________________
( ६१६) अभिधानराजेन्द्रः ।
ववहार
( को जीतव्यवहारं प्रयुञ्जीत इति 'जीयववदार' शब्देचतुर्थभाग १५१४ पृष्ठे उक्तम् । )
निगमनम् -
एवं जहोवदिट्ठ-स्स धीरविचो देसिओ पसत्थस्स । नदी ववहार-स्स को इ कहिओ समासेणं ॥ ६६०॥ एवम् उक्तेन प्रकारेण पञ्चविधस्य धीरैः तीर्थकर गणधरैर्यथाक्रमतः सूत्रतश्च देशितो विदः - चतुर्दशपूर्वधरास्तैः प्रशस्तः --- प्रशंसितस्तस्य निष्पन्दः कोऽपि कथितः समासेन विस्तरेणाऽभिधातुमशक्यत्वात् ।
तथा चाह
को वित्रेण तू - समत्तो गिरवसेसिए एत्थ । ववहारे जस्समुह, हवेज जीहायसहस्सं । ६६१ ॥ किं पुण गुणवएसो, ववहारस्स उ विओो पसत्थस्स । एसो मे परिकहिओ, दुवालसंगस्स रावणीयं ॥ ६६२ || यस्य मुखं जिह्वाशतसहस्रं जिद्दालक्षं भवेत्, सोऽपि को नाम व्यवहारे-व्यवहारसूत्रस्य निरवशेषितान् गुणान् वक्तुं समर्थो नैव कश्चित् किंत्वेष व्यवहारस्य-व्यवहारसूत्रस्य किञ्चित् प्रशस्तस्य चतुर्दशपूर्वधरभद्रबाहुस्वामिना दत्तस्य गुणोपदेशो- गुणोत्पादननिमित्तमुपदेशो ( भे) भवतां कथितः । किं विशिष्ट इत्याह-दशाङ्गस्य नवतीतमिव सारमित्यर्थः । व्य० १० उ० ।
व्यवहारो यथाऽऽचार्येण कर्तव्यस्तदाहकिह पुरा कज्जमक, करेज आहारमादिसंगहितो । जह कम्म वि नगरम्मि, उप्पलं संघकजं तु ३०३ ॥ कथं पुनराहारादिसंगृहीतः सन् कार्यमुपलक्षणमेतत् अकार्यमपि करोति । अत्र सूरिर्निदर्शनमाह-यथा - कस्मिं चिन्नगरे किमपि सङ्ग्रकार्यमुत्पन्नं सचित्तादिनिमित्तं वास्त व्यसङ्घस्य व्यवहारो जात इत्यर्थः । स च वास्तव्य संङ्घन छेत्तुं न शक्यते ।
बहुसुयपरिवारो य, आगतो तत्थ कोइ आयरितो । तेहि य नागरगेहि, सो उ नियुतो उ ववहारे ||३०४ || श्रन्यदा कोडप्याचार्यो बहुश्रुतो बहुपरिवारस्तत्र नगरे समागतः, स च तैर्नागरकैः- नगरवास्तव्येन सङ्केनेत्यर्थः । नियुक्तो व्यवहारे बहुश्रुतस्त्वम् श्रत एव व्यवहारं छिन्धि । नाये छ वहारे, कुलगणसंघेण कीरइ पमाणं । तो सेवितं पवत्ता, आहारादीहि कजी य ।। ३०५ ॥ एवमुक्ते तेन न्यायेन श्रुतोपदेशेन व्यवहारश्छिन्नः । ततः कुलगण संघेन स प्रमाणं क्रियते । एष बहुश्रुतो न चश्रुतोत्तर किमपि वदति, तस्माद्यदेष भाषते तत्प्रमाणमिति, एवं च प्रमाणीकृते तस्मिन् श्रावकसिद्धपुत्रादयः कायिकादयस्तत्कार्यार्थिन' सन्तस्तमाहारादिभिः सेवितुं प्रवृत्ताः स च तान्याहारादीनि दीयमानानि गृह्णाति । तो छिंदि पउत्तो, निस्साए तत्थ सो उ ववहारं । पच्चत्थीहिं नायं, जह छिंदइ एस निस्साए ।। ३०६ ॥ ततः श्राहारादिग्रहणानन्तरं स तत्र नगरे व्यवहारं निश्रया पक्षपातेन छेतुं प्रवृत्तः ततो ये आहारादिकं न दत्तवन्तस्ते तस्य प्रत्यर्थिनस्तैः प्रत्यर्थिभिर्शतम्, यथा एष व्यवहारं निगा छिन ।
Jain Education International
