________________
सामरविसेस
विष्टाभिलापम् ' अहिरहि:' इति योजकं दर्शकं च धारावाहि तथा व्यवहारबीजं प्रतिप्राण्यनुभवसिद्धमेव । न चेहान्यदेवदर्शनम्, अन्य एव च विकल्पः, विकल्पेनाsदर्शनात् दर्शनेन चाचिकल्पनात् तयोर सहव तेरुपादानादिभावात् । इत्येकमेवेदमिति ॥
,
( ६४७ ) अभिराजेन्द्रः ।
Jain Education International
न चेत्यादि । न चैतत्-शब्दोऽपि तद्योग्यद्रव्येभ्य इति यदुक्तमेतत् श्रभ्युपगममात्रम्, अपि तु सोपपत्तिकमित्यभि प्रायः । कुत इत्याह- तावदित्यादि । तावत्संघातजस्यैव रूपालोकमनस्कारचक्षुः शब्दसंघातजस्थैव ' विकल्पशा - नस्य इति प्रक्रमः तथा तेन निश्चितप्रकारेणाऽथग्रहणस्वभावत्वात् । एतचैवमर्थग्रहणस्वभावत्वम्, अविगान सः - अविगानेन, तथा तेन प्रकारेणाऽनुभवसिद्धेः, अनुभवसिद्धिश्चैवमेव व्यवहारदर्शनादिति । एतदेव निदर्शनेनाह-तथाहीत्यादि । तथाहीत्युपदर्शने एनद्-वदयमाणम्, इन्द्रियद्वारानुसार्येव तद्व्यापाराऽभावेऽमावात् विज्ञानम्। किंविशिटमित्याह श्राविष्टाभिलाषं प्रविष्टशब्दं शब्दसम्मिश्र मित्यर्थः किंविशिष्टमित्याह श्रह्निरहिः - सर्पः सर्प इत्येवं योजकं शब्दस्थ, दर्शकं चार्थस्येन्द्रियव्यापारेण, धारावाहि तथा सन्तानप्रवृत्तम् । एतदेव विशेष्यते व्यवहारबीजमिति । ततस्तथाविधव्यवहारसिद्धेः, प्रतिप्राण्यनुभवसिद्धमेव प्राणिनं प्राणिनं प्रति ततद्द्रष्टुपेक्षया प्रतिप्राणि, प्रतिग्रामभिक्षालाभवत्, अनुभवसिद्धमेव नेह कस्यचिद् विगानमिति । न चेहेत्यादि । न चेह प्रस्तुते ज्ञाने, अन्यदेव दर्शनं निर्विकल्पकम् अन्य एव च विकल्पो निश्चयात्मकः । कुत इत्याह-विकल्पेनादर्शनात् । कान्तादिविकल्पे तथानुभवसिद्धमतत् दर्शनेन चाविकल्पनात् अनभिप्रेतभूतृष्णादिदर्शने एतदपि सिद्धमेव । तथा तयोर्देर्शन विकल्पयाः, असहवृत्तेर्युपदवृत्तरित्यर्थः । कुत इत्याह- उपादानादिभावात् श्रवग्रहादिक्रमेणोपादानोपादयभावादित्यर्थः इत्येवम्, एकमेवेदमधकृतं विज्ञानमिति ।
स्यादेतत् सविकल्पाविकल्पयोर्विज्ञानयोः स्वभावभेदेऽ पिप्रतिभासभेदेन युगपतेर्विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यवस्यति, न तु तथा तत्, अन्यत्रानयोर्यौगपद्येऽपि भेददर्शनात्, अतीताद्यर्थगत विकल्पेनापीन्द्रियज्ञानतो रूपादिग्रहणसिद्धेः । न च स विकल्पो रूपाद्येव गृणातीति अस्त्वेवमपि को दोष इति चेत् । निवृतेदानीमिन्द्रियज्ञाशक्यं कल्पयितुम्, तस्यातीताद्यर्थाभिधायकत्वत्यागतो नवार्ता, अभिधानविशेषस्मृतरयोगात्, सति दर्शनेऽ वर्तमानार्थयोजनेन प्रवृत्तिप्राप्तेः । नापि वर्तमानार्थाभिधार्थसन्निधौ दृष्टे शब्दे ततः स्मृतिः स्यात्, अग्निधूमवत् । नसंसर्गी तदाऽपरो विकल्पः समस्ति, द्वयोर्विकल्पयोः सममप्रवृत्तेः, अविगानेन तथानुभवाभावात् श्रतोऽत्र प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानार्थनामाऽग्रहः स्पष्ट एव । तन्नामग्रहणसम्भूता च कल्पना तन्नामग्रहाभावे कल्पनाऽ भावः । इति सिद्धमविकल्पकमिन्द्रियज्ञानम् अतोऽन्य एव च विकल्प इति न क्वचिदनयोरैक्यम्, न्यायानुपपत्तेः, भिन्नजातीयत्वादिति । इतचैतदेवम् । अन्यथा स्वाभिधानविशेषण var एवार्था विज्ञानैर्व्ययमीयन्त इति प्राप्तम् ॥
