽभ्रान्त एवंविध उभयविषयस्तस्य भावे सति कथं न इतरयोः सविकल्पा विकल्पविज्ञानयोः, भेदव्यवसायस्तदम्येन ? न ह्यन्यस्मिन् सत्यरूपेऽसत्यस्य भ्रान्ततेति हृदयम् । व्यवसाय एवेति चेत् श्रन्येनेतरयोः । इत्येतदाशख्याइ-नेत्यादि । न-नैतदेवम्, तथायुक्त्यनुभवाभावेन हेतुना, वाङ्मात्रत्वादर्थशून्यत्वादधिकृत वचसः । युक्त्यभावश्चेह स्वलक्षणसामान्यलक्षणयेोरेकत्रा प्रतिभासनात्, अनुभवस्य वासंकीर्णोभयग्राहिणोऽभावादिति । एतेनेत्यादि । एतेनानन्तरोदितेन दूषणजातेन 'अन्यत्राऽनयो यौगपद्येऽपि भेददर्शनात् ' इत्यादि पूर्वपक्षोक्तं, प्रत्युक्तम्- निराकृतम् । कुत इत्याह तस्वतः - परमार्थतः तुल्ययोगक्षेमत्वादिति ।
Jain Education International
( ६५१ ) अभिधानराजेन्द्रः ।
,
"
For Private
मामरणविसेम किश्व - अनयोर्भिन्नविषयत्वेन तथापि जन्माऽयुक्तम्, अन्यदर्शनस्यान्यविकल्पनिमित्तत्वात् निमित्तत्वे वाऽतिप्रसङ्गात्, नीलदर्शनादपि पीतादिविकल्पापत्तेः, तदभावप्रसङ्गात्, निश्चयबलाद्धि, तद्भावसिद्धिः स चेदन्यदर्शनादप्यन्यविषयः, अप्रमाणिकाऽन्यसत्तेति विश्वस्य नीलमात्रतापतिः । भिन्नदर्शन विषयाः, पीतादय इति चेत् न । तेषामनिश्चयात्मकत्वेन तथातानधिगतेः, न च तमिश्रयात् तदधिगतिर्युक्ता, तस्यान्यतोऽपि भावेन तत्प्रवित्रन्वासिद्धेः । स पारम्पर्येण तद्दर्शनसामर्थ्योद्भूत एव, स दाऽतद्दर्शिनोऽभावादिति चेत् । न । इत्थं सर्वत्रानाश्वासेनाsसमज्जसत्वापत्तेः सन्निहितार्थदर्शनवलोत्पन्ननिश्चयादपि पारम्पर्येणार्थान्तरदर्शनशक्तिजत्वाऽऽरेकातः प्रवृत्या - द्ययोगात् । समानविषययोः पुनरनयोर्भावस्तथा भवमपि न नो बाधायै, अक्रमेणाऽप्रवृत्तेः । एवं च ' अतीत. वर्थगतविकल्पेनापीन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः ' इत्यादि यावद् 'भिन्नजातीयत्वात्' इत्येतद् व्युदस्तमवसेयम्, अक्रमप्रवृत्तावतीतादि विकल्प रूपादिग्रहणयोरस्य साफन्योपपतेः, अन्यथा वाङ्मात्रत्वात् ।
"
किश्चेत्यादिनाऽभ्युच्चयमाह-किश्ञ्च. अनयोः सविकल्पादिकल्पज्ञानयोरुदाहृतयोः भिन्नविषयत्वेन हेतुना जातिमेदतः, तथापि प्रक्रमात् क्रमेणापि यथैकजातीययोस्तथापि, जन्मायुक्तमघटमानकम् । कुत इत्याह- अन्यदर्शनस्थपण दिदर्शनस्य, अन्य विकल्पानिमित्तत्वाद्-अतीताथर्थगतविकल्पानिमित्तत्वात् मिमित्तत्वे वाऽतिप्रसङ्ग त् । एनमेवाहनीलदर्शनादपि सकाशात्, पीतादिविकल्पापतेः । यदि नामैवं ततः किमित्याह तद्भावप्रसङ्गात् पीताद्यभावप्रसङ्गात् । एतदेव स्पष्टयति-निश्चयेत्यादिना । निश्चयबलाद् यस्मात्, तद्भावसिद्धिः – पीतादिभावसिद्धिः स चेद् निश्वयः, अन्यदर्शनादप्यन्यविषयो भवति श्रप्रमाणिका ऽन्यसत्ता, इह तावत्प्रक्रमादन्यत् पीतादि ततश्चाप्रमाणिका पीतादिसत्तेति कृत्वा विश्वस्य सर्वस्य नीलमात्रतापत्तिः, यावत् किञ्चित् सत् तत्सर्वे नीलमिति पीतादिनिश्चयस्तु नीलदर्शनादेवेनि न्यायोपपत्तेः भिन्नदर्शनविषयाः पीतादिदर्शनविषयाः पीतादय इति चेत् । एतदाशङ्कयाह- नेत्यादि । न-नैतदेवं तेषां दर्शनानाम्, अनिश्चयात्मकत्वेन हेतुना, तथा तानधिगतेः पीतादिरूपतया भिन्नताऽनधिगतेः । न चेत्यादि । न च तनिश्ववात्-पीतादिनिश्चयात् तदधिगतिर्दर्शनानां तथा भिन्नताधिगतिर्युक्ता । कुत इत्याह-तस्य सामान्येन निश्चयस्य अन्यतोऽपि दर्शनान्तरादपि, भावेन हेतुना तत्प्रतिबन्धासिद्धेः पीतादिदर्शनभेदेन सह पीतादनिश्चयस्य प्रतिबन्धासिद्धेः । स पीतादिनिश्चयः, पारम्पर्येण तद्दर्शनसामर्थ्याद्भूत एव-पीतादिदर्शन सामथ्र्यद्भूत एव कुत इत्याह- सदाऽतद्दर्शिनः पीताद्यदर्शिनः; अभावादिति चेत् । एतदाशङ्कयाह - नेत्यादि । न-नैतदेवम् इत्थमेवं, सर्वत्रानाश्वासेन हेतुना । किमित्याह- असम
Personal Use Only
www.jainelibrary.org