________________
( ८५२ ) अभिधान राजेन्द्रः ।
वत्थ
क्षेत्र कालविभागस्तं प्राप्तानि प्रथमसमवसरणोदेशप्राप्तानि, लानि - बलाणि प्रतिग्रहीतुम्, किमुक्तं भवति-इह साध वो पत्र वर्षावासं चिकीर्षवस्तत्क्षेत्रं यावताऽपि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगति तावत् कल्पन्ते वस्त्राणि परिग्रहीतुम् । अथ वर्षावासप्रायोग्य क्षेत्र प्राप्ताः आषाढपूर्णिमा व संजाता तत इयन्तं क्षेत्रकालविभागं प्राप्तानि वस्त्राणि न कल्पन्ते । द्वितीयसमव सरणोद्देशप्राप्तानि तु कल्पन्ते इति सूत्रसंक्षेपार्थः ।
साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाहपढमंसि समोसरणे, उद्देसकडं ण कप्पती जस्स । तस्स व किं कप्पंती, उग्गमदोसा उ अवसेसा ॥ ५४८ ॥ इह परः प्रस्तुतसूत्रस्योपरि परम्पराघातमनन्तरोक्तमर्थमनवबुद्धयमानः प्रेरयति । नतु च सूत्रे ' उद्देपत्ता ति यत्पवं तस्यायमर्थः । उद्देशानमुद्देशः प्रौद्देशिकास्यो द्वितीय उद्गमदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, पतच न युज्यते, यतो-यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादिन कल्पते तस्य च शेषाः कर्मादयः पञ्चदशोङ्गमदोषाः किं कल्पन्ते ? यदेवमुदेशकृतमेव प्रतिषिध्यते ।
पर एव सूरीणामभिप्रायमाशङ्क्य परिहरतिउद्देसग्गहखेण व, उग्गमदोसा उ सव्वे जति गहिता । उप्पादखादिसैसा, तम्हा कप्पंति किं दोसा ।। ५४६ ॥ अथैकग्रहणे तज्जातीयग्रहणामति न्यायादुद्देशग्रहणेन सdsप्युनमदोषा गृहीताः । एवं तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते येनोद्गमदोषा एव गृह्यन्ते ।
पर एवाचार्य शिक्षयमाण इदमाहहवा उहिस्सकता, एसणदोसा वि होंति गहिता तु । श्रादीयं तग्गहये, गहिया उप्पादणा वि तहिं ॥ ५५० ॥ अथवा - यस्मादेषणादोषा अपि साधूनुद्दिश्य - प्रणिधाय कृताः, श्रत उद्देशग्रहणेन तेऽपि गृहीताः । एवं वाद्यस्योनमदोषकलापस्यान्यस्य चैषणादोषजालस्य ग्रहणे उत्पादना दोषा अपि गृहीता अत्र मन्तव्याः । आद्यन्तप्रहणे मध्यस्यापि ग्रहणमिति न्यायात् । अतो द्वाचत्वारिंशदपि दोषा न कल्पन्ते इति सिद्धम् ।
एवमाचार्यस्याकृत्यमाशङ्कय दूषणान्तरमाह
एए अ तस्स दोसा, उडुबद्धे जं च कप्पते घेत्तुं । कोई भणिज दो वि, ण कप्पत्ति सुत्तं तु सूएति । ५५१ | यथैवं सामर्थ्याक्षिप्ता द्वाचत्वारिंशदपि दोषाः प्रथमसमवसरणे प्रतिषिद्धास्तर्हि ऋऋतुबद्धास्ये द्वितीय समवसरणे एते सर्वेऽपि दोषास्तस्य साधोः कल्पन्ते?, यथाऽत्रैव सूत्रे अभि हितम् - कल्पन्ते द्वितीयसमवसरणे उद्देशप्राप्तानि चेलानि प्र तिग्रहीतुमतोऽपि शाप्यते द्वितीयसमवसरणे द्वाचत्वारिंशद्दोषदुष्टमपि कल्पते, एवं कश्चित्परो भणेत् । तत्र सूरिराह-द्वयोरपि समवसरण्योर्न कल्पते । योऽपि परः प्राह यद्ययं द्वितीयेऽपि समवसरणे प्रतिषेधयथ तन्न युज्यते । यतः श्रुतं सूत्रमेव कल्पते इति ब्रुवाणमनुज्ञां सूत्रयति । अपि वाएवं सुत्तविरोधो, दोचम्मि य कप्पतीति जं भणितं ।
Jain Education International
For Private
वत्थ