•
न चायमशब्दमर्थं पश्यति, अपश्यन् न शब्दविशेषमनुस्मरति, अननुस्मरन्न योजयति, प्रयोजयन्न प्रत्येति, इत्यायामान्ध्यमशेषस्य जगतः । अभिपतनेवार्थः प्रचो धयत्यान्तरं संस्कारं तेन स्मृतिः, नार्थदर्शनादिति चे त् । न । तत्संबन्धस्यास्वाभाविकत्वात्, समयादर्शनभावात् पुरुषेच्छातोऽर्थानां स्वभावापरावृत्तेर्न समयकालोत्पत्तिः स्वभावस्य परावृत्तौ च तस्य तादात्म्यात्, अन्यस्यासमयदर्शिनोऽपि स्यात् न हि प्रतिपुरुषमर्थान
,
•
सामण्णविमेस
पराभिप्रायमाह - स्यादेतदित्यादिना । स्यादेतदथैवं मन्यसे, सविकल्पविकल्प पोर्विज्ञानयोः सामान्येन स्वभावभेदेऽपि स
ति, प्रतिभासभेदेन हेतुना युगपद वृत्तेः कारणात् विमूढ प्रतिपत्ता पुरुषः, तमपश्यन्वभावभेदम्, ऐक्यं व्यवस्यति तयोः सविकल्पविकल्पयोः, न तु तथा तत् न पुनस्तदैक्यमेव । कुत इत्याह- अन्यत्र जातिभेदे, अनयोः सविकल्पा विकल्पयोः, यौगपद्येऽपि सति भेददर्शनात् । एतदेवाह - प्रतीताद्यर्थगतविकल्पेनापि प्रमात्रा, इन्द्रि ज्ञानतः - इन्द्रियज्ञानेन, रूपादिग्रहणसिद्धेः । कस्येत्याह – अन्यस्याश्रुतत्वात् तस्यैव प्रमातुः । न चेत्यादि । न च स विकल्पोऽतीताद्यर्थगतः, रूपाद्येव गृह्णाति 'वार्तमानिकम् ' इति प्रक्रमः इत्येवं शक्यं कल्पयितुम् । कुतो न शक्यमित्याह तस्येत्यादि । तस्यातीताद्यर्थगतविकल्पस्य , श्रतीताद्यभिधायकत्वत्यागतोऽतीतादिवाचक शब्दादित्यागतः । वर्तमानार्थ योजनेनेति । वर्तमानोऽर्थोऽभिधेयो यस्य श्रभिधायकस्य ' इति प्रक्रमः स वर्तमानार्थस्तद्योजनेन प्रवृत्तिप्राप्तेः कारणात् । नापीत्यादिना । नापि वर्तमानार्थाभिधानेन संसृज्यते तच्छीलचेति विग्रहः, तदा तस्मिन्नेव काले अपरो विकल्पः समस्तिविद्यते । कुत इत्याह-द्वयोर्विकल्पयोः समं युगपत् अ वृत्तेः कारणात् । श्रप्रवृत्तिश्वाचिगानेनाऽविप्रतिपस्या तथा तेन समकालभावेनाऽनुभवाभावात् । अत इत्यादि । अतः स्थितमेतत् प्रत्युत्पन्नविषयग्रहणकाले दृश्यमानार्थनामाऽ ग्रहः स्पष्ट एव । यदि नामैवं ततः किमित्याह -तनामग्रहणेन संभूता तन्नामग्रहणसंभूता एवंभूता च कल्पना । ततः किमित्याह- तन्नामग्रहाभांव कल्पनाभाव इति कृत्वा, सिद्धमविकल्प कमिन्द्रियज्ञानम् । अत इन्द्रियज्ञानात्, अन्य एव च विकल्प इत्येवं, न क्वचित् सजातीयादौ श्रनयोदर्शन विकल्पयोः, ऐक्यम् - एकभावः, न्यायानुपपत्तेः इयं चोक्लेव | सर्वगर्भ त्वाह-भिन्नजातीयत्वात् । सामान्येनैव दशेनविकल्पयेोरिति 'इतश्चैतदेवमङ्गीकर्तव्यम्' इति शेषः । श्रन्यथैवमनभ्युपगमे स्वाभिधानविशेषणापेक्षा पवार्था वि ज्ञानव्यवसीयन्त इति प्राप्तं, व्यवसीयन्तेः प्रतीयन्त इत्यर्थः । कीदृशा इत्याह-स्वाभिधानेत्यादि । स्वाभिधानमेव वि शेषणं व्यवच्छेदकत्वात् तस्मिन्नपेक्षा येषामर्थानामिति विग्रहः ।
For Private
T
Personal Use Only
www.jainelibrary.org