ववहार
को हु हवे अन्न, जो नाएगं नएज ववहारं । अह अन्नय समवाओ, घुट्ठो आयो य तत्थ विऊ ||३०७॥ ततस्ते प्रत्यर्थिनश्चिन्तयन्ति । को 'नु' 'हु' निश्चितं भवेदन्यो गीतार्थो यो न्यायेम व्यवहारं नयेत् । अथान्यदा सचित्तादिव्यवहारच्छेदनार्थ संघसमवायो घुष्टो घोषितः, संघसमवायघोषणां श्रुत्वा तथा संघसमवायविदः विद्वान् सूत्रार्थतदुभयकुशलो ऽन्यः प्राघूर्षकः कोऽपि समागतः ।
(E) इह समवाय घोषणामाकर्ण्य धूलीधूसरैरपि वादे श्रवश्यमागन्तव्यमन्यथा प्रायश्चित्तमित्येतदधुना प्रतिपादयतिघुट्टम्म संघकजे, धूलीजंघो वि जो न एजाहि । कुलगणसँघसमवाए, लग्गति गुरुगे चउम्मासे || ३०८ || जं काहिंति अकजं, तं पावइ बले अगच्छंतो । अमाइ ताव तो हा-ण मादि जं कुञ्ज तं पावे ॥ ३०६ ॥ घुष्टे - घोषिते संघकार्ये संघसमवाये धूलीजहोऽपि श्रस्तामन्य इत्यपिशब्दार्थः । धूल्या धूसरे जङ्घे यस्य स धूलीजङ्गः, शाकपार्थिवादिदर्शनान्मध्यम पदलोपी समासः । सङ्घसमवाय घोषणामाकर्ण्य प्राघूसकेनापि पादलनायामपि धूलावप्रमत्ततया त्वरितमवश्यमा गन्तव्यमिति ज्ञापनार्थम् । धूलीजवोऽपीत्युपादाने सति बले यो न श्रागच्छेत्, कुलसमवाये गणसमवाये सङ्घसमवाये वा गुरुके चतुर्मासे लगतिः तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः । न केवलमेतत् किं त्वदन्यदपि । तथा चाह - ' जं काहि ' इत्यादि, सति बले आगच्छन् व्यवहारोच्छेदाकार्यकरणतो वान्यैरन्यथा छिन्ने व्यवहारे यत् कार्य ते व्यवहारार्थिनः करिष्यन्ति तत्प्राप्नोति तनिमित्तमपि प्रायश्चित्तं तस्यापद्यते इत्यर्थः । अन्यदपि चापमानवशतो यदवधावनादि कुर्यात्तदपि प्राप्नोति ।
धू
तम्हा उ संघस, घुट्ठे गंतव्त्र धूलिजंघेणं । धूलीजंघनिमित्तं ववहारो उट्ठितो सम्मं ।। ३१० ॥ यत एवमनागमने दोषास्तस्मात्सङ्घशब्दे घुटे घोषिते लीजङ्केनाप्यवश्यं सति बले गन्तव्यम् । यतः कदाचित् धूलीजनिमित्तं व्यवहारः सम्यगुत्थितो भवेत्, यथा-प्राघूर्लको गीतार्थो धूलीजङ्घः समागतः सन् यद् भणिष्यति तत्प्रमाणमिति ।
,
,
ते य सुर्य जसो, तेल्लघयादीहि संगहीतो उ । कजाई नेति तर्हि, माई पावोवजीवी उ ॥ ३११ ॥ तेन च धूलीजङ्खेनाऽऽगच्छतैव कस्यापि पार्श्वे श्रुतम्, यथैष वास्तव्यो व्यवहारच्छेत्ता तैलघृतादिभिः संगृहीतः सन् मायी अभीक्ष्णं मायाप्रतिसेवी पापोपजीवी कोराटलायुपजीवी वितथमुत्सूत्रं कार्याणि नयति ।
For Private Personal Use Only
सो तो उसंतो, त्रितहं दट्टण तत्थ ववहारं । समएण निवारेई, कीस इमं कीरइ अकजं ।। ३१२ ॥ एवं श्रुत्वा समागतः सन् तूष्णीकस्तावदास्ते यावन्स्त्रै निर्दिश्यमानं व्यवहारं पश्यति तं च तथाभूतं बितथं व्यवहारं दृष्ट्रा समयेन सिद्धान्तेन निवारयति, यकस्मादिदमकार्य कियते ।
www.jainelibrary.org