सुवितो जम्म तु तं पुण वोच्छं समासेणं ॥ ५५२ ।। एवं भवतां सूत्रेण समं विरोधः प्राप्नोति, यतः सूत्रे द्वितीये समवसरणे कल्पत इति भणितम् । श्रथ गुरुराह - सर्वमध्येतदाकाशकुसुममिव लक्ष्यते । सूत्राभिप्रायमनवबुध्यैव यथा प्रलपनात् । कः पुनः सूत्राभिप्राय इति चेदत श्राह यस्मिन्नर्थे सूत्रस्य निपातो ऽवतारस्तं शृणु समासेन- संक्षेपेण वक्ष्येऽहम्
सम सरणे उद्देसे, छव्विधिपत्ताण दोएह पडिसेधो । अप्पत्ताण उ गहणं, उवधिस्स उ सातिरेगस्स || ५५३ || प्रथमसमवसरणं ज्येष्ठावग्रहो वर्षावास इति चैकार्थम्, द्वितीय समवसरणम् । ऋतुबद्ध इति चैकार्थम्, तत्र य उद्देशस्तद्विषयः षविधो निक्षेपः कर्त्तव्यः ।' पत्ताण दुराह पडिसेहो ' ति श्रार्षत्वाद्विभक्तियत्ययः, द्वाभ्यां - क्षेत्रकालाभ्यां प्राप्तानां वस्त्रादिग्रहणे प्रतिषेधो भवति, श्रप्राप्तानां तु सातिरेकस्योपधेर्ग्रहणं भवतीति नियुक्तिगाथासमासार्थः । ( अथ विस्तरार्थ ' उद्देल' शब्दे द्वितीयभागे ७६५ पृष्ठे गतः । ) तत्र क्षेत्रोद्देशेन · कालोद्देशेन वाऽधिकारः । शेषास्तु विनेयव्युत्पादनार्थमुश्चारितार्थसदृशा इति कृत्वा प्ररूपिताः, तदव परेण यदुमौदेशिकं प्रतिपादितं तत्राधिकृतमिति स्थितम्
अथ प्राप्तानामिति पदं व्याख्यातिखित्तेण य कालेख य, पत्तापत्ताण हुंति चउभङ्गो । दोहि विपत्तो ततिओ, पढमो बितिओ य एक्केणं ॥ ५५७॥ क्षेत्रेण काले च प्राप्तानां चतुर्भङ्गी भवति । क्षेत्रेण प्राप्ता न कालेन १, कालेन प्राप्ता न क्षेत्रेण २, क्षेत्रेण कालेन च ३, प्राप्ताः, नापि क्षेत्रेण नापि कालेन ४, अत्र तृतीयो भङ्गो द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्तः । चतुर्थः
पुनरुभाभ्यामप्यप्राप्तः ।
अथामूनेव भङ्गान् भावयतिवासाखित्तपुरोक्खड-उडुबद्धठियाण खेत्तो पत्तो । श्रद्धाणमादिहिं, दुल्लभखित्ते च वीओ उ ।। ५५८ ॥ वर्षाक्षेत्रे पुरस्कृतं प्रथमत ऋतुबद्धकाले स्थितानां क्षेश्रतः प्राप्ता इति प्रथमो भङ्गो भवति । इयमत्र भावना- ऋतुबद्धे चरमो मासकल्पो यत्र कृतः । श्रन्यच्च वर्षावासप्रायोग्यं क्षेत्रं नास्ति ततस्तत्रैव वर्षावासं कर्तुका - माढपूर्णिमामद्याप्यप्राप्नुवन्तः प्राप्ता न काल इत्याद्यो भङ्गो भवति श्रध्वप्रतिपन्नतादिभिः कारणैर्दुर्लभे वा वर्षावासप्रायोग्ये क्षेत्रे श्रपान्तराल एव श्राषाढपूर्णिमा संजाता एवं द्वितीयो भङ्गो भवति ।
साढपुलिमाए, ठिया उ दोहिं पि होंति पसाउ | तत्थेव य पडिसिज्झइ, गहणं ग उ सेसभङ्गेसु ॥५५६ ॥ वर्षाक्षेत्रे आषाढपूर्णिमायां ये स्थिता ते द्वाभ्यामपि दोकालाभ्यां प्राप्ता भवन्ति, आषाढपूर्णिमामासप्राप्तानामन्तरा श्रध्वनि वर्त्तमानानाम् ऋऋतुबद्धे मासकल्पे भवा श्र न्यत्र क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति । श्रथ च तत्रैव तृतीयभङ्ग एव वस्त्रादीनां ग्रहणं प्रतिषिध्यते, न शेषेषु - प्रथमद्वितीयचतुर्थभङ्गेषु एकतरेण द्वाभ्यां वा श्रप्रासत्वात् । एतेन 'दोरह पडिसेहो ' त्ति व्याख्यातम् । श्र
Personal Use Only
www.jainelibrary.org